________________
३०६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १२७. १४
भवद्वंशः समायातो दूरतोऽनुक्रमेण हि । महापुरुषसंघानामाधारः प्रथितो भुवि ॥ १४ ॥ भवद्भिः सोऽधुना नाथ तपः कर्तुं समिच्छुभिः । निर्मूलतः क्षयं याति वह्निदग्धस्तरुर्यथा ॥१५॥ तेन त्वं तिष्ठ तावन्तं भुञ्जानो भोगमुत्तमम् । यावत् प्रजायते पुत्रः प्रीणिताशेषबान्धवः ॥ १६ ॥' मन्त्रिवाक्यं समाकर्ण्य सिद्धार्थः सिद्धिलालसः । जगाद सचिवान् सारं वैराग्याहितमानसः ॥१७॥ • भवद्वचनतस्तावत् तिष्ठामि गृहसंगतः । यावत् पुत्रं न पश्यामि समुत्पन्नं कुलध्वजम् ॥ १८ ॥ उत्पन्ने तु पुनः पुत्रे कुलदीपे जनोत्सवे । मयाऽवश्यं तपो घोरं विधातव्यं विशुद्धये ॥ १९ ॥ निशम्य वचनं तस्य मन्त्रिभिर्बुधसंसदि । प्रतिपन्नं कलस्वानैस्तोषविस्फारितेक्षणैः ॥ २० ॥ अन्यदा श्रेष्ठो भार्या पुत्रार्थं यक्षपूजनम् । कुर्वाणा मुनिना प्रोक्ता दिव्यज्ञानैकचक्षुषा ॥ २१ ॥ श्राविके लौकिका देवाः पुत्रं सौख्यं धनं तथा । वितरन्ति न लोकेभ्यो जैनो धर्मो ददात्यलम् ॥२२॥ 10 तेन त्वं लौकिकान् देवान् धर्मानपि विहाय कौ । तिष्ठ संतोषसंयुक्ता जिनशासनभाविता ॥ २३॥ अद्यप्रभृति सद्वंशः सप्तमे दिवसे सति । त्वद्गर्भे नन्दनो भावी नन्दिताशेषबान्धवः ॥ २४ ॥ ततो देवी विहायेमं मिथ्यात्वं मुनिवाक्यतः । संसारभ्रमणासंगं तस्थौ सम्यक्त्वभूषिता ॥ २५ ॥ उद्योतयन् दिशां चक्रं सूर्यो वा तनुतेजसा । जयमत्याः सुतो जातः सर्वलक्षणभूषितः ॥ २६ ॥ न परं कोऽपि तद्वार्तां स्वगृहे पत्तनेऽवदत् । आकर्णं श्रेष्ठिनः सा च कदाचिदपि यास्यति ॥२७॥ Is एवं दिनेषु गच्छत्सु कदाचिद्दैवयोगतः । चेटिकैका विनिर्याता बहिरन्तःपुरादरम् ॥ २८ ॥ द्वितीया चेटिका चैतां वदति प्रीतमानसा । पश्य पश्य हले जातो जयमत्या शरीरजः ॥ २९ ॥ न परं स्वगृहे कोऽपि तथा राजकुले पुरे । जयमत्याः महादेव्या पुत्रं जातं जगौ मुदा ॥ ३० ॥ * महादारिद्रदग्धेन बुभुक्षाग्रस्त चेतसा । सोमशर्मद्विजेनेदं तदा तद्वचनं श्रुतम् ॥ ३१ ॥ श्रुत्वा तद्वचनं हृष्टो दिनेऽन्यस्मिन् स माहनः । बीजपूरकमादाय करे श्रेष्ठिगृहं ययौ ॥ ३२ ॥ 20 विलोक्य श्रेष्ठिनं विप्रो जगाद प्रीतमानसः । जयमत्याः सुतः श्रेष्ठिन् समुत्पन्नस्तव प्रभो ॥ ३३ ॥ सोमशर्मवचः श्रुत्वा सिद्धार्थः पुलकाचितः । अङ्गस्पृष्टं प्रदायास्मै ददौ ग्रामशतं पुनः ॥ ३४ ॥ कृत्वा तत्पूजनं श्रेष्ठी गत्वा जयमतीगृहम् । दृष्ट्वा पुत्रमुखं चात्र तुतोष सुतसंगतः ॥ ३५ जिनस्य पूजनं कृत्वा गन्धपुष्पाक्षतादिभिः । धनदेवाभिधं नाम चकार तनयस्य सः ॥ श्रेष्ठो दारके जाते विनीताविषयेऽखिले । बभूवात्यन्तसंतोषस्तदा जनपदस्य च ॥ ३७ ॥ 25 अत्यन्ततोषमासाद्य सिद्धार्थतनयस्य सः । सुकोशलाभिधं नाम ददौ नागरिको जनः ॥ ३८ ॥ अत्रान्तरे महाभूत्या सिद्धार्थो राजवल्लभः । श्रेष्ठिपट्टं बबन्धाशु सुकोशलसुतस्य सः ॥ ३९ ॥ सामन्तैर्बहुभिः सार्धं तथा श्रेष्ठसुतैरपि । विनयंधरसामीप्ये श्रेष्ठी जैनं तपोऽग्रहीत् ॥ ४० ॥ हित्वा जयमतिं भामां श्रेष्ठिनोऽन्याः सुचेतसः । विनयंधरमानम्य सुव्रतान्ते प्रवत्रजुः ततो निजगृहे कोपाज्जयमत्या विचण्डया | मुनीनां साधुवृत्तीनां प्रवेशो हि निवारितः ॥ ४२ ॥ 30 ततो जयमतिर्धृत्वा सिद्धार्थस्योपरि ऋधम् । तस्थौ कन्दर्प संतप्ता मौनशैलमधिष्ठिता ॥ ४३ ॥ यौवनेन समारूढां मां तनूजं शिशुं तथा । हित्वाऽयं निर्दयखान्तः श्रमणानां व्रतं श्रितः ॥ ४४ ॥ सुकोशल कुमारस्य कुर्वती सकलाः क्रियाः । तद्विभूतीः प्रपश्यन्ती तस्थौ जयमतिः सुखम् ॥ ४५ ॥ सुकोशलकुमारस्य सुनन्दा स्तनधात्रिका | नन्दा रमणदा धात्री सुमतिर्भोजनप्रदा ॥ ४६ ॥ सुप्रभा स्नानदा धात्री मेखला मण्डनप्रदा । एताभिः पञ्चभिस्तत्र वृद्धिं नीतः सुकोशलः ॥ ४७ ॥
३६ ॥
४१ ॥
1 पफज त्रिकलमिदम्. 2 पफज त्रिकलमिदम्. 3 पफज चतुष्कुलकमिदम्. 4 पफज त्रिकलमिदम्. 5 ज जानपदस्य 6 फ स्थितः •
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org