________________
-१२७. १४७] सुकोशलकथानकम्
३०९ श्रुत्वा तद्वचनं सोऽपि बभाणेमं सकौतुकम् । सुतेयं नागदत्तस्य श्रेष्ठिनस्तव भूपते ॥ ११५ ॥ निशम्य भारतीमस्य विस्मयव्याप्तचेतसः । सहस्रकूटतो राजा निर्जगाम बहिद्रुतम् ॥ ११६॥ संपूर्णयौवनां दृष्ट्वा कन्यामेतां धनाधिपः । खरूपां प्राह कस्यायं ददामि वद सांप्रतम् ॥ ११७॥ निशम्य तद्वचः साऽपि बभाणेमं पुरःस्थितम् । मद्भातृव्यसुतायेयं जितरङ्गाय दीयताम् ॥ ११८॥ सुरूपावचनं श्रुत्वा भूभुजा स्वपुरोहितः । नागदत्तान्तिकं तूर्णं वरणार्थं विसर्जितः ॥ ११९ ॥ तेनापि तत्समीपस्थं गत्वाऽयं विनिवारितः । सोऽपि तद्वाक्यतस्तस्थौ भूपालवचनानुगः॥१२०॥ ततः स्वनरवाक्येन तोषकण्टकिताङ्गकः । कन्यावरणतो राजा श्रेष्ठिगेहं ययौ क्षणात् ॥ १२१॥ कृत्वा जिनमहं श्रेष्ठी गन्धपुष्पाक्षतादिभिः । गन्धमादनभूपाय प्रददौ तां स्वकन्यकाम् ॥१२२॥ ततश्चत्वारि वर्षाणि तया सार्धं महीपतिः । कामभोगान् प्रभुञ्जानस्तस्थौ मुदितमानसः ॥१२३॥ कलिङ्गाधिपती राजा हस्तिसंक्षोभणे सति । वनहस्तिप्रवेशार्थं वारिबन्धं ययौ द्रुतम् ॥ १२४ ॥ वारिबन्धान्तरं दृष्ट्वा विशन्तं वनहस्तिनम् । सुकेशिन्याः स पप्रच्छ धात्रिकां धरणीपतिः॥१२५॥ निशम्य भूपतेर्वाक्यं जगौ धात्री नराधिपम् । राजन् हस्तिसमूहं हि सुकेशिन्याः प्रदर्शय ॥१२६॥ भो भो चित्रकर स्पष्टं विधाय मणिकुट्टिमे । हस्तियूथं महादेव्यै त्वं प्रदर्शय सांप्रतम् ॥ १२७ ॥ एवं निगद्य तं राजा सन्मान्य धनसंपदा । द्रुतं प्रपेषयामास' महादेवीसमीपकम् ॥ १२८॥ स्पष्टं चित्रकरः सद्यस्तूलिकाभिर्विधाय सः । हस्तियूथं सजीवं वा दर्शयामास तत्पुरः ॥ १२९॥ निजपूर्वभवोपेतं हस्तियूथं मनोहरम् । सुकेशिनी प्रपश्यन्ती तस्थौ मुदितमानसा ॥ १३० ॥ अत्रान्तरे चिरं रन्त्वा नृपतिर्वनहस्तिना। कृत्वाऽमुं स्ववशं तस्मादाजगाम प्रियान्तिकम् ॥१३१॥ ततः सुकेशिनीपार्थात् समायातं नरं नृपः । पप्रच्छ तोषसंजातरोमाञ्चार्चितविग्रहः ॥ १३२ ॥ भो भो नर मया दान्ते नितान्तं वनहस्तिनि । सुकेशिनी वद क्षिप्रं संतुष्टा किं ममोपरि ॥१३३॥ नरेन्द्रवचनं श्रुत्वा स नरः प्राह भूपतिम् । न सा संतोषमायाता प्रत्युतैवं जगाद च ॥ १३४ ॥ 20 मलयं प्राप्य किं कान्तो दान्त्वा मलयसुन्दरम् । हस्तिनं भूधराकारं गजलक्षणलक्षितम् ॥१३५॥ येनेमं कुम्भिनं दान्त्वा मेण्ढकोपमविग्रहम् । मदन्तिकं नरं कान्तः प्राहिणोति मदेद्धधीः ॥१३६॥ आकर्ण्य तद्वचो राजा मानशैलमधिष्ठितः । स्वसैन्यसमुदायेन जगाम मलयाचलम् ॥१३७॥ राजाऽतिरवमाहूय महाभट्युवाच च । क्षेपिष्ठमानय स्पष्टं गजं मलयसुन्दरम् ॥ १३८ ॥ नृपवाक्यं समाकर्ण्य स भटो बहुभिर्भटैः । जगामान्तिकमेतस्य गजस्य मदमुद्वहन् ॥ १३९ ॥ 23 दूराद् विलोक्य तं नागं भयवेपितविग्रहाः । वशीकर्तुमशक्तास्ते नृपान्तं पुनराययुः ॥ १४० ॥ विलोक्य भूपतिः सर्वान्नरान् स्वान्तिकमागतान्। उवाचेत्थं पुनः कोपात् म्लानवक्रसरोरुहान्॥१४१॥ रेरे खलं दुराचारं हत्वा तं करिणं नराः । क्षिप्रमानीयत स्पष्टं तन्मौक्तिकरदानपि ॥ १४२ ॥ नृपाज्ञां ते परिप्राप्य हत्वा ते करिणं रणे । तन्मौक्तिकानि दन्तौ च मुमुचुनृपतेः पुरः ॥ १४३॥ आदाय भूपतिस्तस्मान्मौक्तिकानि रदावपि । चम्पापुरी जगामाशु तोषपूरितमानसः ॥१४४ ॥ 30 आदाय निजहस्तेन नरेन्द्रः प्रीतमानसः । सुकेशिन्यै ददौ तूर्णं तन्मौक्तिकानि रदावपि ॥१४५॥ सुकेशिनी समालिङ्ग्य तन्मुक्ताफलदन्तकान् । खबाहुभ्यां ममाराशु स्नेहतः किं न जायते ॥१४६॥ तच्चेष्टितमिदं ज्ञात्वा कोविदाश्चर्यकारणम् । तस्थौ विस्मितचेतस्को राजाऽयं गन्धमादनः॥१४७॥
1 [संप्रेषयामास]. 2 पफज युगलमिदम्. 3 ज रोमाञ्चाचित. 4 पफज युगलमिदम्. 5 पफ मेढको. 6 पफज त्रिकलमिदम्. 7 पफ दन्तिकान्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org