________________
२९४
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १२१.११
२३ ॥
महिषी यूथयोर्मध्ये द्वयोरपि तदा पुनः । एकत्र समये सूता सुभद्रा भद्रया समम् ॥ ११ ॥ ततः पुरात् समागत्य वेगेनागत्य तद्वने । सुभद्रापडको बालो गोविन्देन प्रभक्षितः ॥ १२ ॥ तो हतोऽमुनानेन विधिना पडकः सकः । सुभद्राजठरे जातः सप्तकृत्वो वराककः ॥ १३ ॥ जातो जातो' वराकोऽसौ सप्तकृत्वस्ततो वने । हत्वा हत्वाऽतिपापेन गोविन्देन प्रभक्षितः ॥ १४ ॥ यथाऽप्यष्टमवेलायामसौ तत्कुक्षिमाश्रितः । हित्वा सा महिषी यूथं प्रसूताऽन्यत्र पंडुकम् ॥१५॥ गोविन्देन परिज्ञाय सुभद्राप्रसवं पुनः । अनुमार्गेण संप्राप्य दृष्टा सा पटुकाऽन्विता ॥ १६ ॥ दृष्ट्वाऽमुं पडिको दूराद् गोविन्दं भयवेपितः । तत्सन्मुखं स संप्राप्य ननाम नतमस्तकः ॥१७॥ स्वपादप्रणतं दृष्ट्वा पटुकं भयविह्वलम् । गोविन्दोऽपि जगौ वत्स मा भयं व्रज सांप्रतम् ॥ १८ ॥ ततो जातिस्मरो भूत्वा पटुको विनयानतः । गोविन्देन सहापन्नो महिषीयूथमादरात् ॥ १९ ॥ 10 ऋषभादिकसेनस्य श्रेष्ठिनः पादयोरयम् । पटुकः पतितः शीघ्रं गोविन्दवचनेन च ॥ २० ॥ जरन्तं तं समादाय तोषपूरितमानसः । साकेताख्यपुरं श्रेष्ठी विवेश परमोत्सवम् ॥ आस्थानमण्डपस्थस्य श्रेष्ठिवाक्येन वेगतः । सीमंधरनरेन्द्रस्य प्रणामो विहितोऽमुना ॥ स्वपादप्रणतं दृष्ट्वा जरन्तं धरणीपतिः । सर्वापणेषु चैकैकं धान्यग्रासं स मुक्तवान् ॥ विशिखान्तं प्रविष्टस्य नितरां प्रीतचेतसः । नकुलादिजरन्तस्य सुखेन वसतः पुरे ॥ २४ ॥ " इभ्यः श्रेष्ठितनूजोऽपि नकुलाख्योऽत्र चौरिकाम् । कुर्वन् धृतस्तलारेण बद्धस्तिष्ठति तद्गृहे ॥ २५ ॥ ततो जनापवादोऽस्य संजातो नकुलस्य सः । चौरिका विहिताऽनेन नकुलेन विसंशयम् ॥ २६ ॥ ततः श्रेष्ठिसुतस्येमं लोहपिण्डं खराग्निना । नकुलाख्यस्य संतप्तं मुक्तं पञ्चकुलेन च ॥ २७ ॥ नकुलाख्यो जरन्तोऽयं स्वशङ्काग्रस्त मानसः । दन्तैरादाय तं पिण्डं जगाम नृपसंनिधिम् ॥ २८ ॥ तदवस्थं समालोक्य महिषं भूपतिस्तदा । सभ्यान् जगाद संतुष्टः सभामध्ये निवासिनः ॥ २९ ॥ 2• अहो सभ्या जरन्तोऽयं दोषवर्जितविग्रहः । विराजते तरां लोके महिषो भद्रपूर्वकः ॥ ३० ॥ अन्यदा विचरन् क्वापि महिषो भद्रपूर्वकः । अशोकवनमध्यस्थे चारुपुष्करिणीजले ॥ ३१ ॥ विषाणपद्मसंयुक्ते रक्तोत्पलविराजिते । संक्रीडते तरां हृष्टः करमुक्तजलोत्करैः ॥ ३२ ॥ श्रेष्ठिमत्रिसुतैः सार्धं तदशोकवनं परम् । आजगाम मुदा रन्तुं सानुरागो मृगध्वजः ॥ ३३ ॥ esi महिषं तत्र क्रीडन्तं निजलीलया । सद्यश्चुकोप दुष्टात्मा रक्ताक्षोऽयं मृगध्वजः ॥ ३४ ॥ स्वभक्षणनिमित्तेन महिषस्यास्य पश्चिमम् । छित्त्वोरुमानय क्षिप्रं मदन्तं नरकुञ्जरः ॥ ३५ ॥ तद्वाक्येन समुच्छिन्ने नरेणानेन तत्र च । पादत्रयेण संप्राप्य भूपान्तं महिषोऽपतत् ॥ ३६ ॥ विलोक्य महिषं राजा मर्तुकामं सभान्तरे । सल्लेखनां ददावस्मै नमस्कारपुरस्सरम् ॥ ३७ ॥ समाधिमरणं प्राप्य महिषो भद्रपूर्वकः । सौधर्मे धर्मसंयोगाज्जातो देवो महर्द्धिकः ॥ ३८ ॥ तद्वृत्तान्तं परिज्ञाय मन्त्री सिद्धार्थनामकः । राज्ञा संप्रेषितः कोपात् तत्कुमारमृतिं प्रति ॥ ३९ ॥ 30 ततस्ते मन्त्रिणा सर्वे तदानीं राजपुत्रकाः । मुनिदत्तान्तिकं नीता दीक्षिताश्च यथाक्रमम् ॥ ४० ॥ दापयित्वा च तद्दीक्षां मन्त्री राजान्तिकं गतः । प्रोक्तोऽयं भूभुजा रोषात् सर्वे ते निहितास्त्वया ॥४१॥ उक्तस्तद्वाक्यतो राजा मत्रिणा कुशलेन च । राजन् मया तके सर्वे कुमाराः सुहता द्रुतम् ॥४२॥ राज्ञा तद्वाक्यतो मत्री भूयोऽपि गदितो रुषा । मत्रिन् राजकुमारास्ते कथं सुनिहितास्त्वया ॥४३॥
5 फ गोविन्दे 6 पफज
5
25
1 फ जाताजातो. 2 [ पड्डुकम् ]. युगलमिदम्. 7 [ नरकुञ्जर ].
Jain Education International
3 ज पहुकान्विता 4 ज पट्टिको
For Private & Personal Use Only
२१ ॥
२२ ॥
www.jainelibrary.org