________________
-१२६. ७६ ]
अवन्तिसुकुमालकथानकम् सूकरी मृतिमासाद्य चम्पाख्यायां पुरि स्फुटम् । मातङ्गकुलसंभूता शुनी भीषणविग्रहा ॥४४॥ शुनी मृतिं परिप्राप्य मातङ्गश्रेष्ठिमन्दिरे । कुमारी लोचनात् त्यक्ता चम्पायामभवत् पुनः ॥ ४५ ॥ जम्बूफलानि पक्कानि खादयन्तीं तरोरधः । अग्निभूतिर्विलोक्यमा सवैराग्यो जगौ गुरुम् ॥ ४६ ॥ एतस्यामप्यवस्थायामस्या योगीन्द्र योषितः । जायते न च वैराग्यं तु मनागपि मे वद ॥४७॥' अग्निभूतिवचः श्रुत्वा सूर्यमित्रो जगावमुम् । वायुभूतिर्भवद्भाता यो मृतो द्विजमानतः ॥४८॥ गर्दभी सूकरी दुष्टा शुनी पापगरीयसी । भ्रान्त्वा जन्मान्तराण्येष दुर्गन्धेयं वितिष्ठते ।। ४९ ॥ सूर्यमित्रगुरोवाक्यं निशम्य करुणापरः । अग्निभूतिरिमां प्राह दुर्गन्धां पुरतः स्थिताम् ॥ ५० ॥ प्राप्तं त्वयेदृशं दुःखं तिरस्कारेण योगिनः । मद्वाक्येनाधुना पुत्रि गृहाणाणुव्रतान्यरम् ॥ ५१॥ अग्निभूत्युपदेशेन संप्राप्याणुव्रतानि सा । दुर्गन्धा मरणं प्राप मिथ्यात्वेन मलीमसा ॥ ५२ ॥ अथ चम्पापुरं श्रीमांश्चन्द्रवाहनभूपतिः । अस्य चन्द्रमती भार्या बभूव वनितोत्तमा ॥ ५३॥1॥ अस्यैव च नरेन्द्रस्य नागशर्मा पुरोहितः । अभवद् ब्राह्मणी कान्ता त्रिवेदी तन्मनःप्रिया ॥५४॥ अजायत तयोः पुत्री दुर्गन्धा प्राग्निरूपिता । नागश्रीरिति विख्याता नागिनीव कलस्वना ॥५५॥ अन्यदा सूर्यमित्रोऽसौ विहरन् कापि भूतलम् । चम्पानागवरोद्याने नागवेश्मनि तस्थिवान् ॥५६॥ पद्मनागस्तथाऽन्योऽपि नागान्तः संवलादिकः । पत्रनागस्त्रयोऽप्येते तिष्ठन्त्यत्र गृहोदरे ॥ ५७ ॥ सामन्तमत्रिकन्याभिर्नागश्रीः परिवारिता । जगाम भक्तिसंपन्ना तद्वनं नागमर्चितुम् ॥ ५८ ॥ 15 नागपूजां विधायात्र गन्धपुष्पादिसंपदा । सूर्यमित्रगुरुं प्राप नागश्रीस्तत्समन्विता ॥ ५९॥ तत्र नागश्रियं दृष्ट्वा कन्यासंघातसंगताम् । अग्निभूतिर्विलोक्येमां बभूव स्नेहसंयुतः ॥ ६०॥ नागश्रियं विलोक्येमां कुतः स्नेहोऽभवन्मम । एतत् सर्वं यथापृष्टं कथयाशु महामुने ॥ ६१ ॥ अग्निभूत्युदितं श्रुत्वा सूर्यमित्रो बभाण तम् । आकर्णयैकचित्तेन कथयामि तव स्फुटम् ॥ ६२॥ आसीत् पूर्वभवे यो हि वायुभूतिस्तवानुजः। मजुगुप्सां विधायात्र पञ्चतामगमत् पुनः ॥ ६३ ॥ 20 गर्दभी सूकरी पापाच्छुनी मातङ्गिकाऽपि च । नागश्रियमिमां विद्धि सांप्रतं त्वं मदुक्तितः ॥६४॥ कथिते सूर्यमित्रेण समस्ते तद्भवान्तरे । नीताऽग्निभूतिसूर्येण नागश्रीपद्मिनी मुदम् ॥ ६५॥ श्रुत्वा भवान्तरं सर्व स्वकीयं सूर्यमित्रतः। जग्राहाणुव्रतैः सार्धं नागश्रीदर्शनं मुदा ॥ ६६ ॥ नागश्रीरुदिता भूयः सूर्यमित्रेण सूरिणा । अणुव्रतानि सर्वाणि मा मोक्ष्यसि कदाचन ॥ ६७॥ स्तुत्वेयं सूर्यमित्रस्य पादपद्मं मनोहरम् । अग्निभूतेरपि क्षिप्रं जगाम निजमन्दिरम् ॥ ६८॥ 25 ज्ञात्वा नागश्रियं कन्यां जिनधर्मपरायणाम् । जगाद नागशर्मेमां वाचया क्रूरया द्विजः ॥ ६९ ॥ पुत्रि त्वं मत्सुता साध्वी ब्राह्मणान्वयसंभवा । जिनधर्मेण संबन्धो न तेऽसौ युज्यते भुवि ॥७॥ तस्मादिमं वृषं पुत्रि लोकबाह्यं जिनोदितम् । मुञ्च मद्वाक्यतस्तन्वि त्वं मगोत्रपताकिका ॥७१॥ पितुर्वचनमाकर्ण्य जिनधर्मपराङ्मुखम् । बभाणेमं पुनः कन्या नागश्रीः श्रीसमप्रभा ॥ ७२ ॥ यस्य पार्श्वे मया धर्मो गृहीतो जिनपुङ्गवः । तस्य पार्श्व परिप्राप्य मुञ्चाम्येनं द्रुतं पुनः ॥ ७३ ॥ . ततो नागश्रियं हस्ते गृहीत्वा निजगौ पिता । तत्सकाशं व्रजावोऽरं सुते द्वावपि निश्चितम् ॥७४॥ एवं निगद्य तौ बाढं प्रवृत्तौ पथि तं प्रति । बद्धं मलिम्लुचं बाह्वोदृढपाशेन दोषिणम् ॥ ७५ ॥ ध्वनिना पुष्करणाशु नीयमानं पुरादहिः । लोकेन वेष्टितं बाढं दृष्टवन्तौ सकौतुकम् ॥ ७६ ॥
1 पफज युगलमिदम्. 2 फ द्विजमानसः. 3 पफज युगलमिदम्. 4 पफज त्रिकलमिदम्, 5 पफज त्रिकलमिदम्. 6 पफज युगलमिदम्. 7 ज दोषिणाम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org