________________
-१२७. २७९ ] सुकोशलकथानकम्
३१३ ततः प्रज्ञप्तिरुत्थाय जगादेमं पुरःस्थितम् । करोमि प्रेषणं तेऽहमादेशं देहि मे प्रभो ॥ २४७॥ ततो विद्याकुमारेण प्रोक्ता तद्वचनेन सा । मनोहरीचरी ब्रूहि खेचरीमिदमादरात् ॥ २४८ ॥ विद्युन्मालीवचः श्रुत्वा प्राप्य सा तं जगाविति । मनोहरि स्मर क्षिप्रं पूर्वस्थानं प्रयत्नतः ॥२४९॥ विद्यादेवतया प्रोक्तं निशम्य द्रुतमादरात् । विरलोपपदा वेगा जाता जातिस्मरी पुनः॥२५० ॥ चण्डवेगोऽपि तां दृष्ट्वा तरां संतुष्टमानसः । विवाहं तत्समं चके वित्तसंयोगकारणात् ॥ २५१॥ गच्छन्तौ वापि तौ दृष्ट्वा हिमवत्पर्वतोपरि । सन्नीतौ पञ्चतावाप्तिं प्रतिसूर्येण संयुगे ॥ २५२ ॥ ततो गङ्गानदीतीरे वरे पश्चिमदक्षिणे । अस्ति कोशलदेशस्था साकेता नगरी परा ॥ २५३॥ अस्यां सागरसेनाख्यो विद्यते वणिजां पतिः । धनश्रीरस्य कान्ता च रूपातिशयशालिनी ॥२५४॥ विद्युन्मालीचरो मृत्वा रूपराजितविग्रहः । बभूव विनयोपेतः सिद्धार्थस्तनयोऽनयोः ॥ २५५ ॥ मगधाविषये चासीत् पुरे राजगृहाभिधे । समुद्रविजयः श्रेष्ठी तत्प्रिया सुमतिः प्रिया ॥ २५६ ॥1॥ ततो. विरलवेगाऽपि कालं कृत्वा सुताऽनयोः । बभूव सुन्दराकारा जयादिमतिरुत्तमा ॥ २५७ ॥ वितीर्णा जनकेनेयं सिद्धार्थेन प्रभावता । परिणीता विधानेन सा कान्ता श्रेष्ठिनाऽमुना ॥ २५८॥ अथ सौधोपरि स्पष्टं तिष्ठन् सत्कान्तया सह । विद्याधरयुगं गच्छद् गगने बालविग्रहम् ॥२५९॥ दृष्ट्वेदं सुन्दराकारं सिद्धार्थः प्रीतमानसः । मूर्छामासाद्य वेगेन जातो जातिस्मरः पुनः ॥२६॥ बालं विहाय मामेष महावैराग्यसंगतः। विनयंधरसामीप्ये दीक्षितो मत्पिता ध्रुवम् ॥ २६१ ॥ 15 विहरन् मगृहं विष्टो भिक्षार्थ मत्पिता ततः । धृतो न केनचित् साधुः सिद्धार्थः पूर्वबान्धवः ॥२६२॥ अहं च चण्डवेगाख्यः कालं कृत्वा महामनाः । जातो जयमतीगर्भ नूनं पुत्रः सुकोशलः ॥२६३॥ स्मरन् पञ्चभवान्यावत् सिद्धार्थखात्मनोऽपि च । तावद्वन्धुजनः सर्वो जयमत्या सहागतः ॥२६४॥ सुप्रभा तत्प्रिया प्राप्ता तदन्तं गुर्विणी प्रिया । गर्भस्थस्यैव पुत्रस्य राज्यं दत्त्वा तदाऽखिलम् ॥२६५॥ सिद्धार्थाख्यगुरोः पार्श्व सतस्तस्य महात्मनः । सुकोशलो दधौ दीक्षां तदा जैनेश्वरीं मुदे ॥२६६॥ 20 तदा जयमती करा चार्तध्यानपरायणा । कालं कृत्वाऽभवद् व्याघ्री मगधाविषये गिरौ ॥२६७॥ अथ तत्पर्वते साधू चातुर्मासोपवासिनौ । तस्थतुर्वृक्षमूले तो पितापुत्रौ घनागमे ॥ २६८ ॥ ततो धनागमेऽतीते पारणार्थ महामुनी । प्रवृत्तौ नगरं गन्तुं तो सिद्धार्थसुकोशलौ ॥ २६९ ॥ दृष्ट्वा तौ योगिनौ तत्र कोपारुणनिरीक्षणा । चुकोप सहसा व्याघ्री सा तदा परुषस्वना ॥२७॥ आदाय तो निरालम्बं प्रत्याख्यानं महामुनी । ध्यायन्तौ परमं तत्त्वं कायोत्सर्गेण तस्थतुः॥२७१॥ 25 सिद्धार्थ प्रथमं व्याघ्री विपाद्य नखकोटिभिः । ममार चरमं कोपात् तनयं च सुकोशलम् ॥२७२॥ पितापुत्रौ तदा साधू कालं कृत्वा समाधिना । दिवि सिद्धार्थसिद्धौ तावहमिन्द्रत्वमापतुः ॥२७३॥ शिशुभिः सह सा व्याघी भर्तारं तनयं तथा । भक्षयित्वा रुषा पापा स्वस्थाने तस्थुषी पुनः ॥२७४॥ सुकोशलकरे दृष्ट्वा कालादितिलकं तदा । व्याघ्री स्खनिन्दनासक्ता जाता जातिस्मरी पुनः ॥२७५॥ संसारनिन्दनं कृत्वा सर्वत्याग मृति तथा । सुरलोकं सका प्राप्य शुभध्यानपरायणा ॥ २७६ ॥ 30 श्रीकान्ताप्रमुखाः कान्ताः सिद्धार्थस्य महात्मनः । सुकोशलस्य च क्षिप्रं गुणार्यान्ते प्रवव्रजुः॥२७७॥ उग्रं तपो विधायाशु समाधि प्राप्य ताः पुनः । सुरलोकं परिणापुर्नानातोद्यकलखनम् ॥ २७८ ॥ पद्मावत्या वराङ्गस्य सुकोशलनृपस्य च । यशोधरमुनेः पार्थे श्रुत्वा चरितमादरात् ॥ २७९ ॥
1 पफ क्षिप्रं. 2 [चित्तसंयोग ]. 3 पफज युगलमिदम्. 4 पफज कुलकमिदम्. 5 [प्राप].
बृ० को० ४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org