________________
२९२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[११८.४७तद्वृत्तान्तं परिज्ञाय तदानीं बल-केशवौ । द्वीपायनमुनेः पार्था जग्मतुस्त्रस्तचेतसौ ॥४७॥ त्रिःपरीत्य प्रणम्यैतावूचतुर्मुनिसत्तमम् । महामुने कुमारेभ्यः क्षम्यतां दुरनुष्ठितम् ॥४८॥ निशम्य तद्वचः साधुर्विह्वलीभूतमानसः । अङ्गुलीद्वयमुत्क्षिप्य जातः पूर्वोदितोऽसुरः ॥ ४९ ॥
प्राप्तस्य पञ्चतावाप्तिं द्वीपायनमुनेस्तदा । प्रविष्टौ विह्वलस्वान्तौ द्वारिकां बल-केशवौ ॥ ५० ॥ । विभङ्गज्ञानतो हत्वा खं कुमारहतं रुषा । ददाह द्वारिका सर्वां हित्वाऽसौ बल-केशवौ ॥ ५१ ॥
ततो निर्गत्य तौ वेगात् ततो द्वारावतीपुरः । उत्तीर्य नर्मदां प्राप्तौ गहनं बल केशवौ ॥५२॥ कौशम्बवनसुप्तस्य विष्णोः पादहतस्य च । मृतिर्जरत्कुमारेण पूर्वभल्लिकया कृता ॥ ५३॥ षण्मासमात्रकं यावत् स्कन्धेन वहनं हरेः । बलदेवेन देवेन बोधितेन प्रयत्नतः ॥ ५४॥ दीक्षामादाय जैनेन्द्रीं तुङ्गिकाख्यगिरौ बलः । सल्लेखनां विधायाशु ब्रह्मलोकं जगाम सः ॥५५॥ ॥ ॥ इति श्रीशम्बुकुमारादिकुमारोपद्रुतक्रोधविधानसंयुक्तमुनिद्वीपायन
__ कथानकमिदम् ॥ ११८॥
११९. सगरपुत्रकथानकम् । विनीताख्यमहादेशे विनीता विद्यते पुरी । तीर्थेऽजितजिनेन्द्रस्य सगरोऽस्यां महीश्वरः ॥१॥
अन्तःपुरसहस्राणि सन्ति षण्णवतिः क्षितौ । चतुर्दशास्य रत्नानि निधिभिनवभिः सह ॥ २॥ 15 दिव्या चमूर्वरं भोज्यं दिव्यान्याभरणानि च । शय्यासनं मनोहारि वाहनं नाटकं पुरम् ॥३॥ एतैर्दशभिरेतस्य सगरस्य महात्मनः । दशाङ्गोऽयं महाभोगो मनोनयनसुन्दरः ॥ ४॥
तथा चोक्तम् - भाजनं भोजनं शय्या चमूर्वाहनमासनम् ।
निधिरत्नं पुरं नाट्यं भोगस्तस्य दशाङ्गकः ॥५॥ 20 यस्य षष्टिसहस्राणि पुत्राणां परमौजसाम् । सदा याचयमानानां पितरं शासनं गुरुम् ॥६॥ कदाचिच्छासनं दत्तमिदं तेषां महात्मनाम् । रूपयौवनयुक्तानां सारं सगरचक्रिणा ॥ ७॥ कैलासपर्वते सन्ति भवनानि जिनेशिनाम् । चतुर्विंशतिसंख्यानि कृतानि मणिकाञ्चनैः ॥ ८॥ सुरासुरनराधीशैर्वन्दितानि दिवानिशम् । यास्यन्ति दुःषमे काले नाशं तस्करकादिभिः ॥९॥
तस्मादुत्खातिकां सारां दिशासु सकलास्वपि । गत्वाऽऽशु पर्वते पुत्राः शीघ्रं कुरुत भासुराम् ॥१०॥ 16 पितुराज्ञां परिप्राप्य कैलासं समनुत्तमम् । प्रापुः क्षणेन गर्वेण कृतकोलाहलखना ॥११॥ यावत् खनन्ति ते शैलं रत्नदण्डेन सत्वरम् । तावदेकः स्थितो देवो दिवि वारयतीत्यमून् ॥१२॥ भो भो राजसमूह त्वं खन तत्र नगोपरि । मा विनाशय मूढात्मन् रत्नदण्डेन मगृहम् ॥ १३ ॥ एवमुक्तास्तथाऽप्येते देवेन खरनादिना । खनन्ति रत्नदण्डेन पर्वतं मानशालिनः ॥ १४ ॥
भीमं भगीरथं हित्वा दृष्टिमुक्तविषेण ते । भस्मसाद्भावमानीता देवेन रुषमीयुषा ॥ १५॥ 30 ततस्तौ दीनचेतस्कौ संप्राप्तौ जानकी सभाम् । जानुविन्यस्तमूर्धानौ दृष्ट्वा भीम-भगीरथौ ॥१६॥ विद्युद्विलाससंकाशं जीवितं देहिनामिदम् । कदलीगर्भनिःसार यौवनं रूपसंपदम् ॥ १७ ॥ संध्यारागसमा प्रीतिबन्धुभिः सह सर्वदा । भोगीभोगसमान् भोगान् भीमान्नरकपातिनः ॥१८॥
1 All the Mss. put No. 118. पफज चतुःकुलकमिदम्. 3 पफज चतुःकुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org