________________
-१२१. १०] मृगध्वजकथानकम्
२९३ मत्वेदं सकलं फल्गु दत्त्वा पौत्राय संपदम् । भागीरथ्यभिधानाय समस्तजनसाक्षिकम् ॥ १९ ॥ आपृच्छय सकलान् बन्धून् म्लानवक्रसरोरुहान् । संप्राप्य तरुसंछन्नं प्रमदोपपदं वनम् ॥ २० ॥ सर्वभूतिहितं नत्वा सर्वभूतिहितं गुरुम् । जग्राह सगरो दीक्षां समं भीमेन सूनुना ॥ २१ ॥ विज्ञायागमसद्भावं हितं साधुजनायतम् । तरां तप्त्वा तपो घोरं सामान्यनरदुःकरम् ॥ २२ ॥ निहत्याशेषकर्माणि शत्रुभूतानि देहिनाम् । भीमेन सह संप्राप सगरो मोक्षमक्षयम् ॥ २३॥ । ॥ इति श्रीमानावष्टबुधसगरचक्रवर्तिषष्टिसहस्रपुत्रकथानकमिदम् ॥ ११९ ।।
१२०. कुम्भकारकथानकम् । अङ्गकाख्यमहादेशे बृहद्रामो महाधनः । कुम्भकारोऽभवत् तत्र सिंहोपपदो बलः ॥१॥ कुम्भकारो वृषं भृत्वा भण्डकानां निरन्तरम् । भरणोपपदं ग्रामं संप्रापत् खिन्नमानसः ॥२॥ ततोऽस्तमनवेलायां साणूरान्तर्निधाय च । भण्डकानि विचित्राणि तत्रस्थः स वितिष्ठते ॥३॥10 आकर्ण्य भाण्डकी वार्ता प्राप्तास्तत्रत्ययोषितः । श्वो मूल्यं ते प्रदास्यामो गृहीत्वा भण्डकानि ताः ॥४॥ एवमुक्त्वा तकं तस्मात् प्रीतिविस्फारितेक्षणाः । निजं निजं गृहं प्राप्ता हसन्त्यः कृतविस्मयाः॥५॥ वृषभं शेषभाण्डानि स्थापयित्वा तदन्तिके । नगर्यां विदधद् बाढं कुम्भकारो वितिष्ठते ॥६॥ तत्काले प्राप्य साणूरं केचित्तद्रामसंभवाः । कुमाराः कुम्भकारेण गीतं जल्पं च कुर्वते ॥ ७॥ अन्ये बहिःस्थिताः केचित्तदा तत्कुड्यमाश्रिताः । गृहीत्वा तद् वृषं शीघ्र जग्मुर्मुदितमानसाः॥८॥ 15 कुम्भकारोऽपि तां रात्रिं गमयित्वा सुदुःखितः । अपश्यद् वृषभं तत्र ग्राममध्यं जगाम सः॥९॥ भण्डकानां च तन्मूल्यं वृषभं स गृहे गृहे । याचते योषितो बाढं मिथ्याभावं गतास्तकाः॥१०॥ स्थित्वात्र सप्तवर्षाणि कुम्भकारो रुषान्वितः । निनाय भस्मसाद्भावं तं ग्रामं धान्यसंभृतम् ॥११॥ खकार्थस्य परार्थस्य कुलालेनेह दुर्धिया । नाशः कृतस्तथा नैव कर्तव्यं सुधिया सता ॥ १२ ॥
॥ इति श्रीबृहद्रामसंभवसिंहबलकुम्भकारकथानकमिदम् ॥ १२०॥
*
१२१. मृगध्वजकथानकम् । विनीताख्यमहादेशे साकेताख्याऽभवत् पुरी । अस्यां सीमंधरो राजा जिनसेनाऽस्य कामिनी ॥१॥ अनयो रूपसंपन्नः कुमारोऽभून्मृगध्वजः । मन्त्री सिद्धार्यसंपन्नः सिद्धार्थों भुवि विश्रुतः ॥२॥ अस्यैव भूपतेः श्रेष्ठी धनधान्यसमन्वितः । ऋषभोपपदः सेनः प्रसिद्धः सर्वविष्टपे ॥३॥ श्रेष्ठिनोऽस्याभवद् भार्या रूपसौभाग्यसंपदा । ऋषश्रीरिति विख्याता मुखपद्मावभासिता ॥४॥ 25 श्रेष्ठिनश्वारुरूपाणि बहुदुग्धप्रदान्यलम् । महिषीनामनेकानि सन्ति यूथानि तस्य च ॥५॥ तन्मध्ये च महिष्यौ द्वे प्रधाने भवतस्तराम् । सुभद्रा प्रथमा साध्वी भद्राऽन्या परिकीर्तिता ॥६॥ महिष्योरनयोस्तत्र बभूव प्रेमकारणम् । अभूतां रक्षपालौ द्वौ यूथयोः स्नेहसंगतौ ॥ ७॥ एकस्य नाम गोविन्दो द्वितीयस्य च वामनः । एकत्र मिलितावैतौ तिष्ठतो हि दिवानिशम् ॥ ८॥ यूथमयमिदं स्पष्टं महिषीणां दिने दिने । अन्योन्यप्रेमसंबन्धं चरन्नेकत्र तिष्ठति ॥९॥ ततो गोविन्दनामासौ स्वयूथं वामनस्य च । समर्प्य यत्नतो यातः स्वगृहं कारणेच्छया ॥१०॥
1 पफज षट्कलकमिदम्. 2 [°मानावष्टब्धसगर]. 3 ज चक्रवरषष्टि. 4 पफज युगलमिदम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org