________________
३०८ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१२७. ८२निशम्य तद्वचस्तत्र चित्ते दध्यौ सुकोशलः । मद्वञ्चनमिदं लोकैः कृतं मज्जननीमतात् ॥ ८२ ॥ यावदेवं कुमारोऽयं ध्यायति क्षणमात्रकम् । तावदागत्य वेगेन सूपकारेण भाषितः ॥ ८३ ॥ देव भोजनवेला च सांप्रतं वर्तते तव । क्रियतां भोजनं तावच्छरीरस्थितिकारणम् ॥ ८४ ॥ तथा जयमतिर्माता धात्रिकाः सुव्रतादिकाः । तद्भार्या रूपसंपन्ना नामानीमानि बिभ्रति ॥ ८५ ॥ । स्वयंप्रभा मता पूर्व श्रीदत्ता श्रीसमप्रभा । तथा मित्रमती चावीं सुप्रभा सेनयाऽन्विता ॥ ८६ ॥
अनङ्गसेनया साधं सोमश्रीः श्रीमती परा । तथा बन्धुमती सेना भानुमित्रा रविप्रभा ॥ ८७॥ प्रियङ्गुसुन्दरी चान्या प्रिया प्रियमती परा । श्यामा श्यामलताभिख्या वरा विद्युल्लता वला ॥८॥ विमलादिमतिदीप्ता श्रीकान्ता श्रीसमप्रभा । शूरसेना परा दिव्या तथा धनमती प्रिया ॥ ८९॥ विजया वैजयन्ती च स्वर्णमालाऽपराजिता । दमयन्ती केतुमाला धनश्रीधन्यया सह ॥ ९० ॥ 10 बन्धुश्रीरिति सर्वाभी रमणीभिः प्रचोदितः । विधाय मज्जनं नाथ भोजनं कुरु सांप्रतम् ॥ ९१ ॥
श्रुत्वा तद्वचनं तत्र कौतुकव्याप्तमानसः । जगादेदं पुनः शीघ्रं तदध्यक्षं सुकोशलः ॥ ९२ ॥ यावदेतन्न विज्ञातं समस्तं वस्तु सत्वरम् । तावन्मयोदितं भद्रा विदधामि न भोजनम् ॥ ९३ ॥ तेनेदं यन्मया दृष्टं रूपमत्र मनस्विनि । निवेदय मम क्षिप्रं सुव्रते तत्प्रयत्नतः ॥ ९४ ॥
कुमारवचनं श्रुत्वा धात्रिका प्रथमा तदा । जगाद सुव्रताभिख्या तद्वृत्तान्तं तदग्रतः ॥ ९५॥ 15 त्वत्पिता पुत्र सिद्धार्थो यो बालत्वे तव स्फुटम् । श्रेष्ठिपढें प्रबन्ध्याशु निःस्पृहो मुनितामितः॥९६॥ त्वन्मन्दिरेज भिक्षार्थं प्रविष्टः क्रमतोऽमुतः । भूयो विनिर्गतस्तात तपःशोषितविग्रहः ॥ ९ ॥ तव जनन्यादेशेन द्वारपालैर्निराकृतः । अन्तरायो मुनेरस्य जातः संशुद्धचेतसः॥ ९८॥ सुव्रतावाक्यमाकर्ण्य बभाणैतां सुकोशलः । मयाऽपि मुनिरूपेण भोक्तव्यं नान्यथा पुनः ॥ ९९ ॥
एवं निगद्य तां वेगान्निर्गत्य निजमन्दिरात् । ददर्श प्रासुकोद्याने तं यतीशं सुकोशलः ॥ १०० ॥ 20 शिलातलोपविष्टं तं विलोक्य सहसा मुनिम् । जातिस्मरो बभूवाशु कुमारस्तुष्टमानसः ॥ १०१॥
तत्पुरोऽनेन विज्ञाता भवाः पञ्च खगोचराः । यथाक्रममिमे सर्वे संसारत्रस्तचेतसा ॥ १०२ ॥ सितदन्तो नगोत्तुङ्गो जवी मलयसुन्दरः । तदान्वभूदयं हस्ती सिद्धार्थों मलयोद्भवः ॥ १०३ ॥ पद्मावती च सा तस्य बभूव मलयाऽपि च । आभ्यां सह मुदा तत्र रममाणस्य सर्वदा ॥१०४॥
अत्रान्तरे विलोक्यैषा मलया तं रुषा नगे । पद्मावत्या सहाजस्रं दीव्यन्तं निजलीलया ॥१०५॥ 25 ईर्ष्यामहाग्रहग्रस्ता मलयाचलमस्तकात् । पातं विधाय सा क्षिप्रं ममार विधियोगतः ॥ १०६ ॥
अङ्गकाख्यमहादेशे महाचम्पापुरीभवः । सप्तस्थानगुणाधारो राजाऽऽसीद् गन्धमादनः ॥ १०७॥ दर्शनाणुव्रतं शीलं गुरुसेवागुणार्जवम् । जिनागमप्रवीणत्वं सप्तस्थानान्यमून्यलम् ॥ १०८॥ कैलासकूटसंकाशं जिनायतनमुत्तमम् । सहस्रोपपदं कूटं तेन कारापितं भुवि ॥ १०९ ॥
सुता सागरदत्तस्य सुरूपा नाम विश्रुता । वितीर्णा नागदत्ताय पित्रा चम्पापुरीभवः ॥ ११ ॥ 30 तस्या गर्भे समुत्पन्ना केशिनी नाम कन्यका । पद्मावती स्वयं पश्चादियं मृत्युमुपागता ॥ १११॥ जातोऽनुजः सुरूपायाः पुनः कर्मानुभावतः । वराङ्गो धनसंपन्नः श्रेष्ठी भुवनविश्रुतः ॥११२॥ अन्यदा मधुमासे च दृष्ट्वा जिनवरालये । सुकेशिनीमिमां राजा पप्रच्छान्यं कुतूहलात् ॥११३॥ कस्येयं रूपसंपन्ना विषाणदललोचना । कुमारी ब्रूहि मे शीघ्रं मच्चित्तानन्ददायिनी ॥११४ ॥
___ 1 [ विद्युल्लताऽबला ]. 2 पफज षट्रकुलकम्. 3 पफज त्रिकलमिदम्. 4 पफज त्रिकलमिदम् 5 पफज युगलमू. 6 पफज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org