________________
-१२२. २३ ] कार्तवीर्यकथानकम्
२९५ तद्वाक्यतोऽमुना ख्यातं तद्रूतग्रहणं तदा । मृगध्वजस्य कैवल्यं नरेन्द्रस्य सभाऽन्तरे ॥४४॥ मृगध्वजस्य कैवल्ये संजाते सति सत्वरम् । आजगाम तदन्तं च सीमंधरनरेश्वरः ॥ ४५ ॥ ततो भद्रजरन्तस्य संन्यासे विहिते सति । अमरत्वे तदा क्षिप्रं देवागमनकारणम् ॥ ४६॥ नत्वा केवलिनः पादौ श्रुत्वा धर्म तदन्तिकम् । सीमंधरनरेन्द्रोऽमुं पप्रच्छेदं कुतूहली ॥४७॥ मृगध्वजजरन्तस्य पिण्डारस्य च पावन । ब्रूहि मे वैरसंबन्धं संसारार्णवकारणम् ॥४८॥ । ततोऽश्वग्रीवसंबन्धं सेनापत्यादिकं तथा । जगाद केवलीं सर्वं सीमंधरमहीभृतः॥४९॥ श्रुत्वा तद्वैरसंबन्धं सीमंधरनृपादयः । बभूवुः श्रावका भव्या सम्यक्त्वाभरणप्रभाः ॥ ५० ॥
॥ इति श्रीमहालोभसमन्वितमृगध्वजराजकथानकमिदम् ॥ १२१ ॥
१२२. कार्तवीर्यकथानकम् । विनीताविषये रम्ये कोशलाख्यपुरीभवः । तीर्थे श्रीवासुपूज्यस्य कार्तवीर्यो नृपोऽभवत् ॥१॥ ॥ प्रबुद्धपद्मसद्वका पद्मपाणिपदद्वया । बभूव तन्महादेवी चार्वी पद्मावती प्रिया ॥२॥ अयोध्याख्यपुरीपाचे नानानोकुहसंकुले । तापसस्याभवत् पल्ली महावनसमुद्भवा ॥३॥ बभूव तापसस्तत्र यमदग्न्यभिधानकः । तत्प्रिया तापसी नाम रेणुका तन्मनःप्रिया ॥४॥ श्वेतोपपदको रामो माहेन्द्रोपपदोऽपि च । अभवत् तत्सुतः कान्तो जटावल्कलभासुरः ॥५॥ अन्यदा वरदत्ताख्यो विहरन् कुं महामुनिः । तत्तापसाश्रमान्तेऽसौ तस्थौ तरुतले सुधीः॥६॥ 15 तदन्ते रेणुका श्रुत्वा जैन धर्ममनुत्तरम् । संजाता श्राविका हृष्टा सम्यग्दर्शनलाभतः ॥७॥ रेणुकायै स योगीन्द्रो भगिनीस्नेहतो मुदा । कामधेनुं ददावस्यै पशुविद्यां विधाय च ॥ ८॥ अन्यदा कार्तवीर्योऽरं हस्तिबन्धनकारणात् । आजगाम वनं राजा यमदग्निनिषेवितम् ॥९॥ यमदग्निगृहे भुक्त्वा रेणुकाकरतोऽशनम् । कामधेनुं समादाय लोभतोऽसौ गृहं ययौ ॥१०॥ समिद्भारं समादाय वनात् संप्राप्य मन्दिरम् । रेणुकां शोकसंतप्तां ददृशुस्ते त्रयोऽपि ताम् ॥११॥ श्वेतरामो विलोक्यनां मातरं पुरतः स्थिताम् । जगादेति वचो मातर्दुःखिनी किं वदाशु मे ॥१२॥ निशम्य तद्वचो माता बभाणेमं विषादिनी । पुत्र मन्मन्दिरं राजा कार्तवीर्यः समागतः ॥१३॥ मगृहे भोजनं कृत्वा सुखं स्थित्वाऽत्र पुत्रक । बलादादाय तामेष कामधेनुं ययौ पुरीम् ॥१४॥ अनेन हेतुना पुत्र दुःखसंतप्तमानसा । तिष्ठाम्यत्र वने भीमे सामर्थ्यपरिवर्जिता ॥ १५ ॥ निशम्य जननीवाक्यं तन्मार्गेण रुषान्वितः। तदानीं प्रस्थितो गन्तुं कामधेनुकृते तकः ॥१६॥25 दृष्ट्वातो प्रस्थितो गन्तुं श्वेतरामं जगौ पिता । कार्तवीर्यो महावीर्यस्त्वया भेत्तुं न शक्यते ॥१७॥ यदि तस्यानुमार्गेण त्वं गच्छसि बलीयसः । त्वजनन्यै वितीर्णेयं विद्या परमयोगिना ॥ १८ ॥ असाध्यां देवबाणानां सर्वशत्रुक्षयंकरीम् । परशुं च महाविद्यां गृहीत्वा याहि तं प्रति ॥ १९॥ पितृवाक्येन चादाय परशुं शत्रुभीतिदम् । श्वेतरामो ययौ पश्चात् कार्तवीर्यस्य भूभुजः ॥ २० ॥ श्वेतरामेण संप्राप्य कार्तवीर्यो महाहवे । ससैन्यः सकुलस्तेन परशुना हतो रुषा ॥ २१॥ 30 कार्तवीर्यो हतोऽनेन श्वेतरामेण वेगतः । असह्यवेदनं घोरं जगाम नरकं ततः ॥ २२ ॥ ततो निःक्षत्रियं कृत्वा सप्तकृत्वा धरातलम् । परशूपपदो रामो बभूव स महीपतिः ॥ २३॥
1 पफज युगलमिदम्. 2 पफज युगलमिदम्. 3 ज तर्क. 4 [ दृष्ट्वा तं प्रस्थितं]. 5 पफज त्रिकलमिदम्. 6 [ हतः परशुना रुषा]. 7 [ सप्तकृत्वो].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org