________________
-१२६. १४३ ] अवन्तिसुकुमालकथानकम्
३०१ क्षणदायामतीतायां संप्राप्य विषदौ तकौ । जीवनं श्रेष्ठिपुत्रस्य चक्रतुर्मत्रयोगतः ॥ १११॥ जीविते श्रेष्ठिपुत्रेऽस्मिन् मणिस्वर्णादिसंपदा । पूजयामास तौ श्रेष्ठी विषदौ प्रीतमानसः ॥११२॥ एवं नरेण चैकेन तोषपूरितचेतसा । तदानीं नरसिंघस्य कथ्यमाने कथानके ॥ ११३॥ दृष्टिमोहं विधायैषां रक्षकाणां प्रयत्नतः । बहुधान्यं मिमीतेऽसौ वाणिजो हस्तसंज्ञया ॥ ११४॥ चौरिकाव्यवहारेण धान्ये च प्रमितेऽखिले । धर्माधिकारिणेऽन्योन्यं व्यवहारं चकार सः ॥११५॥ ततः साधनिकैः सर्वैर्मापकस्योपरि स्फुटम् । असत्यचोरिकावादः स्थापितस्तत्पुरान्तरे ॥ ११६॥ जिह्वाहस्तपदच्छेदः समस्तजनसाक्षिकः। आदिष्टो नरनाथेन तस्य मायाविधायिनः ॥११७॥ निशम्य वचनं तस्य नागश्रीमतिशालिनी । जगाद पूर्ववत् सर्वं तत्त्वतो जनकस्य सा ॥ ११८ ॥ नागश्रियो वचः श्रुत्वा धर्मविन्यस्तचेतसः । बभाणैतां पुनस्तत्र तोषपूरितमानसः ॥ ११९ ॥ व्रतद्वयमिदं भद्रे त्वदन्ते तिष्ठतु स्फुटम् । व्रतान्यन्यानि सर्वाणि मुनेरर्पय शोभने ॥ १२०॥ ॥ दृष्ट्वाऽपरं नरं मार्गे नागश्रीपरिनोदितः । पप्रच्छ नागशर्मेदं नीयमानं मृति प्रति ॥ १२१ ॥ को दोषो विहितोऽनेन येन बद्धः प्रयात्ययम् । तद्वाक्यतो जगादामुं स नरः प्रीतमानसः॥१२२॥ नागशमोदितं श्रुत्वा तन्मध्ये प्रीतमानसः। जगादेति वचो मन्दमेकः कोऽपि नरः स्फुटम् ॥१२३॥ चम्पापुरीसमीपस्थपुरं शैलपुरं परम् । बभूव मत्सनामाख्यो राष्ट्रकूटकुटुम्बिकः ॥ १२४ ॥ तद्भार्या जयका चासीत् तत्पुत्रौ नन्दवोदकौ । नन्दाय ज्यायसे दत्ता मातुलेन स्वकन्यका ॥१२५॥ अकृत्वा व्रजनं तस्या नन्दोऽपि धनतृष्णया । यात्रया चलितः क्षिप्रं नूनं द्वादशवर्षया ॥१२६॥ देशान्नन्दो न चायाति वाणिज्यायै गतस्तदा । वोदकाय वितीर्णा सा मातुलेन स्वकन्यका ॥१२७॥ करोति व्रजनं यावद् बोदोऽस्यास्तद्दिने सति । नन्दोऽपि तावदायातो दूरदेशात् स्वपत्तनम् ॥१२॥ दत्ता भूयोऽपि सा कन्या नन्दाय जनकेन च । इष्टा न रूपयुक्ताऽपि ज्यायसाऽनेन कन्यका ॥१२९॥ नन्दवोदपरित्यक्ता तदा सोदालिकाऽपि सा । रूपयौवनसंयुक्ता पितृगेहे वितिष्ठते ॥ १३०॥ तस्मिन्नेव पुरे रूपी नागशर्मसुतोऽभवत् । कटुकागर्भसंभूतो नागशूराभिधश्चलः ॥ १३१॥ भार्याचतुष्टयं हित्वा देवीरूपसमप्रभम् । सोदालिकासमं रेमे नागशूरः कुधीरयम् ॥१३२॥ सोदालिकां समादाय तद्रूपहृतमानसः । चम्पापुरी पुरीं प्राप्य नागशूरो मदातुरः ॥ १३३ ॥ गृहीत्वा रक्षकैरेष परनारीनिषेवितम् । आस्थानमण्डपस्थस्य भूपस्याथ समर्पितः ॥ १३४ ॥ कारयित्वाऽऽयसी रामां रूपराजितविग्रहाम् । राजाऽस्य दर्शयामास चित्रभानुसमप्रभाम् ॥१३५॥ 25 एतत्सर्वं समाख्यातमाख्यानमतिसुन्दरम् । तन्नरेण पथि स्पष्टं नागश्रीनागशर्मणोः॥ १३६ ॥ स्तोकमार्गमतिक्रम्य नरमेकं परद्युतिम् । पूर्वोक्तविधिना बद्धं दृष्टवन्तौ तदा तकौ ॥ १३७॥ नागश्रीवचनेनाशु नागशर्मा विलोक्य तम् । बभाणान्यं नरं तत्र बद्धोऽयं केन हेतुना ॥१३८॥ निशम्य भारतीमस्य जगादैको नरोऽपि तम् । यो बद्धो नीयते भद्र धीरपुण्यः स गोपकः ॥१३९॥ ततस्तुष्टेन भूपेन नितान्तं स्वस्वगोकुले । धीरपुण्याय गोपाय वितीर्णा धेनुकाः पराः ॥ १४० ॥ 30 एकैकां धेनुमादाय सामन्तादिव्रजे स्वयम् । तस्थौ खमन्दिरे गोपो देव्याः कामदुघामपि ॥१४१॥ तत्प्रत्यक्षं महादेव्या भूपालाय निवेदितम् । धीरपुण्येन गोपेन राजन् मद्धेनुका हृता ॥ १४२ ॥ महादेवीवचः श्रुत्वा भूपैरन्यैरुदाहृतम् । राजन्ननेन गोपेन मदीया धेनवो हृताः ॥ १४३॥ ____1 [ नरसिंहस्य ]. 2 पफज युगलमिदम्. 3 [°परिचोदितः]. 4 [ मत्समानाख्यो]. 5 पफ यात्राया. 6 पफज कुलकमिदमू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org