________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[१२७. २१४दृष्ट्वा शोकसमाकान्तं श्रीधरं सुहृदं तदा । जगौ कुवेरकान्तोऽमुं सालसः किं वितिष्ठसे ॥ २१४॥ श्रुत्वा कुबेरकान्तस्य वचनं श्रीधरोऽप्यमुम् । बभाण विस्मितस्वान्तो म्लानवक्रसरोरुहः ॥२१५॥ तत्प्रिया कम्बलेनोच्चैः कृत्वा पाङ्गुरणं तनोः । जगाम स्वगृहं हृष्टा मत्तमातङ्गगामिनी ॥ २१६ ॥ दृष्ट्वा तद्वल्लभां यान्तीं मत्प्रियेावशानुगा । अद्य प्रासादतः पातं विधाय मृतिमागता ॥ २१७॥ 5 श्रीधरस्य वचः श्रुत्वा प्रासादपतितामिमाम् । दृष्ट्वा कुबेरकान्तोऽपि जगादेमं सविस्मयः ॥२१८॥ वयस्य मत्प्रिया शीघ्रं मलयाचलमस्तकात् । पतित्वा मृतिमापन्ना त्वप्रियेावशात् तथा ॥२१९॥ एवं कुबेरकान्तोऽपि यावद्वदति तत्पुरः । तावजातिस्मरो जातो विस्मयव्याप्तमानसः ॥ २२० ॥ ततः कुबेरकान्तः स्खं चरित्रं पूर्वजन्मनि । निजपट्टे लिलेखायं निजहस्तेन विस्मयन् ॥ २२१॥ ततो गहिलकं वेषं समादाय त्वरान्वितः । ऊर्जयन्तं नगं जातो" मलयां मार्गयन्नसौ ॥ २२२ ॥ विद्याधरसकाशेऽसौ ऊर्जयन्तधराधरे । विकुर्वणादिविद्यानामुपदेशं हि लब्धवान् ॥ २२३॥ मलया नाम चादाय नृत्यन्तं गेयतत्परम् । दृष्ट्वा मनोहरी कान्तं जाता जातिस्मरी तदा ॥२२४॥ ततो मनोहरी दृष्ट्वा वामवाराभिधां सखीम् । तूर्णं प्रवेशयामास तत्पटार्थ धवान्तिकम् ॥ २२५॥ दृष्ट्वा कुबेरकान्तोऽपि तत्सखीं तद्धितैषिणीम् । अस्याः समर्पयामास तं पटं स्वभवोद्धृतम् ॥२२६॥ पूर्वजन्मभवोपेतं तं पटं वीक्ष्य चाग्रतः । सखीसमर्पितं सद्यो मुमूर्छाशु मनोहरी ॥ २२७॥ 15 अयं कुबेरकान्तोऽपि वेषमामत्तकं तदा । हित्वा निजगृहं तोषाद् विवेश सहजाकृतिः ॥ २२८॥ दृष्ट्वा गृहागतं तूर्णं विजयोऽपि जयप्रियः । सत्यं कुबेरकान्तं तं पप्रच्छेदं कुतूहली ॥ २२९ ॥ उन्मत्तकः कथं जातः पुत्र सज्जनवल्लभः । भूयो विश्रब्धतां प्राप्तः कथयैतन्ममाधुना ॥ २३०॥ . निशम्य तद्वचः क्षिप्रं कामाकुलितमानसः। ऊचे कुबेरकान्तोऽमुं मुञ्चन्निःश्वासमुष्णकम् ॥२३१॥
मनोहरीकृतो जातो नूनं मुग्धतकस्तराम् । राजगेहे विलोक्येमां गतो विश्रब्धतां पुनः॥२३२॥ 20 एवं निगद्य तं प्रीतो विद्यासामर्थ्यमस्य च । मुदा कुबेरकान्तोऽपि दर्शयामास सत्वरम् ॥२३॥ विद्यासामर्थ्यमेतस्य विलोक्य सहसा तदा । स्वयंवरे मुमोचाशु पुष्पमालां मनोहरी ॥ २३४ ॥ कुबेरोपपदं कान्तं दृष्ट्वा कन्यावृतं तदा । चुक्षोभ राजसंघातः समुद्रो वा विधूदये ॥ २३५ ॥ जित्वा तान् भूपतीन् सर्वान् संग्रामे जनसंक्षये । उपयेमे विधानेन कुमारोऽयं मनोहरी ॥२३६॥
सोपारकपुराभ्याशं नानानोकहराजितम् । मनोहरीसमं प्राप कुमारः प्रीतमानसः ॥ २३७॥ is ततोऽशनिनिपातेन मस्तके प्रहतौ तकौ । समं वधूवरौ तत्र मृत्युगोचरतामितौ ॥ २३८॥ . विजयानगोद्भूतदक्षिणश्रेणिगोचरम् । अलंकारपुरं दिव्यं विद्यते धनसंकुलम् ॥ २३९ ॥ प्राक् श्रीधरचरो राजा चण्डवेगोऽत्र पत्तने । अभवद् भूतिसंपन्नो विद्युदाभापतिर्महान् ॥ २४०॥ कुबेरोपपदः कान्तः कालं कृत्वा पुराभवे । अनयो रूपसंपन्नो विद्युन्माली सुतोऽभवत् ॥ २४१॥
अत्रैव नगरे चासीन्मेघमाली खगेश्वरः । भ्राता विद्युल्लताया हि रविबिन्दुप्रियापतिः ॥ २४२॥ 30 कालं कृत्वा तु या तत्र सा तदाऽशनिपाततः । मनोहरी चरी नाम बभूव तनयाऽनयोः ॥२४॥
अन्यदा चण्डवेगेन विद्युन्माली तडिप्रभः । ऊर्जयन्तगिरि यातो नन्तुं नेमिनिषद्यकाम् ॥२४४॥ शिखरं चोर्जयन्तस्य पूर्वदृष्टं विलोक्य सः । विद्युन्माली समूहॊरं जातो जातिस्मरस्तदा ॥२४५॥ स्मृत्वा मनोहरी तत्र मासक्षपणयोगतः । प्रज्ञप्तिनामसंयुक्ता विद्याऽनेन प्रसाधिता ॥ २४६ ॥ ... 1 [ यातो ]. 2 ज विजयो विजय'. 3 पफज युगलमिदम्. 4 [ नूनमुन्मत्तक]. 5 पफज त्रिकलमिदम, 6 ज तनयोनयोः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org