________________
२९८ हरिषेणाचार्यकृते वृहत्कथाकोशे
[ १२६. १२सिद्धक्षेत्राणि सर्वाणि वन्दित्वा भक्तितत्परः । भिक्षार्थमाजगामायं कौशाम्बी नगरी मुनिः॥१२॥ गृहागृहान्तरं गच्छन् युगदृष्टिविधानतः । अग्निभूतिगृहं विष्टः सूर्यमित्रमुनिः क्रमात् ॥ १३ ॥ अग्निभूतिसुतस्यापि मुञ्जाबन्धनकारणात् । निमत्रिता द्विजास्तत्र तिष्ठन्ति बहवस्तदा ॥१४॥
अग्निभूतिर्मुनिं दृष्ट्वा सन्मुखं प्राप्य भक्तितः । श्रद्धादिगुणसंयुक्ततत्त्वज्ञानमबूभुजन् ॥१५॥ ' दत्त्वाऽऽहारविधिं तस्मै मुनये भक्तितत्परः । अग्निभूतिस्तदा पुण्यं वबन्ध भवभेदकम् ॥ १६ ॥ वितीर्णे चान्नदानेऽस्मै तदानीमग्निभूतिना । वसुधारादिकं गेहे बभूवाश्चर्यपञ्चकम् ॥१७॥ दृष्ट्वाऽऽश्चर्यमिदं सारमग्निभूतिगृहे द्विजाः । तकं सूर्यमुनि हृष्टा नमस्यन्ति स्वभक्तितः ॥१८॥ वायुभूतिः परस्तब्धो बहुशिष्यसमन्वितः । व्याख्यानं विदधत् तत्र न नमस्यति तं मुनिम् ॥१९॥ दृष्ट्वा स्तम्भसमाकारं वायुभूतिं तमग्रजः । पाणावादाय सस्नेहं जगादेति विचक्षणः ॥ २० ॥ " वायुभूते मुनेरस्य प्रसादेन गरीयसा । संजाता परमा लक्ष्मीरस्माकं पृथिवीपतेः ॥ २१ ॥ तत उत्तिष्ठ द्रुतं भद्र संप्राप्यास्य समीपताम् । वन्दनां कुरु भावेन समस्तमलदायिनीम् ॥२२॥ अग्निभूतिवचः श्रुत्वा वायभूतिर्जगावमुम् । अनानस्याशुचेरस्य कारापयसि मां नुतिम् ॥ २३ ॥ वायुभूतिवचः श्रुत्वा चाग्निभूतिर्बभाण तम् । बुद्धिपाशं कृतघ्नं च छान्दसं वठरं खलम् ॥ २४ ॥
मत्तोऽसि त्वं दुराचार वेदविप्रकुलेन च । येनास्य योगिनः पादौ मानितौ न नमस्यसि ॥ २५॥ 15 एवं निगद्य तं दुष्टं पैशून्योपहतात्मकम् । अग्निभूतिर्विहायाशु दयावादगिरं ययौ ॥ २६ ॥ विहाय सकलं संगं महावैराग्यसंयुतः । अग्निभूतिर्दधौ दीक्षां सूर्यमित्रान्तिके सुधीः ॥ २७॥ अत्रान्तरे जगादेमं वायुभूतिं पुरः स्थितम् । अग्निभूतिप्रिया दीना सोमदत्ता रुदत्यसौ ॥ २८ ॥ दुर्जनस्त्वं तरां लोके दुर्जनानामपि स्फुटम् । येनास्य गेहिनो दिव्यमुपकारं न वेत्सि च ॥२९॥ अधीत्य सकलान् वेदान् साङ्गोपाङ्गांस्तदन्तिके । पादयोः पतितुं मूढ सूर्यमित्रस्य लज्जसे ॥३०॥ ॥ तस्य विप्रसभामध्ये निशम्य वचनं तदा । विलक्षणामुना कोपात् पादेन निहतं शिरः ॥ ३१ ॥
गच्छ त्वं यत्र ते भर्ता तिष्ठत्येकाग्रमानसः । एवं निगद्य सा तेन धाटिता स्वनिकेतनात् ॥३२॥ निशम्य तत्तिरस्कारं सोमदत्ताऽपि सत्वरम् । चकारेदं निदानं सा कोपारुणनिरीक्षणा ॥ ३३॥ निहत्य त्वां भवत्पादं दुष्टमन्यत्र जन्मनि । चूर्णयित्वाऽस्थिसंघातं भक्षयिष्यामि निश्चितम् ॥३४॥
एवं निगद्य ते कोपाद् विनिःसृत्य च तहात् । सोमदत्ता हि मृत्वाऽऽस्ते भ्रमन्ती भवसागरम् ॥३५॥ - वायुभूतिरपि क्षिप्रमभिमानकलङ्कितः । चकारायं तिरस्कारं सूर्यमित्रमहामुनेः ॥ ३६॥ उदुम्बराख्यकुष्ठेन कुथिताखिलविग्रहः" । तत्पापतो मृति प्राप दुष्टः सप्तदिनान्तरे ॥ ३७॥" अङ्गकाख्यजनान्तस्थचम्पाख्यायां महापुरि । महासरोवरोद्याने वासुपूज्यनिषद्यकाम् ॥ ३८॥ सत्ता भक्तिसमायुक्तैरग्निभूत्यादिसाधुभिः । तद्वन्दनाथेमायातः सूर्यमित्रो महामुनिः ॥ ३९॥ सूर्यमित्रः खचित्तेन शुद्धो नत्वा निषधकाम् । बभूव तत्क्षणेनैव चतुर्ज्ञानसमन्वितः॥४०॥ • विनयाचारयुक्तस्य सूर्यमित्रस्य योगिनः । वायुभूतिस्तिरस्कारं कृत्वा यो मृतिमागतः ॥४१॥ कौशम्बिकाप्रजातस्य तस्य विभ्रमकारिणः । विद्याधरस्य लंखस्य" गृहे जातः स गर्दभी ॥४२॥ मृत्वा पापेन तत्रासौ गुरुणैव खरी खला । बभूव भीषणाकारा तीक्ष्णदंष्ट्रा च सूकरी ॥ ४३ ॥
1ज कौशाम्बीनगरी. 2 पफ तत्त्वज्ञात. 3 फ भेदके, जवेदके. 4 ज तमग्रतः. 50 तेनोत्तिष्प 6 पफज त्रिकलमिदम्.7 पफज निकलमिदम्.8 पफज निकलमिदम्.9 पफज युगलमिदम्. 10 पफज त्रिकलमिदम्. 11 ज कुन्थिता. 12 पफज युगलमिदम्. 13 फ लङ्कस्य. 14 पफज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org