________________
३०४
हरिषेणाचार्यकृते बृहत्कथाकोशे [ १२६. २१०-- नागशर्मचरो देवस्ततश्युत्वाऽऽयुषः क्षये । पुत्रः सुरेन्द्रदत्तोऽभूत् तयोः प्रेमानुरक्तयोः ॥२१०॥ आसीत् सुभद्रसंज्ञोऽन्यः श्रेष्ठीभ्यः कुलसंभवः। भार्या सर्वयशास्तस्य श्रीमदुज्जयिनीपुरि ॥२११॥ भुक्त्वा तत्र सुखं दिव्यं ततश्युत्वा त्रिवेद्यपि । जाता सर्वयशोगर्भे यशोभद्रा सुकन्यका ॥२१२॥ वितीर्णेयं यशोभद्रा सुभद्रेण च सादरम् । चार्वी सुरेन्द्रदत्ताय कुमाराय महौजसे ॥ २१३॥ 5 नागश्रीपूर्विका याऽऽसीत् पद्मगुल्मविमानके । देवस्तु शेषपुण्यः सन् स्वमातृखप्नपूर्वकम् ॥२१४॥ भुक्त्वा नाकसुखं दिव्यं च्युत्वाऽसौ तद्विमानकात् । अवन्तीसुकुमालाख्यो बभूव तनयोऽनयोः २१५ अवन्तीसुकुमालाय श्रेष्ठिपढें वितीर्य च । दीक्षां सुरेन्द्रदत्तोऽरं जिनसेनान्तिके दधौ ॥ २१६ ॥ अवन्तीसुकुमालोऽपि नवयौवनराजितः । द्वात्रिंशत्सौधमध्यस्थो द्वात्रिंशल्लक्षणान्वितः ॥ २१७॥ हारराजितवक्षस्को द्वात्रिंशद्वनितः सकः । अवन्तीसुकुमालोऽयं सुखं तस्थौ स्वपत्तने ॥ २१८॥ " कुमारं वीक्ष्य तत्रत्यं जिनधर्मपरायणम् । नैमित्तिकश्चकारेममादेशं तज्जनान्तिके ॥ २१९ ॥ कुमारोऽयं यदा नूनं मुनि द्रक्ष्यति पावनम् । हित्वा परिग्रहं सर्वं तदा दीक्षां करिष्यति ॥२२०॥ नैमित्तिकोदितं श्रुत्वा तज्जनैीतमानसैः । मुनीनां तद्गृहे दूरात प्रवेशोऽपि निराकृतः ॥ २२१ ॥ उज्जयिन्यां पुरि प्रीता प्रद्योतस्य महीपतेः । ज्योतिर्मालाभिधानाऽस्ति महादेवी मनःप्रिया ॥२२२॥ दक्षिणापथदेशाद्धि विक्रेतुं करभासुराः । एकेनाष्टौ समानीता वणिजा रत्नकम्बलाः ॥ २२३ ॥ Is ततो ग्रहणमेतेषां कम्बलानां नरेशिना । अवन्तीसुकुमालस्य जनन्या ग्रहणं कृतम् ॥ २२४ ॥
ततश्चत्वारि खण्डानि दिव्यरूपधराणि च । अतीवानन्दकारीणि समस्तजनचक्षुषाम् ॥ २२५ ॥ विलासविभ्रमोपेता हावभावसमन्विताः । तत्रत्याः सन्ति रूपाढ्या द्वात्रिंशद् वरकन्यकाः ॥२२६॥ एकैकं योषितः स्पष्टं नूनं तुषुडिकान्तरम् । एकैकखण्डसंवेशो द्रष्टव्योऽत्र मनीषिभिः ॥ २२७ ॥
भूपतेः श्रवणं तत्र प्रद्योतोद्योतमालयोः । तद्गृहागमनं तोषान्महाप्रेमानुरक्तयोः ॥ २२८॥ " उपचारविधानं च निमजद् वापिकान्तरम् । पानीयरमणं राज्ञो मणिहारविसर्जितम् ॥ २२९ ॥ भूपालवचनेनाशु निपुणं तद्भगवेषणम् । मणिकुण्डलहाराणां योषितां च विलोकनम् ॥ २३० ॥ आश्चर्यकारणं राज्ञः स्नात्वा तस्यां समागमः । दिव्यभोजनवेलायां दीपिकास्थापनं तथा ॥२३१॥ लवणोदनसूपानां मृदूनां रन्धनं परम् । दृष्ट्वैतद् भूभुजः स्पष्टं सरसं परिपृच्छनम् ॥ २३२ ॥
सानुरागेण भावेन स्वमातृकथनं पुनः । अवन्तिसुकुमालाख्यं राज्ञा तन्नामकीर्तनम् ॥ २३३ ॥ 25 मुनिपृच्छाविधानं च तन्मुन्यादेशकारणम् । भवत्पुत्रसमुत्पत्तिर्भविष्यति विसंशयम् ॥ २३४ ॥ मुनिं दृष्ट्वा तपः साधुः प्रकरिष्यत्ययं लघु । नैमित्तिकोदितं सत्यं समस्तभुवनातिगम् ॥ २३५॥ महाकालस्य चोद्याने पादोगमनमृत्युना । स्थास्यत्ययं मुनिवरिस्तदा मृतकशय्यया ॥ २३६ ॥ अन्यदा मुनिसंघानां तत्रत्यानां धनागमे । योगग्रहणमेतेषां नानावग्रहकारिणाम् ॥ २३७॥ स्वाध्यायपठनारम्भ खगृहे च प्रवेशनम् । साधूनां साधुवृत्तानां निषिद्धं तन्नरैः स्फुटम् ॥२३८॥ 30 चातुर्मास्यावसाने च प्रज्ञप्तिपठनं कलम् । श्रुत्वा तन्निनदं तेषां दीक्षादिस्मरणं तथा ॥ २३९ ॥
मुनिसानीप्यसंप्राप्तिर्मुनिदीक्षारुचिस्तथा । अवन्तीसुकुमालेन स्वायुषः परिपृच्छनाम् ॥ २४० ॥ मुनिभाषणमेतस्य दिवसत्रयजीवनम् । स्वयमेव प्रबोधत्वं स्वयमेव च दीक्षणम् ॥ २४१ ॥ महाकालस्य चोद्याने पीलवृक्षस्य मूलतः । प्रत्याख्यानं मुनेरस्य यावज्जीवं सुचेतसः ॥ २४२ ॥ मेरुवन्निःप्रकम्पस्य ध्यानाचलनिवासिनः । कषायहीनचित्तस्य शयनं मृतकार्चया ॥ २४३ ॥
। पफ श्रेष्ठीभ्यकुल.2 पफ पुरी. 3 ज द्रष्टव्यो तत्र. 4 पफ नानाविग्रह. 5 पफज कुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org