________________
- १२७. ८१ ]
कोशल कथानकम्
सुकोशल कुमारेण बिभ्रता यौवनं धनम् । परिणीता विधानेन द्वात्रिंशद्वरकन्यकाः ॥ ४८ ॥ सुकोशलकुमारस्य भोगसंसक्तचेतसः । नैमित्तिकश्चकारेममादेशं कृतनिश्चयः ॥ ४९ ॥ यतिरूपं यदा बालो द्रक्ष्यति प्रीतमानसः । तदा निर्ग्रन्थतां प्राप्य तपः साधु करिष्यति ॥ ५० ॥ ततो रोषं समासाद्य जयमत्या स्वमन्दिरे । भिक्षार्थमपि साधूनां प्रवेशो विनिवारितः ॥ ५१ ॥ कारापिता कुमारार्थं स्वगृहाजिरगोचरा । जयमत्या च वाह्याली हरिहस्तिक्रमोचिता ॥ ५२ ॥ एकद्वित्रिचतुःपञ्चषट्सप्ताष्टक भूमिकाः । प्रासादा विधुसंकाशाः कारिता बहवोऽनया ॥ ५३ ॥ तन्मध्ये पृथिवीसारे प्रासादे गगनस्पृशि । तस्थौ सुकोशलः प्रीत्या मातृधात्र्यादिसंयुतः ॥ ५४ ॥ अथ मध्याह्नवेलायां भिक्षार्थं मुनिपुङ्गवम् । अस्थिचर्मावशेषं च युगान्तनिहितेक्षणम् ॥ ५५ ॥ मासोपवासिनं वीरं प्रविशन्तं स्वमन्दिरे । सुकोशलो ददशैनं प्रासादशिखरस्थितः ॥ ५६ ॥ दृष्ट्वा स्वगृहं प्राप्तं विस्मयव्याप्तमानसः । सुकोशलो विनीतात्मा पप्रच्छेदं स्वमातरम् ॥ ५७ ॥ अम्ब किंनामधेयोऽयं पुरुषः प्राप्य महम् । भूयो विनिर्गतः कस्मात् कथयैतन्ममाधुना ॥ ५८ ॥ सा कौशलं वचः श्रुत्वा शोककोपसमन्विता । जगौ जयमतिः पुत्रं तदानीं सुखमानसम् ॥ ५९ ॥ पुत्र कोऽपि नरोऽधन्योऽनाथः स्वजनवर्जितः । वस्त्रभक्तपरित्यक्तो भिक्षामप्राप्नुवन् कचित् ॥६०॥ समस्तनगरं भ्रान्त्वाऽदत्तदानो गहिल्लकः । प्रविष्टो मगृहं तात श्रमणो गृहभञ्जकः ॥ ६१ ॥ श्रुत्वा जयमतीवाक्यं सुव्रता नाम धात्रिका | जगाद स्वामिनीं तुष्टां मुनिविद्वेषकारिणीम् ॥ ६२ ॥ ” मुनिहीलनसंयुक्तं वचनं तव भाषितुम् । नूनं जयमति क्रूरं न मनागपि युज्यते ॥ ६३ ॥ त्वदीयकुलसंभूता बहवः श्रेष्ठिनन्दनाः । तथा राजसुता हित्वा विभूतिं तृणवत् क्षितौ ॥ ६४ ॥ विहाय सकलं संगं भोगनिःस्पृहमानसाः । महावैराग्यसंपन्ना प्रविष्टा हि तपोवनम् ॥ ६५ ॥ प्राणसाधारणार्थं च भिक्षां गृह्णन्ति साधवः । ग्रामादौ शुद्धचेतस्का जिनधर्मपरायणाः ॥ ६६ ॥ तेनेह हीनं वाक्यं मुनीनां शुद्धचेतसाम् । योयुज्यते न ते वक्तुं संसारार्णवकारणम् ॥ ६७ ॥ धात्रिकाया वचः श्रुत्वा सुव्रताया जगौ सका । तूष्णीभावं समासाद्य तिष्ठ त्वं धात्रिके द्रुतम् ॥६८॥ स्थितायां मौनभावेन तस्यां जयमतीरणात् । जगाद सुप्रभाभिख्या धात्री वचनमादरात् ॥ ६९ ॥ लक्षणैर्व्यञ्जनैर्मुक्तं शरीरं योगिनामिदम् । जाजायते न सौख्यस्य कारणं जगति ध्रुवम् ॥ ७० ॥ बहवो येन दृश्यन्ते रामलक्ष्मणपाण्डवाः । लक्षणैर्व्यञ्जनैर्युक्ता धीराः शूराः सुमेधसः ॥ ७१ ॥ लक्षणैर्व्यञ्जनैर्युक्तास्तथाऽन्ये श्रेष्ठिसूनवः । पुण्यहीना हि ते भिक्षां न लभन्ते कदाचन ॥ ७२ ॥ 23 काष्ठभारी यथैकोऽत्र क्रीत्वा काष्ठानि दुःखितः । आच्छाद्य दुर्बलं वासो भोजनार्थं भ्रमत्यरम् ॥७३॥ लिङ्गिवेषं समादाय तनोर्वा धूलितोऽपि वा । वेषेण येन केनापि बंभ्रमीति पुरान्तरे ॥ ७४ ॥ अत्रैव नगरे श्रेष्ठी विद्यते भौमनामकः । वर्जितो बन्धुभिर्दीनो जननीजनकादिभिः ॥ ७५ ॥ पुण्यहीनस्तरां सोऽयं याचयित्वा जनं जनम् । भुञ्जानस्तत्पुरे भिक्षां भ्राम्यति स्म निरन्तरम् ॥७६॥ अन्यः शाकनिकस्तत्र' चिलाताख्योऽवसत् पुरे । दत्त्वा शाकं धनं सोऽयं गृह्णाति जनहस्ततः ॥७७॥ " धनं दत्त्वा जनायासौ गृह्णाति कनकं वरम् । आरक्षिकेण तत्सर्वं गृहीतं बलतोऽमुतः ॥ ७८ ॥ यदि वेषं समादाय भोजनाभावतः सकः । भिक्षार्थं नगरं सर्वं भ्राम्यति त्रपयोज्झितः ॥ ७९ कुमार तेन जानीहि लोके नानाविडम्बनाः । एवमाद्याः प्रदर्श्यन्ते नराणां पुण्यतो विना ॥ ८० ॥ कारणेनामुना वत्स सत्यं जानीहि मद्वचः । अतः स्थिरमतिर्भूत्वा कुरु राज्यं सुखप्रदम् ॥ ८१ ॥
20
1 पफ युगलमिदम् ज युगलम्. 2 पफज युगलम् 3 पफज त्रिकलमिदम्. 4 [ प्राणसंधारणार्थं ]. 5 फ यामादौ 6 पफज षट्कुलकमिदम्. 7 [ शाकटिकस्तत्र ]. 8 पफज कुलकमिदम्.
Jain Education International
३०७
For Private & Personal Use Only
5
www.jainelibrary.org