________________
-१२७. २१३] सुकोशलकथानकम्
३११ विस्मृत्य मां पुनर्धूर्तः पद्मावत्या समं सुखम् । भुञ्जानः प्रीतचेतस्को नितरां व्यवतिष्ठते ॥१८२॥ चिन्तयित्वा चिरं चेदं भूयश्चिन्तयतीदृशम् । पद्मावत्या यथा याति वियोगं विदधे तथा ॥१८३॥ अत्रान्तरे नरो योऽयं तदन्ते प्रेषितस्त्वया । दान्ते हस्तिनि मे पृच्छ किं संतुष्टा सुकेशिनी ॥१८४॥ समागत्य ततस्तेन पुरुषेण तवोदितम् । सुकेशिनी न संतुष्टा महाराज मनागपि ॥ १८५ ॥ तयोदितं यथा भद्र तिष्ठन् मलयपर्वते । पद्मावत्या समं हस्ती दान्तो मलयसुन्दरः ॥ १८६ ॥ कारापयसि मां पृच्छां वनरेण यतो धव । तुष्टा सुकेशिनी भद्र न संतुष्टा जगौ सकः ॥१८७॥ त्वं ध्यायन्नितरां राजन् स्नेहेनातिगरीयसा । तदन्तं प्राप्य वेगेन पृच्छदेतां सुकेशिनीम् ॥ १८८॥ देवी कोऽसौ क वास्तव्यो गजो मलयसुन्दरः। तिष्ठत्यत्र त्वया भद्रेक दृष्टो ब्रूहि मेऽधुना ॥१८९॥ निशम्य तद्वचः स्पष्टं गृहयन्ती स्वमादरात् । बभाण दयितं प्रीता पुरस्तं सा सुकेशिनी ॥१९॥ खामिन्नहमतिक्रान्ते भवेऽमुष्मिन्नगोत्तमे । विजयार्धेऽभवं नूनं खेचरी रूपशालिनी ॥ १९१॥॥ दक्षिणापथमासाद्य प्रियेण सह सत्वरम् । मलयाद्रिं समुत्तुङ्गं प्राप्तया रमणीयकम् ॥ १९२ ॥ पद्मावत्या समं तत्र तरां क्रीडन् मदालसः । वनहस्ती मया कान्तो दृष्टो मलयसुन्दरः॥१९३॥ तद्वाक्यतः स्वसैन्येन कृतकोलाहलेन सः । मलयाद्रौ ददशैंमं पद्मावत्या समं नृपः ॥ १९४ ॥ दृष्ट्वाऽमुं भीषणाकारं द्विरदं स नराधिपः । आदिदेश तरां क्रुद्धस्तद्वधार्थ नरानरम् ॥ १९५॥ ततस्तद्वाक्यतः शीघ्रमायुधैर्मागणादिभिः । तद्भटेनिहतो नागो गतायुवमागतः ॥ १९६ ॥ विलोक्य तं गजं भूमौ पतितं गतजीवितम् । मृता पद्मावती तूणे करमाक्रम्य पादतः ॥ १९७॥ तस्मिन् गजेश्वरे तत्र मृत्युगोचरतामिते । विप्रलापं परं चक्रुः पक्षिणोऽपि कृतस्वनाः॥१९८॥ तत्कुम्भतः समादाय मौक्तिकप्रस्थकद्वयम् । करिदन्तद्वयं शीघ्रं चम्पामाप नरेश्वरः ॥ १९९ ॥ मौक्तिकानि करे दन्तौ तद्गजस्य कुतूहलात् । सुकेशिन्याः स्वभार्याया दर्शयामास भूपतिः ॥२००॥ विलोक्य मौक्तिकादीनि तद्गजस्य सुकेशिनी । महाशोकभराकान्ता दध्यौ मनसि दुःखिनी ॥२०१॥ ॥ तिष्ठन् सुखेन मद्भर्ता कुञ्जरो निजलीलया । भूपेन पञ्चतां नीतः कथं मवचनाद्धतः ॥ २०२ ॥ चिन्तयित्वा चिरं दीना तदानीं सा सुकेशिनी । तद्दन्तमौक्तिकादीनि परिरभ्य मृतिं ययौ ॥२०॥ दृष्ट्वा मृतां तरां तूर्ण राजाऽयं गन्धमादनः । पप्रच्छ योगिनं देवी क सोत्पन्ना वद प्रभो ॥२०४॥ गन्धमादनभूपस्य निशम्य वचनं वरम् । जगाद तद्भवं साधुः केवलज्ञानलोचनः ॥ २०५॥ सुराष्ट्रविषये चानुनगरं गिरिपूर्वकम् । समृत्योऽतिरथो राजा गोमिनी तत्प्रियाऽभवत् ॥ २०६ ॥ रूपराजितसर्वाङ्गी सर्वलोकमनोहरी । सुकेशिनीचरी तस्याः सुता जाता मनोहरी ॥ २०७॥ अस्यैव भूपतेरासीद् विजयाख्यः पुरोहितः । कुबेरश्री प्रिया चार्वी कन्दोट्टदललोचना ॥ २०८॥ कालं कृत्वा तयोरासीत् करी मलयसुन्दरः । पुत्रः कुबेरकान्ताख्यः सर्वावयवसुन्दरः ॥ २०९ ॥ पूर्वोक्तनगरे चासीद् राजश्रेष्ठी महाधनः । धनदेवाभिधो भोगी धनश्रीरस्य सुन्दरी ॥ २१०॥ कालं कृत्वा वराङ्गोऽपि रूपराजितविग्रहः । बभूव तत्सुतः प्रेयान् श्रीधरः श्रीधराभिधः ॥२११॥ ३॥ श्रीधरो जनतानन्दः सद्भावाहितमानसः । अयं कुबेरकान्तस्य सुहृदत्यन्तवल्लभः ॥ २१२ ॥ कुबेरश्रीः प्रिया तस्य रत्नकम्बलकारणात् । प्रासादशिखरात् पातं विधाय मरणं श्रिता ॥ २१३॥
HTHHTH
1 पफज त्रिकलमिदम्. 2 पफ रूपशालिना. 3ज चतुःकुलकमिदम्. 4 पफ omit the second line of No. 193 and the first line of No. 194. 5 पफज युगलमिदमू. 6 पफ गतायुभव. 7 पफज त्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org