________________
३०२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १२६. १४४निशम्य वचनं राजा महादेवीमहीभृताम् । कोपलोहितभीमाक्षस्तदोचे दण्डवासिकान्॥१४४॥ प्राध्वं कृत्वा विमं गोपं महालोभप्रवर्तितम् । दूरं नयत देशं हि धीरपुण्यनिकारिणम् ॥१४५॥ निशम्य तद्वचस्तत्र भयवेपितविग्रहा । नागश्री गशर्माणं जगादेति विशुद्धधीः ॥ १४६ ॥
अहिंसा सत्यमस्तेयं स्वदाररतिकारणम् । धनादिकप्रमाणं च व्रतान्येतान्यणूनि मे ॥ १४७ ॥ 5 अर्पितेषु समस्तेषु व्रतेष्वेतेषु योगिनाम् । तात पूर्वोक्तदोषास्तु प्राप्तव्याः सकला मया ॥ १४८॥ नागश्रीवचनं श्रुत्वा नागशर्माऽवदत् तकाम् । सुव्रताणुव्रतैरेभिर्भव त्वं पञ्चभिः सुते ॥ १४९ ॥ अणुव्रतानि पञ्चानि हितकारीणि देहिनाम् । एतानि सारभूतानि माऽर्पयिष्यसि कस्यचित् ॥१५०॥ अस्माकमपि चैतानि योगिभिः प्राक्तनैः सुते । कथितानि विशिष्टानि स्वहिताचारवेदिभिः ॥१५१॥ किं पुनस्तस्य नग्नस्य श्रमणस्य कदर्थनम् । कृत्वा लज्जाविहीनस्य गच्छावः स्वगृहं सुते ॥१५२॥ ० येनान्यलोकबालानां नितान्तं मूढचेतसाम् । श्रमणोऽयं गताचारो न करोति प्रतारणम् ॥१५३॥ एवं निगद्य तां बालां नागशर्मा रुषान्वितः । अवादीत् तं मुनिं वीरं तारनादेन दूरतः ॥१५४॥ भो भो मुने कुतो हेतोर्मत्तनूजाप्रतारणम् । कृतं त्वया वद क्षिप्रं निर्लज्ज गुणवर्जित ॥१५५॥ आकर्ण्य तद्वचः साधुर्बभाणेमं पुरःस्थितम् । भटपुत्र न नागश्रीस्त्वत्सुता मत्सुता स्फुटम् ॥१५६॥ एवं निगद्य तं विप्रं प्राह नागश्रियं मुनिः। एहि पुत्रि ममाभ्याशं धर्मसंसक्तमानसे ॥ १५७ ॥ 15 श्रुत्वा साधुवचो दीनं नागश्रीः प्रीतमानसा । सूर्यमित्रस्य सामीप्यमाजगाम त्वरान्विता ॥१५८॥
सूर्यमित्राग्निभूताभ्यां मुनिभ्यामात्मनोऽन्तिके । नागश्रियं विधायाशु नागशर्मा प्रभाषितः ॥१५९॥ गच्छ त्वं ब्राह्मण क्षिप्रं कातर स्थानतोऽमुतः । यावन्न भूभुजाऽस्माभिर्दुष्टचित्त कदर्थ्यसे ॥१६॥ श्रुत्वा मुनिवचस्तत्र नागशर्मा स माहनः । अब्राह्मण्यं महाऽन्यायमुच्चरन् वचसा द्रुतम् ॥१६१॥
चन्द्रवाहनसामीप्यं संप्राप्य निजगाविदम् । महाराजन्नहं मुष्टो नग्नश्रमणकैः खलैः ॥ १६२ ॥ 20 नागश्रियं समादाय यावन्नो यान्ति ते वनात् । तावन्मया समं शीघ्रं तदन्तं याहि भूपते ॥१६॥
श्रुत्वा तद्वचनं राजा नानाजनसमन्वितः । कौतुकव्याप्तचेतस्कः सूर्यमित्रान्तिकं ययौ ॥१६४ ॥ अत्रान्तरे जगौ विप्रो वचनं नृपसाक्षिकम् । नागश्रीमत्सुता नागैर्वितीर्णा मम भूपते ॥ १६५ ॥ निशम्य सूर्यमित्रोऽपि वचनं नागशर्मणः । जगादेमं पुरो धीरं नृपादिजनसाक्षिकम् ॥ १६६ ॥
नागश्रीमत्सुता नूनं शृणु मद्वचनं नृप । अध्यापिता मया वेदांश्चतुरः स्मृतिपूर्वकम् ॥ १६७॥ 25 सूर्यमित्रवचः श्रुत्वा नरेन्द्रो निजगावमुम् । नागश्रियं वेदपाठं कारापय महामुने ॥ १६८॥ . चन्द्रवाहनभूपस्य निशम्य वचनं तदा । नागश्रियं जगादेति सूर्यमित्रो महामुनिः ॥ १६९ ॥ वायुभूतिचरः क्षिप्रं त्वं नागश्रीः स्फुटाक्षरम् । मदध्यापितवेदानां पठनं कुरु सांप्रतम् ॥१७०॥" सूर्यमित्रवचः श्रुत्वा तदा जातिस्मरी मुदा । पपाठ सकलान् वेदान्नागश्रीरिति सत्वरम् ॥ १७१ ॥
ओंकारं प्रथमं कृत्वा स्वरवर्णप्रभेदतः । चतुःषष्टिसमायुक्ता पपाठ क्रमविभागतः ॥ १७२ ॥ 30 सूत्राद्युपक्रमेणेमं समस्तं विधिपूर्वकम् । ऋग्वेदं च पपाठालं नागश्रीनृपसाक्षिकम् ॥ १७३ ॥ ततः सुवर्णभेदेन सप्तसंहितिकादितः । सूत्रवर्णादितः प्रोक्तो यजुर्वेदोऽनया क्रमात् ॥ १७४ ॥ सामवेदस्ततः प्रोक्तस्तथाऽथर्वणनामकः । अष्टादशपुराणानि तत्पुरो धर्मसंहिताः ॥ १७५ ॥ मीमांसान्यायशास्त्राणि चतुर्दश नृपाग्रतः । विद्यास्थानानि सर्वाणि भाषितानि तदाऽनया ॥१७६।।"
1 [ दण्डपाशिकान् ]. 2 पफज कुलकमिदम्. 3 पफज त्रिकलमिदम्. 4 पफज चतुष्कुलकम्. 5 फ गुणवर्जितम्. 6 पफज युगलमिदम्. 7 पफज युगलमिदम्.8 पफज त्रिकलमिदम्.9 ज सौमित्रं वचः. 10 पफज युगलमिदम्. 11 पफज कुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org