________________
- १२९. ३८ ]
सनत्कुमारचक्रीकथानकम्
एवमस्मिन् स्थिते चक्रे देवः संगमनामकः । ईशानकल्पतः प्राप सौधर्मेन्द्रसमीपताम् ॥ ५॥ तस्मिन् समागते देवे नष्टं तेजोऽमरेशिनाम् । नूनं चन्द्रगणस्येव दिननाथोदये सति ॥ ६ ॥ ततो विस्मितचेतोभिः शक्रः पृष्टः सुरैरिदम् । केनेश कारणेनायं ब्रूहि देवो रविप्रभः ॥ ७ ॥ निशम्य तद्वचस्तत्र सौधर्मेन्द्रो जगावमुम् । आचाम्लवर्धमानाख्यं तपोऽनेन कृतं पुरा ॥ ८ ॥ भूयोऽपि गदितो देवैः पुनरुक्तं पुरन्दरः । ईशोऽन्योऽपि किं रूपी विद्यते तेजसोज्वलः ॥ ९ ॥ ततो बिडौजसा प्रोक्ता भूयो देवाः पुरः स्थिताः । नितान्तं विस्मितस्त्रान्ताः करकुड्मलमस्तकाः ॥१०॥ हस्तिनागपुरे रूपी कुरुवंशसमुद्भवः । चक्री सनत्कुमाराख्यो विद्यते तेजसाऽधिकः ॥ ११ ॥ आखण्डलवचः श्रुत्वाऽसूयया विप्रवेषकृत् । विजयो वैजयन्तोऽपि तदन्तं विबुधोऽगमत् ॥१२॥ एतौ भूपान्तिकं प्राप्तौ प्रतिहारविसर्जितौ । आभ्यां विलोकितश्चक्री भ्रमंस्तैलावगुण्डितः ॥ १३ ॥ विलोक्य चक्रिणं देवौ विस्मयव्याप्तमानसौ । ऊचतुर्युगपत् तुष्टाविमं संसद्व्यवस्थितम् ॥ १४ ॥ ७ भो भो सनत्कुमारेदं तेजो रूपं च यौवनम् । यथेन्द्रभाषितं सर्वं विद्यते तेऽधिकं भुवि ॥ १५ ॥ गीर्वाणोदितमाकर्ण्य पृष्टौ तौ चक्रिणा तदा । कौ भवन्तौ कुतः प्राप्तौ ब्रूतं मे सांप्रतं शुभौ ॥१६॥ निशम्य चक्रिणो वाक्यं विस्मयाकुलचेतसौ । अवोचतामिदं देवौ नानासामन्तसेवितम् ॥ १७ ॥ सौधर्मसंसदि स्पष्टं तेजो रूपं च यौवनम् । भवतः पुण्ययुक्तस्य सौधर्मेन्द्रेण वर्णितम् ॥ १८ ॥ श्रद्दधानौ न सौरेशं वचनं सुरसंसदि । एतानि द्रष्टुमायातौ सुरौ सौधर्मनाकतः ॥ १९॥ रूपयौवनतेजांसि यादृशानि सुरेशिना । अधिकं तानि दृष्टानि तवावाभ्यां नराधिपः ॥ २० ॥ सांप्रतं वसुधानाथ नतसामन्तमण्डल । रूपादिगुणसंपन्न व्रजावो निजमालयम् ॥ २१ ॥ श्रुत्वाऽमरवचश्चकी रोमाञ्चाञ्चितविग्रहः । कृत्वा स्थितं स्मयेनैतौ वभाण सदसि स्थितः ॥ २२ ॥ भो भो सुरौ यदस्माकं रूपमिन्द्रेण वर्णितम् । भवद्भ्यां किं पुनर्दृष्टं तिष्ठतं घटिकाद्वयम् ॥ २३ ॥ विधाय मज्जनं यावत् कृत्वा मण्डनभूषणम् । आदाय पुष्पताम्बूलदिव्य वस्त्रादिकस्तथा ॥ २४ ॥ " सिंहासनस्थितस्यास्य मम सामन्तसेविनः । रूपयौवनतेजांसि पश्यतां सुरकुञ्जरौ ॥ २५ ॥ श्रुत्वा तद्वचनं देवौ कौतुकव्याप्तमानसौ । मुहूर्तमेकमन्यत्र स्थितौ तद्रूपमीक्षितुम् ॥ २६ ॥ स्नानं विलेपनं भव्यं कृत्वा निजतनौ तदा । आजुहाव सुरौ चक्री सिंहासनमधिष्ठितः ॥ २७ ॥ यौवनं रूपमालोक्य तेजोऽप्यस्य महीभृतः । इदं प्रोक्तं पुनस्ताभ्यां सुराभ्यां तत्पुरस्तदा ॥ २८ ॥ अहो रूपं बलं तेजो यौवनं च धनादिकम् । विद्युद्धनेन्द्र चापाभं प्रविनश्यति तत्क्षणात् ॥ २९ ॥ 25 श्रुत्वाऽमरोदितं चत्री महाविस्मयमागतः । वसुधाधिप देवानां रूपयौवनकादयः ॥ ३० ॥ प्रथमोत्पत्तिमारभ्य यावदायुः परिक्षयम् । तावद्रूपादिना देवा न मुच्यन्ते महाप्रभाः ॥ ३१ ॥ मनुष्याणां पुना राजन् वृद्धिं रूपादयो ययुः । यावद् युवत्वमेतच्च प्रसिद्धं सर्वजन्तुषु ॥ ३२ ॥ ततः पश्चादमी सर्वे हानिं गच्छन्ति देहिनाम् । यावज्जीवितपर्यन्तं तावज्जानीहि मद्वचः ॥ ३३ ॥ त्वद्यौवनोदये राजन् रूपं साधु विलोकितम् ' । आवाभ्यामधुना तद्धि गतं विच्छायतां क्षणात् ॥३४॥ " ततो देवोदितं श्रुत्वा चक्री विस्मितमानसः । पश्यति स्म निजं देहं छायया परिवर्जितम् ||३५|| चन्द्ररश्मिसमानाभहारराजितमप्यदः । वक्षस्स्थलं ददर्शायं नष्टलावण्यसंपदम् ॥ ३६ ॥ इमां निजतनूं दृष्ट्वा विच्छायां चत्रिनामकः । दध्यौ विस्मितचेतस् को महावैराग्यसंगतः ॥ ३७ ॥ एतावति गते काले रूपं तेजोऽपि यौवनम् । मम नष्टमिदं किं न शेषकाले विनश्यति ॥ ३८ ॥
1 पफज युगलमिदम्. 2 [ नराधिप ] 3 पफज चतुः कुलकमिदम्. 4 [ वस्त्रादिकं तथा ]. 5 पफज चतुः कुलकमिदम् 6 पफ मानुष्याणां 7 पफ विलोक्य तम्. ४ पफज चतुः कुलकमिदम्.
Jain Education International
३१५
For Private & Personal Use Only
15
www.jainelibrary.org