________________
-१२६. ११]
अवन्तिसुकुमालकथानकम् धनुर्गुणे समासज्य प्रतिपक्षनराधिपः । मुमोच शातनाराचं नीलसिंह प्रति ऋधा ॥६॥ स नाराचोऽरिसंक्षिप्तो नीलसिंहस्य सत्वरम् । ततो ललाटमध्येन कपालान्तर्विवेश च ॥७॥ ललाटस्थेन तेनाशु मूीविह्वलमानसः । तत्सन्मुखमभीयाय नीलसिंहो रुषान्वितः ॥८॥ दृष्ट्वा तं भीषणाकारं गर्जन्तं कालनिस्वनम् । ननाश प्रतिपक्षोऽसौ भयवेपितविग्रहः ॥९॥ भित्त्वा परबलं जन्ये ललाटस्थिततोमरः । नीलसिंहः परिप्राप स्वगृहं जनवीक्षितः ॥१०॥ आगतस्य गृहं तस्य स नाराचोऽपि तजनैः । उत्खातः कुशलैः प्राप नीलसिंहो हि मूर्च्छनम् ॥११॥ चेतनां प्राप्य भूयोऽपि श्रीखण्डादिकसेवनात् । अवाचि निजलोकेन नीलसिंहोऽयमीदृशम् ॥१२॥ यावन्न गृह्यते वत्स शरीरं तव वायुना । तावत् पेयं पिब क्षिप्रं शरीरारोग्यकारणात् ॥ १३॥ निशम्य तद्वचो धीरो जगादैतान् पुरः स्थितान् । निवृत्तिरद्य मे नूनमाहारस्य जलस्य च ॥१४॥ सहित्वा नीलसिंहोऽपि क्षुधापम्पापरिश्रमम् । तदिनं सुखतो निन्ये स्मृतजैनपदाम्बुजः ॥ १५॥ !" षष्ठीप्रभातकालेऽयं मार्तण्डे चोदिते सति । चकार महतीं पूजां जिनानामभिषेकिणीम् ॥१६॥ सितं यशः परिप्राप्य महापुरुषसंभवम् । कालं कृत्वा समाधानान्नीलसिंहो ययौ दिवम् ॥ १७ ॥
॥ इति श्रीमहापौरुषयुक्तनीलसिंहनृपतिकथानकमिदम् ॥ १२४ ॥
१२५. शिवभूतिकथानकम् । दक्षिणापथदेशोत्थं पुरं पौलरिरं परम् । शिवभूतिर्वभूवात्र ब्राह्मणो ब्रह्मसंभवः ॥ १॥ कौमारब्रह्मचारित्रं धृत्वा वर्षेशतं पुनः । कृत्वाऽमुनाऽबलासंग नाशितं स्तोकजीवितम् ॥२॥ गच्छन्ननुशयेनायं दा सर्वाङ्गसंभवम् । काष्ठराशिं विधायाशु विवेश ज्वलनं पुनः ॥३॥ चितोपरि स्थितो बाढं स्मरन्ननुशयस्य सः । शिवभूतिम॒तिं प्राप्यं कृतनिन्दनगर्हणः॥४॥
॥ इति श्रीशिवभूतिविप्रकथानकमिदम् ॥ १२५ ॥
१२६. अवन्तिसुकुमालकथानकम् । विषये वत्सकावत्यां कौशाम्बीनगरीभवः । बभूवातिबलो राजा श्रीकान्तारमणीपतिः ॥१॥ सोमशर्माऽभवद् विप्रो भूपतेरस्य वल्लभः । तद्भार्या काश्यपी नामा रूपयौवनराजिता ॥२॥ परस्परसुखासंगसक्तमानसयोस्तयोः । अग्निवातादिको भूती बभूवतुरुभौ सुतौ ॥३॥ पितुर्वाक्यमकुर्वाणो मूखौं मूर्खप्रियौ तकौ । सप्तव्यसनसंयुक्तौ संजातौ निष्ठुराशयौ ॥४॥ जनके पञ्चतां प्राप्ते दायादैः प्रकदर्थितौ । धनहेतोर्नृपं प्राप्तौ तत्सम दीनमानसौ ॥५॥ नरेन्द्रेण तयोवित्तं समस्तं मूर्खकारणात् । गोतृकाणां समस्तानां वितीर्ण क्रमशस्तदा ॥ ६॥ ततस्तौ दुःखितौ सन्तौ प्राप्य राजगृहं पुरम् । ऊचतुः सूर्यमित्रस्य पितुर्मरणमादरात् ॥७॥ निशम्य सूर्यमित्रेण तद्वाता दुःखमीयुषा । सप्ताष्टवर्षमध्ये च कृतौ तौ शास्त्रकोविदौ ॥८॥ विद्यास्थानानि सर्वाणि सूर्यमित्रप्रसादतः । अङ्गवेदादिकान्याभ्यां विज्ञातानि कुतूहलात् ॥ ९॥ ततः कौशम्बिकां प्राप्य दृष्ट्वाऽतिबलभूपतिम् । निजभूतिं च तौ सर्वां तस्थतुस्तत्पुरे मुदा ॥१०॥ 30 सूर्यमित्रोऽपि संप्राप्य बोधं राजगृहे पुरे । सौधर्ममुनिसामीप्ये दीक्षां दैगम्बरी दधौ ॥ ११॥
1 पफज युगलमिदम्.2 [प्राप]. 3 ज नाम. 4 ज अगावेदादि, [साङ्गवेदादि].
वृ० को. ३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org