________________
२९६ हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १२२. २४अथ नैमित्तिकोऽवाचि भुञ्जानेन धरातलम् । अधुना मरणं कस्माद् भविष्यति वदाशु मे ॥२४॥ निशम्य तद्वचः क्षिप्रं जगौ नैमित्तिकोऽपि तम् । समस्तक्षत्रियाध्यक्षं मरणाशङ्किमानसम् ॥ २५॥ भाजने भोजनं क्षिप्रं पायसं यस्य जायते । नियतं ते महीपाल वधकः स भविष्यति ॥ २६ ॥ एवं नैमित्तिकादेशाद् भोजनं भाजनेषु च । दीयतेऽहर्निशं यत्नात्. क्षत्रियाणां हि तजनैः ॥२७॥ 5 अत्रान्तरे सुभूमस्य भोजनं भाजने द्विजैः । दत्तं नराधिपाध्यक्षं यातं तत्पायसं द्रुतम् ॥ २८॥
परशूपपदं रामं रणे हत्वाऽतिदारुणे । सुभूमोऽयं बभूवाशु चक्रवर्ती हताहितः ॥ २९॥ सुभूमेन च तत्पश्चादेकविंशतिवारकम् । पृथिवीमण्डलं सर्वं कृतं ब्राह्मणवर्जितम् ॥ ३०॥ ॥ इति श्रीयमदग्नितापससुतपरशुरामनिधनीकृतकार्तवीर्यनृप
कथानकमिदम् ॥ १२२॥
१२३. सिंहकेसरकथानकम् । दक्षिणापथदेशेऽस्ति धनधान्यसमाकुलम् । पुरमिन्द्रपुराकारं पटजं किंशुकादिकम् ॥१॥ नृपोऽत्र विजयादित्यो राजान्तों वल्लभादिकः । प्रियाऽस्य विजयादित्या बभूव वनितोत्तमा ॥२॥ अभवत् सेवकस्तस्य सिंहविक्रमराजितः । मन्यमानो नरं लोकं सिंहकेसरनामकः ॥ ३॥
अन्यदाकर्ण्य तं तत्र महाभटपुरःसरम् । आजगाम तदभ्याशं सिंहकेसरकोऽपरः ॥ ४ ॥ 15 पुरो वल्लभराजस्य निजनामनिमित्तकम् । द्वयोमर्षिकयोस्तत्र संजातं परमं रणम् ॥ ५॥
युद्धं प्रकुर्वतोस्तत्र द्वयोरपि परस्परम् । खड्गधेनुसमाघातवर्णनिःसृतरक्तयोः ॥६॥ द्वितीयमर्षिकेणास्य सिंहकेसरकस्य च । तुन्दं विपाटितं तेन करवालिकया द्रुतम् ॥ ७॥ अत्रजालं विनिःक्रान्तं तदीयं जठरान्तरात् । पलाशपुष्पसंकाशं प्रगललोहितोत्करम् ॥ ८॥ वामहस्तेन तद्धृत्वा फरकं च शशिप्रभम् । असिधेनुं समादाय दक्षिणेन हि पाणिना ॥९॥ 20 गुञ्जाफलसमानाक्षः संदष्टदशनच्छदः । दधाव कोपतो वेगात् द्वितीयं सिंहकेसरम् ॥ १० ॥ इन्दीवरसमानाभकरवाल्याऽतितीक्ष्णया । तत्सन्मुखं परिप्राप्य जठरं तेन पाटितम् ॥ ११॥ ततोऽरं तद्भयान्नष्टो द्वितीयः सिंहकेसरः । दष्टोष्ठः पञ्चतां प्राप्तः प्रथमः सिंहकेसरः ॥ १२॥ प्रशंसितो भटैः शूरैः समस्तेन जनेन च । दग्धो वल्लभराजेन प्रथमः सिंहकेसरः ॥ १३ ॥
॥ इति श्रीमहाशूरभटसिंहकेसरकथानकमिदम् ॥ १२३ ॥
१२४. नीलसिंहकथानकम् । दक्षिणापथदेशेऽभून्नगरं च कलापुरम् । नीलसिंहोऽत्र भूपालः श्रावको दर्शनान्वितः ॥१॥ उपवासं विधायायं पञ्चमीदिवसे सिते । तिष्ठति प्रीतिचेतस्को नीलसिंहः स्वपत्तने ॥२॥ एवं स्थितस्य संप्राप्य छिद्रं वाहादिसंपदा । दायादपरचक्रं च तस्योपरि समागतम् ॥३॥ दायादसैन्यमायातं विदित्वा हृतभूतलम् । स्वसैन्यसमुदायेन तस्थौ तत्सन्मुखं स च ॥४॥ 30 सैन्ययोः स्थितयोरेवं द्वयोरपि भयानके । प्रवृत्ते दारुण युद्धे कुन्तप्रासासिभासुरे ॥ ५ ॥
___ 1 [जातं]. 2 पफ राजातो. 3 [व]. 4 पफ तुदं. 5 पफज त्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org