________________
हरिषेणाचार्यकृते बृहत्कथाकोशे [१२७. १४८विदित्वाऽऽश्चर्यमेतस्या नागदत्तास्वरूपया । प्रियङ्गुलतया साकं वराङ्गोऽपि महामनाः ॥१४८॥ जिनधर्ममुपाश्रुत्य वैराग्याहितबुद्धयः । यशोधरसकाशे च चत्वारोऽपि प्रवव्रजुः ॥ १४९ ॥ नत्वा केवलिनः पादौ भक्त्या विस्मयमागतः । सुकेशिनीमृतं चामुं पप्रच्छ धरणीपतिः ॥१५०॥
भूपालवचनं श्रुत्वा यशोधरमुनीश्वरः । सुकेशिनीभवानस्य जगादेति महीभृतः ॥१५१॥ । दक्षिणापथदेशोत्थमथुरानगरीभवः । अस्ति गन्धर्वभूपालो गन्धर्वरमणीपतिः॥ १५२ ॥
अस्यैव भूपतेः श्रेष्ठी बभूवायं सुदर्शनः । रूपयौवनसंपन्ना वीरश्रीरस्य गेहिनी ॥ १५३॥ प्रियङ्गुदर्शनाभिख्यो नन्दनो बन्धुनन्दनः । अन्योन्यप्रेमसंयुक्तदम्पत्योरनयोरभूत् ॥ १५४॥ तस्मिन्नेव पुरे श्रीमान्नन्दिश्रेष्ठी प्रियंवदः । बभूवास्य प्रिया दिव्या विजया धववल्लभा ॥१५५ ॥ रूपराजितसर्वाङ्गी सर्वलोकमनोहरी । कलकोकिलनिस्वाना कीर्तिनामा सुताऽनयोः ॥ १५६ ॥ " तूर्यमङ्गलनिस्तानैर्वितीर्णा जनकेन च । प्रियङ्गुदर्शनायैषा परिणीता विधानतः ॥ १५७ ॥
अन्यदा वारिबन्धेन बद्धो वनगजो महान् । गन्धर्वभूभुजा नीतस्तत्पुरासन्नवर्तिना ॥ १५८॥ प्रशंसितं जनैः सर्वैरटवीसुखसंगतम् । महीधरसमुत्तुङ्गं रूपिनं वनकुञ्जरम् ॥ १५९ ॥ वारिबद्धं विलोक्येमं कीर्तिभार्यासमन्वितः । प्रियङ्गुदर्शनस्तोषान्निदानमकरोत् तदा ॥ १६० ॥ गुलाफलसमाक्षेण भीमसर्पण कोपतः । प्रियङ्गुदर्शनो दष्टः सकीर्तिम॒तिमाप सः ॥ १६१॥ 15 मलयाद्रो समुद्भूते पश्चिमार्णवरोधसि । महाचन्दनसद्गन्धवासिताकाशभूतले ॥ १६२ ॥
नीलाञ्जनसमच्छायो बिससन्निभदन्तकः । प्रियङ्गुदर्शनो जातो हस्ती मलयसुन्दरः ॥ १६३॥ तद्भार्या कीर्तिसंज्ञा च कुन्दपुष्पसमप्रभा । बभूव वल्लभा तस्य मलया नाम हस्तिनी ॥ १६४॥ परस्परसुखासंगसक्तमानसयोस्तयोः । पूर्वस्नेहानुबन्धन बभूव प्रीतिरुत्तमा ॥१६५॥ रक्तोत्पलसमानामा मन्दमन्दगतिक्रिया । पद्मावती बभूवास्य द्वितीया करिणी प्रिया ॥ १६६॥ 20 मलयायै वितीर्यादौ गजोऽयं पल्लवादिकम् । पद्मावत्या ददौ पश्चादनुक्रमविधानतः ॥ १६७ ॥
श्वेतरक्तसरोजाभ्यां यथा मध्ये व्यवस्थितम् । नीलोत्पलं तरां भाति रमणीलोचनच्छवि ॥१६८॥ श्वेतरक्ताभयोमध्ये करिण्योरनयोः स्थितः । तथाऽयं कुञ्जरो भाति नीलनीरदसंनिभः ॥ १६९ ॥ आभ्यां समं गिरौ तत्र भुञ्जानो हस्तिजं सुखम् । तस्थौ मुदितचेतस्कः करी मलयसुन्दरः ॥१७०॥
अन्यदा तत्समं हस्ती प्रभंकरसरोवरे । स्नात्वा पीत्वा जलं शीतं जग्राह कमलद्वयम् ॥ १७१॥ 28 पद्मद्वयं समादाय करेण स करी पुनः । पश्यामि मलयानेहं कीदृशं मयि तिष्ठते ॥ १७२ ।।
मलया वामपार्थे च धूर्तेन स्थापिताऽमुना । पद्मावती तथा स्वस्य दक्षिणा करिणी परम् ॥१७३॥ मदविह्वलचित्तेन परमार्थमजानता । वितीर्ण प्रथमं पद्मं पद्मावत्या हि हस्तिना ॥ १७४ ॥ मलयायाः पुनः पश्चाद् वितीर्ण नलिनं मुदा । निजहस्तेन तेनैवं कपटेन विलासिना ॥ १७५ ॥ पश्चाद् वितीर्णमेतेन कमलं मम मायिना । धूर्तेन वञ्चिताऽस्मीति सदुःखा मलयाऽभवत् ॥१७६॥ " ईय॑या सा च संग्रस्ता संपत्य गिरिमस्तकात् । कृत्वा विलापमत्यर्थ ममार मलया द्रुतम् ॥१७७॥ ततो मृता सती पश्चान्मलया मलयाचले । काकतालीययोगेन संजातेह सुकेशिनी ॥ १७८ ॥ हस्तिनीभिः समानीतं कलिङ्गपरमं गजम् । वारिबद्धं नगोत्तुङ्गं विलोक्यैतं महागजम् ॥ १७९ ॥ जातिस्मरत्वमासाद्य विह्वलीभूतमानसा । मानसे दुःखसंपूर्णे दध्याविति सुकेशिनी ॥ १८० ॥ मम कालगताया हि करी मदनसुन्दरः । शोकमल्पं चकारासौ मदविह्वलमानसः ॥ १८१॥
1 पफज युगलमिदम्. 2 पफ प्रियङ्गदशन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org