________________
३१६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १२९.३९
चिन्तयित्वा चिरं चक्री सुतमाहूय सत्वरम् । राज्यपठ्ठे बबन्धास्य समस्तनृपसाक्षिकम् ॥ ३९ ॥ बाह्यमाभ्यन्तरं संगं हित्वा सर्वं विशुद्धधीः । विनयंधरसामीप्ये प्रवत्राज स चक्रभृत् ॥ ४० ॥ देवौ सनत्कुमारस्य वैराग्यं दीक्षणं तथा । विधाय तोषसंपूणौं जग्मतुर्दिवमात्मनः ॥ ४१ ॥ अयं षष्ठोपवासान्ते सज्वरो धर्मतत्परः । विवेश नगरं योगी भिक्षार्थं क्रमयोगतः ॥ ४२ ॥ · दत्तं चीरकभक्तेन साजातक्रेण भोजनम् । देवदत्ताभिधानेन नरेणास्य मुनेस्तदा ॥ ४३ ॥ भुक्त्वा तद्भोजनं भूयः स साधुः प्रीतमानसः । षष्ठोपवासमादत्ते महावैराग्यसंगतः ॥ ४४ ॥ तद्दोषेण मुनेरस्य कच्छूश्वास ज्वरादयः । समाशतं समुद्भूता व्याधयोऽसुखकारणाः ॥ ४५ ॥ उग्रं तपस्तपो दीप्तं महदादि प्रकुर्वतः । मनसा वचसा तन्वा शुद्धस्यास्य मुनेस्तदा ॥ ४६ ॥ आमखेलौषधिः पूर्वं विष्टाजल्लौषधिस्तथा । सर्वौषध्यादयो जाता नूनमौषधिसिद्धयः ॥ ४७ ॥ 10 एता सनत्कुमारस्य तपो विदधतः परम् । प्रतीकारं न कुर्वन्ति पूर्वकर्मानुभावतः ॥ ४८ ॥ सौधर्मेन्द्रेण भूयोऽपि स्थितेन सुरसंसदि । स्तुतः सनत्कुमारोऽयं कुर्वता मुनिवर्णनम् ॥ ४९ ॥ अहो सनत्कुमारस्य प्रथितं परमं तपः । अध्यासितोऽमुना तीव्रस्तथा वाधिपरीषहः ॥ ५० ॥ सौधर्मेन्द्रवचः श्रुत्वा तावेव विबुधौ पुनः । संप्राप्य वैद्यवेषेण प्रोचतुर्मुनिपुङ्गवम् ॥ ५१ ॥ साधुधर्मशरीरस्य त्वदीयस्य महामुने । आवां सुपुण्यवृत्त्यर्थं कुर्वे व्याधिविनाशनम् ॥ ५२ ॥ 15 श्रुत्वा सनत्कुमारोऽपि तदीयं वचनं मुदा । उवाच तौ स्थितौ तस्य पुरतः कुटिलाशयौ ॥ ५३ ॥ यदि वैद्यौ भवन्तौ च प्रसिद्धौ भुवि कोविदौ । संसारव्याधिमत्युग्रं निराकुरुत मे ततः ॥ ५४ ॥ निशम्य तद्वचो भूयो देवौ तावूचतुर्मुनिम् । नूनमावां निराकर्तुं संसारव्याधिममौ ॥ ५५ ॥ समस्तभुवनख्यातो महावैद्यो रुजापहः । अमुं त्वमेकयोगीन्द्र निराकर्तुमलं प्रभो ॥ ५६ ॥ एवं निगद्य तं साधुं तोषविस्फारितेक्षणौ । भूयोऽपि तन्नुतिं कृत्वा जग्मतुस्तौ सुरालयम् ॥ ५७ ॥ 20 साधुः सनत्कुमारोऽपि कृत्वा कर्मविनाशनम् । अनन्तसुखसंयुक्तं प्रययौ सिद्धिपत्तनम् ॥ ५८ ॥ ॥ इति श्रीसनत्कुमारचक्रीकथानकमिदम् ॥ १२९ ॥
१३०. एणिका पुत्रकथानकम् ।
१ ॥
वैदिशाख्यपुरे चासीत् प्रजापालो महीपतिः । सुनन्दा कामिनी तस्य हरिणी लोललोचना ॥ तस्यैव भूपतेरासीदानन्दाख्यो महाधनः । राजश्रेष्ठी जनानन्दो नन्दिताशेषबान्धवः ॥ २ ॥ 25 अभवत् तत्प्रिया चावीं सुनन्दा भुवि विश्रुता । पद्मावत्यादिका जाताः सुताः सप्तानयोः पराः ॥ ३ ॥ एणिका नाम विख्याता चावीं सर्वकनीयसी । दत्ता सागरदत्ताय श्रेष्ठिने जनकेन सा ॥ ४ ॥ अनयोरैणिकापुत्रो नन्दनोऽभवदिद्धधीः । महाविभवसंपन्नो धर्मैकरसिकस्तराम् ॥ ५ ॥ वर्धमानजिनः पृष्टस्तेनायुः स्वस्य जातुचित् । स्तोकमायुः समाख्यातं महावीरेण तस्य च ॥ ६ ॥ श्रुत्वाऽयं सन्मतेर्वाक्यं संसारत्रस्तमानसः । प्रवत्राज जिनस्यान्ते महावैराग्यसंयुतः ॥ ७ ॥ ग्रामादिकं कदाचिच्च विहरन् गतियोगतः । उत्तरीतुं समारूढो नावं गङ्गानदीमसौ ॥ ८ ॥ गङ्गानदीजलान्तेऽसौ नौर्निमग्ना निमूलतः । समाधिमरणं प्राप्य निर्वाणमगमत् सकः ॥ ९ ॥ ॥ इति श्रीणिका पुत्रकथानकमिदम् ॥ १३० ॥
30
*
1 पफज षट्कुलकमिदम्. 2 पफज युगलमिदम्. 3 [ व्याधिपरीषहः ] 4 पफज युगलमिदम्. 5 पफज युगलमिदम्. 6 पफज युगलमिदम्. 7 पफज त्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org