________________
-१२६. २०९] अवन्तिसुकुमालकथानकम्
३०३ नागश्रीवेदसंपाठं निशम्य वसुधाधिपः । सूर्य मित्रं जगौ साधुं तोषकण्टकिताङ्गकः ॥ १७७॥ तनया नाथ नागश्रीस्तव ज्ञानमहार्णव । नियन्तं ज्ञातमस्माभिर्न चेयं नागशर्मणः ॥ १७८ ॥ किंतु नागश्रियो नाथ दिव्यज्ञानमहेश्वर । वेदप्रपाठसंबन्धं ज्ञातुमिच्छामि सांप्रतम् ॥ १७९ ॥ निशम्य तद्वचः सारं ध्वनिना ह्लादयन् सभाम् । सूर्यमित्रो जगादेति धराधीशं सकौतुकम् ॥१८०॥ विषये वत्सकावत्यां कौशम्बी परमा पुरी । अस्यामतिबलो राजा श्रीकान्ता तत्प्रियाऽभवत् ॥१८१॥ अग्निमित्रो द्विजोऽस्यासीदग्निला तन्नितम्बिनी । तत्सुतो सूर्यमित्रोऽहं सोमशर्मा कनिष्ठकः॥१८२॥ सोमशर्मप्रिया चासीत् काश्यपी नाम विश्रुता । तन्नन्दनोऽग्निभूतिश्च वायुभूतिरपि क्रमात् ॥१८३॥ मत्तातमरणे राज्ञाऽनुक्रमं जानता तराम् । समर्पितानि सर्वाणि वृत्तिस्थावरकानि मे ॥ १८४ ॥ मया तानि च सर्वाणि वृत्तिस्थावरकाण्यरम् । सोमशर्मवितीर्णानि महास्नेहानुकारिणा ॥ १८५॥ मगधाविषये चासीत् पुरं राजगृहं तदा । वसुपालो नृपस्तत्र सुप्रभा तन्मनःप्रिया ॥ १८६ ॥ मया तद्भूपतेः पार्थे वृत्तिस्थावरकानि च । उपयुक्तानि सर्वाणि महाविद्याप्रभावतः ॥१८७॥ राजप्रसादतस्तत्र भुञ्जानस्योत्तमां श्रियम् । सुखेन मम मद्धातुबन्धुभिः सह सौख्यतः॥१८८॥ एवं गच्छति तत्काले सोमशर्मा ममानुजः । कालेन पञ्चतां नीतः कालो हि बलवान् भुवि ॥१८९॥ तस्मिन् काले गते नूनमग्निभूतिस्त्वरान्वितः । वायुभूतिसमं यातो मदन्तं विभवात्यये ॥ १९० ॥ सप्ताष्टवर्षसंयुक्ते काले द्वावपि भूपते । कृतौ मया प्रयत्नेन वेदस्मृतिविशारदौ ॥ १९१ ॥ ततः कौशाम्बिकां प्राप्य दृष्ट्वाऽतिबलभूपतिम् । स्ववृत्तिस्थावराण्याशु मोचयामासतुस्तकौ ॥१९२॥ समस्तविप्रशास्त्राणां ब्राह्मणानां निरन्तरम् । व्याख्यानं च प्रकुर्वाणौ तस्थतुः स्वपुरे तकौ ॥१९३॥ अग्निभूतिसमं राजन् लब्धबोधिपदार्थकः । दिगम्बरव्रतं सारं चकाराहो विशुद्धये ॥ १९४ ॥ वायुभूतिमृति प्राप्य मानदोषेण गर्दभी । सूकरी च शुनी जाता मातङ्गी दीनमानसा ॥१९५॥ कालं कृत्वा च मातङ्गी शुभकर्मानुभावतः । जाता जातिस्मरा भूप नागश्रीर्वरकन्यका ॥ १९६ ॥ 20 जातिस्मरत्वमासाद्य मदुक्तेन कलस्वना । पपाठ सकलं वेदं नागश्रीरियमादरात् ॥ १९७ ॥ तद्वेदपाठसंबन्धः कथितो योगिनाऽमुना । महावैराग्यसंपन्नश्चन्द्रवाहनभूपतिः ॥ १९८ ॥ श्रुत्वा जिनोदितं धर्म स्वर्गमोक्षप्रदायकम् । महाचलसुतायास्मै दत्त्वा राज्यमकण्टकम् ॥ १९९ ॥ सहर्बहुभियुक्तः सामन्तानां जिनोदितम् । चन्द्रवाहो दधौ राजा सूर्य मित्रान्तिके तपः॥२००॥" अन्यैरपि तदा लोकैरात्मभक्त्या प्रमोदिभिः । सम्यक्त्वपूर्वको धर्मो गृहीतो जैनपुङ्गवः ॥२०१॥ 25 सूर्यमित्रगुरोः पार्थे नागशर्माऽतिभक्तितः । महावैराग्यसंयुक्तो दीक्षां दैगम्बरी दधौ ॥ २०२॥ नागश्रिया समं साध्वी त्रिवेदी जिनभक्तितः । ब्राझिकार्यान्तिके शीघ्रं तपो जैनमशिश्रियत् ॥२०३॥ हत्वा कर्माष्टकं दुष्टमग्रपर्वतमस्तके । सूर्यमित्रोऽग्निभूतिश्च संप्राप्तः सिद्धिपत्तनम् ॥ २०४ ॥ नागशर्मा तपः कृत्वा दक्षं कर्मविनाशने । बभूवाच्युतकल्पेऽसौ देवो भासुरविग्रहः ॥ २०५॥ कालं प्रकुर्वती दीना पूर्वस्नेहा त्रिवेद्यपि । नागश्रीमै सुता भूयान्निदानमकरोदिति ॥ २०६॥ ॥ ततो मातृसुतायुग्मं कालं कृत्वा समाधिना । पद्मगुल्मविमानेऽभूदच्युतस्वर्गसंभवे ॥ २०७॥ देवयुग्मं मनोहारि हारराजितविग्रहम् । द्वाविंशतिसमुद्रायुस्तस्थौ तत्र सुखोचितम् ॥ २०८ ॥ इन्द्रदत्ताभिधश्चासीदिभ्यः श्रेष्ठी महाधनः । नूनं गुणमती भार्या श्रीमदुज्जयिनीभवा ॥ २०९ ॥
1 [नियतं ]. 2 पफज त्रिकलमिदम्. 3 [वायुभूतिम॒तिं], 4 पफज कुलकमिदम्. 5 पफज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org