________________
३००
हरिषेणाचार्यकृते बृहत्कथाकोशे [१२६. ७७दृष्ट्वाऽमुं तस्करं बद्धं नागश्रीः पितरं जगौ । तात किं कारणं बद्धो युवाऽयं रूपराजितः ॥७॥ सुतावचनतोऽनेन तदानीं नागशर्मणा । पृष्टा नराः कुतो बद्धो नीयतेऽयं महानरः ॥ ७८॥ नागशर्मवचः श्रुत्वा जगुरेते नराः पुनः । श्रेष्ठिपुत्रोऽमुना बढयो गृहीता धनकोटिकाः ॥ ७९ ॥ याचितोऽपि धनं बाढं दातुमिच्छति नैषकः । अनेन निहतः सोऽयं करवाल्या मृतिं गतः ॥८॥ । अनेन कारणेनायं नरः पुरुषघातकः । नरेन्द्रवचनाद् बद्धो नीयते दण्डवासिकैः ॥ ८१॥ निशम्य वचनं तस्य नागश्रीनिजगावमुम् । इदं व्रतं मया तात गृहीतं मुनिसंनिधौ ॥ ८२॥ जीवानां मृत्युभीरूणां जीवनं वाञ्छितं सदा । कायेन मनसा वाचा न करोमि वधं पितः ॥८३॥ इदं व्रतं समाशु मुनेर्जीवनिपातनम् । मया त्वन्मतकारिण्या कर्तव्यं जनक स्फुटम् ॥ ८४॥ हतेषु प्राणिसर्वेषु चरणबाहुयत्रिता । भवतां पश्यतां यामि श्मशानं तूर्यनिस्वनैः ॥ ८५ ॥ 10 शूलिकायां सुतीक्ष्णायां चितास्थायां निजां तनुम् । निक्षिप्य पञ्चतां शीघ्रं यामि तात त्वदग्रतः॥८६॥' निशम्य स्वसुतावाक्यं नागशर्मा बमाण तम् । तिष्ठत्विदं व्रतं पुत्रि तव तन्वि ममापि च ॥ ८७॥
खसुखं वाञ्छिता बाढं धर्म च जिनदेशितम् । नूनं जीववधः पुंसा न कर्तव्यो मुमुक्षुणा ॥८८॥ तेन व्रतमिदं तन्वि मा समर्पय योगिनः । अन्यानि यानि सर्वाणि मुञ्च तानि तदन्तिके ॥८९॥
यावदेवं सुतां शास्ति नागशर्मा पथि द्रुतम् । आगच्छन्तं नरं तावद् ददर्श करयत्रितम् ॥९॥ 15 दृष्ट्वाऽमुं नागशर्माऽपि पप्रच्छान्यं नरं पुनः। को दोषो विहितोऽनेन येन बद्धो व्रजत्ययम् ॥११॥ निशम्य स नरस्तूर्णं वचनं नागशर्मणः । बमाण वचसा चेमं कौतुकव्याप्तमानसम् ॥ ९२॥ अत्रैव देवदत्ताख्यो यज्ञदत्तोऽपि वाणिजः । गोधूमचणकादीनां संग्रहं चक्रतुस्तकौ ॥ ९३ ॥ एतौ तद्धान्यमादाय क्रयार्थ लाभलालसौ । श्रीपुरात् सहसा प्राप्तौ चम्पाख्यां नगरीमिमाम् ॥१४॥ ताभ्यां जयकरायेदं राष्ट्रौडायाखिलं तदा । वितीर्णं धनलोभेन धान्यं विविधभेदकम् ॥ ९५ ॥ 20 अत्रैव नगरे सारे तारको नाम वाणिजः । मायया कुरुते चौर्य हस्तसंज्ञाखरूपया ॥ ९६ ॥
जयाकराभिधानस्य राष्ट्रौडस्य धनेशिनः । मीयते सकलं धान्यं नरेणैतेन मायिना ॥ ९७ ॥ तद्वेश्मभित्तिसंबन्धं तदा चित्रकरेण च । लिखितं चित्रकर्मेदं वन्दनार्थं जनप्रियम् ॥ ९८॥ पदाक्षरमनोहार बुधकर्णरसायनम् । इदमाख्यानकं सोऽयं जगावस्य विवेकिनः ॥ ९९॥
कस्मिन्नपि पुरे श्रेष्ठी धनपालो महाधनः । तत्पुत्रो दन्दशकेन स दष्टो धनदत्तकः ॥१०॥ 25 निर्विषीकरणे दक्षौ लोकविख्यातकीर्तिकौ । तन्निमित्तं समाहूतौ विषदौ जनकेन च ॥ १०१॥
तन्मध्ये हि वदत्येकस्तत्तातं विषदस्तदा । नक्तं तिष्ठतु ते पुत्रः सर्पदष्टो धनाधिप ॥ १०२॥ विषव्याप्तसमस्ताङ्गं विह्वलीभूतमानसम् । त्वन्नन्दनं विधास्यामि प्रभाते निर्विषं ध्रुवम् ॥ १०३॥ एवमुक्त्वा धनाधीशं सुतशोककदर्थितम् । जगाम विषदस्तूर्णं स्वमनीषितमादरात् ॥ १०४॥
चतुरो नागदष्टस्य तत्समीपे नरानरम् । स्थापयामास तत्तातः सहस्रभटसंज्ञकान् ॥ १०५॥ 30 तत्रैको मेंढूकं हन्तुं नरः प्राप्य वनान्तरम् । आदायेमं पुनः शीघ्रमाजगाम तदन्तिकम् ॥ १०६॥
अन्यो निर्गत्य काष्ठार्थं तानि चादाय सत्वरम् । नागदष्टान्तिकं प्राप भयवेपितविग्रहः ॥१०७॥ अपरोऽग्निं समानेतुं विनिःसृत्य तदन्तिकात् । गृहीत्वाऽमुं परिप्राप नागदष्टसमीपकम् ॥ १०८॥ अन्योऽवष्टभ्य तं तत्र स्वशरीरेण यत्नतः । विषव्याप्तसमस्ताङ्गं तस्थौ तज्जीविताशया ॥ १०९॥ एवं ते रक्षकाः सर्वे तोषपूरितमानसाः । अग्निपक्वं विधायाशु मिंढकं भक्षयन्त्यलम् ॥ ११ ॥
___ 1 [दण्डपाशिकैः]. 2 पफज त्रिकलमिदम्. 3 पफ चतुःकुलकमिदम्, ज चतुष्कुलकमिदम्. 4 [वाञ्छता]. 5 पफज त्रिकलकमिदम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org