________________
- १२७. १३ ]
कोशलकथानकम्
३०५
अग्निभूतेः प्रिया चासीत् सोमदत्ताऽन्यजन्मनि । तत्पुत्रो नागशर्मा च सोमभूतिरपि स्फुटम् ॥ २४४॥ शूरमित्रो महामानी चाग्निभूतिस्तपो दधौ । श्रुत्वा धर्मं मुनेः पार्श्वे भ्राम्यति स्माजवंजवम् ॥२४५॥ विधाय पुत्रसंयुक्ता संसारपरिहिण्डनम् । सोमदत्ताऽभवद् भ्रूणा महाकालवने शिवा ॥ २४६ ॥ नागशर्मादयो भ्रान्त्वा चत्वारोऽपि भवार्णवम् । तच्छिवानन्दना जाता पापकर्मानुभावतः ॥ २४७॥ दिनानि सप्त संजाते तदानीं वातवर्धले' । क्षुधापम्पापरिश्रान्ता निजबालकसंयुता ॥ २४८ ॥ पूर्ववैरानुबन्धेन तत्पाद रुधिरं तदा । सा शिवा पातुमारब्धा सुकुमालमुनेरियम् ॥ २४९ ॥ खादयन्त्या तरां पादं तन्मुनेः शिवया तया । समाधिमरणेनायं चक्रे कालं दिनत्रये ॥ २५० ॥ विमाने नलिनीगुल्मे नाके चाच्युतनामनि । द्वाविंशतिसमुद्रायुः सुकुमालोऽमरोऽभवत् ॥ २५१ ॥ ततश्चतुर्थके यामे रजन्या देवनिश्वन - । श्रवणं तज्जनीसंघसमागमनमत्र च ॥ २५२ ॥ भूयोऽपि तदलंकारत्यजनं दर्शनं तनोः । विलापकरणं तासां नितान्तं हतचेतसाम् ॥ २५३ ॥ श्वश्रूरष्टौ विधायाशु जनन्या सह दीक्षणम् । तपः कृत्वा समाधानाद् देवलोकसमागमः ॥२५४॥ सुकुमालमुनौ नूनमच्युतं कल्पमासिते । एतत्सर्वं प्रवक्तव्यं नितरां कुशलैर्नरैः ॥ २५५ ॥ श्रीमदुज्जयिनीतोऽयं दक्षिणद्वारगोचरः । स्तोकमार्गमतिक्रम्य स प्रदेशो विराजते ॥ २५६ ॥ अवन्तीसुकुमालोऽयं यत्र कालगतो मुनिः । कापालिकैः प्रदेशोऽसौ रक्षतेऽद्यापि पुण्यभाक् ॥२५७॥ तत्र कापालिकानां च दत्त्वा मूल्यं बहु स्फुटम् । पुण्यबुद्ध्या दहन्त्येते मृतकानि महाजनाः ॥२५८॥ ७ देवैर्गन्धोदके मुक्ते तस्मिन् काले गते मुनौ । सुगन्धीभूतसर्वाशा जाता गन्धवती नदी ॥ २५९ ॥ तद्भार्याभिस्तरां तत्र कृते कलकले सति । बभूव लोकविख्यातो देवः कलकलेश्वरः ॥ २६० ॥ ॥ इति श्रीअवन्तिसुकुमालमुनि कथानकमिदम् ॥ १२६ ॥
*
1 [ वार्दले° ]. 2 पफज चतुष्कुलकमिदम्. 3 पफज युगलमिदम्. 4 पफज युगलमिदम्. 5 पफ कर्तुमिच्छतः.
बृ० को ० ३९
१२७. सुकोशलकथानकम् ।
विनीताविषये चास्ति कोशला नगरी वरा । प्रजापालो नृपस्तस्यां तत्प्रिया सुप्रभा प्रभा ॥ १ ॥ 20 इभ्यः सिद्धार्थनामासीत् तच्छ्रेष्ठी राजवल्लभः । द्वितीयं तस्य नामेदं दिशां धनपतिः पतिः ॥ २ ॥ द्वात्रिंशद्वनितास्वामी द्वात्रिंशद्धनकोटिकः । तन्मध्ये वल्लभाऽस्यैषा जयादिमतिरङ्गना ॥ ३ ॥ प्रार्थयन्त्या सुतोत्पत्तिं जयमत्या सहान्यदा । संतस्थे प्रीतचेतस्कः सिद्धार्थः सौधमस्तके ॥ ४ ॥ एवं हि तिष्ठतस्तस्य श्रेष्ठनः प्रीतचेतसः । प्रासादशिखरे रम्ये सुधाशुभ्रीकृताम्बरे ॥ ५ ॥ उल्लिखन्ती शिरः प्रीत्या सका स्वर्णशलाकया । केशमध्येऽलिसंकाशे ददर्श पलिताङ्कुरम् ॥ ६ ॥ 25 आदाय मुष्टिमध्ये मुं तत्प्रिया निजगाविति । दूतः समागतो नाथ त्वदन्तं किं न पश्यसि ॥ ७ ॥ निशम्य तद्वचः श्रेष्ठी सिद्धार्थोऽपि सविस्मयः । दिशोऽवलोकनं कृत्वा जगादेमां स्ववल्लभाम् ॥८॥ देवि देवि कुतो दूतः प्राप्तोऽसौ कस्य वल्लभे । विलोकितेऽधुना यो मे सर्वत्रैव न दृश्यते ॥ ९ ॥ करं प्रसार्य सा देवी बभाणेमं सकौतुका । नृपदूतं न वच्मीमं धर्मदूतं वदामि ते ॥ १० ॥ एवं निगद्य तत्रत्या विस्मयव्याप्तमानसा । दर्शयामास तं देवी निजहस्तव्यवस्थितम् ॥ ११ ॥ * दृष्ट्वा पतिमेकं स विद्याधरयुगं तथा । जातिस्मरत्वमासाद्य प्रवज्यां कर्तुमुत्थितः ॥ १२ ॥ अत्रान्तरे समागत्य मन्त्रिभिस्त्रिभिरादरात् । तपः कुर्वन् सुसिद्धार्थो धारितस्तद्धितेच्छया ॥ १३ ॥
30
Jain Education International
5
For Private & Personal Use Only
10
www.jainelibrary.org