________________
5
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १२७, २८०
वैराग्याहितचेतस्को गृहवासविरक्तधीः । तुतोष भूपतिः सद्यो गन्धमादननामकः ॥ २८० ॥ दन्तिवाहनपुत्राय दत्त्वा राज्यं सुधीमते । कोशेभहरिदेशादिसमस्तजनसाक्षिकम् ॥ २८९ ॥ सामन्तशतसंयुक्तो हित्वा सर्वं परिग्रहम् । यशोधरान्तिके दीक्षां प्रददौ ' गन्धमादनः ॥ २८२ ॥ गन्धमादनपत्यो हि देवीरूपसमप्रभाः । दधुर्जेनेश्वरीं दीक्षां पद्मावत्यार्यिकान्तिके ॥ २८३ ॥ गन्धमादनयोगीशः कृत्वा नानाविधं तपः । जगाम ध्वस्तकर्मारिः सिद्धिं पाण्डुकपर्वते ॥ २८४ ॥ ॥ इति श्री सुकोशलकथानकमिदम् ॥ १२७ ॥
*
३१४
१२८. गजकुमारकथानकम् ।
सौराष्ट्रविषये चासीत् पुरी द्वारवती परा । अस्यां नराधिपः श्रीमान् वसुदेवो वसूपमः ॥ १ ॥ आसीद् गन्धर्वदत्ताख्या तत्प्रिया रूपशालिनी । अस्यां गजकुमाराख्यस्तनयः पुरुविक्रमः ॥ २ ॥ 10 अन्यदा पोदनाख्ये तु पुरे राजाऽपराजितः । अभवत् तत्प्रिया चावीं नाम्नेयमपराजिता ॥ ३ ॥ वसुदेवोपरि क्रूरो रोषपूरितमानसः । असौ संतिष्ठते मानी संपन्नो धनसंपदा ॥ ४ ॥ प्राध्वंकृत्य समुन्मत्तं यस्तमानयति द्रुतम् । मदन्तिकं ददाम्यस्मै वरमिष्टं विसंशयम् ॥ ५ ॥ इयं प्रघोषणा दत्ता वसुदेवेन तत्पुरे । नानाबन्धुसमेतेन कोपारुणितचक्षुषा ॥ ६॥ श्रुत्वा तां घोषणां तत्र निवार्य स्वकरेण सः । पोदनाभिमुखं यातः कुमारो गजपूर्वकः ॥ ७ ॥ 15 बद्ध्वा तं संयुगे भीमे चापराजितनामकम् । कुमारो वसुदेवस्य मुमोच पुरतो द्रुतम् ॥ ८ ॥ दृष्ट्वा तं भीषणं बद्धं वसुदेवो जगाविदम् । वरं ब्रूहि प्रदास्यामि ते कुमार मनोगतम् ॥ ९ ॥ वसुदेववचः श्रुत्वा कुमारो निजगाद तम् । स्वच्छन्दो विहाराम्यत्र पुरेऽहं त्वत्प्रसादतः ॥ १० ॥ वितीर्णे वसुदेवेन वरे तद्याचितेन सः । पुरमध्ये तदा स्वेच्छं कुमारो रमते तराम् ॥ ११ ॥ कुमारोऽनुदिनं तत्र पङ्गुलश्रेष्ठभार्यया । सुरत्या सह संतुष्टो रमते भयवर्जितः ॥ 20 विलोक्य पङ्गुलश्रेष्ठी कुमारं दुष्टचेष्टितम् । असमर्थो रुषं प्राप्य मनसि स्थितवानसौ ॥ अत्रान्तरे कुमारोऽयं नेमिनाथान्तिके मुदा । धर्मं श्रुत्वा प्रवत्राज वैराग्याहितमानसः ॥ ततो गजकुमारोऽपि कुर्वाणो विविधं तपः । प्राप रैवतकोद्यानं नानातरुविराजितम् ॥ पादोपगमनं मृत्युं वाञ्छन्नत्र वने सुधीः । उत्तानशय्यया तस्थौ कुमारो भयवर्जितः ॥ १६॥ ज्ञात्वा पङ्गुलकः श्रेष्ठी तदवस्थं महामुनिम् । लोहकीलान् समादाय तदन्तं प्राप कोपतः ॥ १७ ॥ दिक्षु सर्वासु कोपेन 'शरीरलोहकीलकैः । कीलयित्वा मुनेरस्य जगामायं स्वमालयम् ॥ १८ ॥ मुनिर्गजकुमाराख्यः सहित्वा वेदनामिमाम् । कालं कृत्वा समाधानाद् देवलोकं जगाम सः ॥१९॥ ॥ इति श्रीगजकुमारकथानकमिदम् ॥ १२८ ॥
१२ ॥
१३ ॥
25
*
१२९. सनत्कुमारचक्रीकथानकम् ।
कुरुजाङ्गलदेशेऽस्ति हस्तिनागपुरं परम् । कुरुवंशसमुद्भूतो विश्वसेनोऽत्र पार्थिवः ॥ १ ॥ 30 बभूव तन्महादेवी सहदेवी प्रियंवदा । पुत्रः सनत्कुमारोऽस्याश्चक्रवर्ती चतुर्थकः ॥ २ ॥ दशाङ्गभोगसंयुक्तं चक्रवर्ती सुखं सकः । रूपातिशयसंपन्नो भुञ्जानो व्यवतिष्ठते ॥ ३ ॥ अन्यदा प्रथमे कल्पे सौदामन्यादिनारकम् । पश्यन् वितिष्ठते शक्रो हरिविष्टरमास्थितः ॥ ४ ॥
1 पफज युगलमिदम् 2 [ प्रदधौ ] 3 पफज युगलमिदम्. 4 [ शरीरं ].
Jain Education International
१४ ॥
१५ ॥
For Private & Personal Use Only
www.jainelibrary.org