________________
-११८. ४६] द्वीपायनकथानकम्
२९१ तथा पद्मावती चेति नीलोत्पलदलाम्बिका । एता विष्णोर्महादेव्यो भवन्त्यष्टौ कलाऽन्विताः॥१४॥ चक्र गदा तथा शक्तिः खड्गो रविमणिः स्फुटम् । शङ्खः शार्ङ्ग हरेः सप्त सन्ति रत्नानि सर्वदा १५ रक्षन्त्यष्टौ सहस्राणि देवीनामस्य भोगिनः । रत्नादिकं सदा विष्णोः प्रमादरहितात्मनः ॥ १६ ॥ समस्तयादवैः सार्धं भोगान् भोगीन्द्रसंनिभान् । द्वारवत्यां प्रभुञ्जानः सुखं तस्थौ जनार्दनः ॥१७॥ अन्यदा विहरन् कापि नेमिः केवलसंयुतः। ऊर्जयन्तगिरेस्तुङ्गे शिखरे स्थितवानसौ ॥ १८ ॥ नेमिनाथं समाकर्ण्य दशार्दा दश भक्तितः । वासुदेवो बलेनामा वन्दनार्थं समाययुः ॥१९॥ त्रिःपरीत्य तमीशानं वन्दित्वा च पुनः पुनः । तदन्ते शुश्रुवुर्धर्मं द्विभेदं यादवाः परम् ॥ २० ॥ बलदेवः समालोक्य वासुदेवस्य संपदम् । पप्रच्छेदं विनीतात्मा नेमिनाथं स कौतुकः ॥२१॥ भगवन् वासुदेवस्य महाराज्यसमागमः। कियन्तं कालमासाद्य भविष्यति वदाशु मे ॥ २२ ॥ निशम्य बलदेवस्य वचनं संसदि स्फुटम् । नेमिनाथो जगादेमं प्रीतिविस्फारितेक्षणम् ॥ २३ ॥ ॥ अद्यप्रभृति भूपाल वर्षे द्वादशमात्रके । लोकद्रव्यसमाकीर्णा नंक्ष्यति द्वारिका पुरी ॥ २४ ॥ एतावति गते काले विष्णोश्चापि महात्मनः । भविष्यति बल क्षिप्रं राज्यलक्ष्मीपरिक्षयः ॥२५॥ निशम्य नेमिचन्द्रस्य वचनं च हितं नृणाम् । बलभद्रो बभाणेमं केवलामललोचनम् ॥ २६ ॥ समस्तजनयुक्ताया द्वारवत्या जिनेश्वर । सांप्रतं ब्रूहि मे नाथ विनाशः केन हेतुना ॥ २७॥ बलदेवोदितं श्रुत्वा नेमिनाथो जगावमुम् । कादम्बरीनिमित्तेन विनाशोऽस्या भविष्यति ॥ २८॥ 15 अवाचि बलदेवेन भूयोऽपि च जिनेश्वरः । वद मे द्वारवत्या हि विनाशं को विधास्यति ॥ २९॥ बलस्य वचनं श्रुत्वा कौतुकव्याप्तचेतसः । हरिवंशनभश्चन्द्रो नेमिचन्द्रो जगावमुम् ॥ ३०॥ हिरण्यनाभिपुत्रोऽयं रोहिण्या हि सहोदरः । मुनिीपायनः क्रुद्धः शम्बुवाक्यसमीरणात् ॥ ३१ ॥ कालं कृत्वा पुनः सद्यो धूमकेतुरभिख्यया । अमरोऽग्निकुमाराणां भविष्यति विभोज्वलः ॥३२॥ भवन्तौ भ्रातरौ हित्वा सबन्धुपरिवारिकाम् । द्वारिकां धक्ष्यति क्षिप्रं द्वीपायनचरोऽसुरः॥ ३३ ॥2॥ जरत्कुमारहस्तेन भव क्षुरिकयाऽनया । मरणं वासुदेवस्य भविष्यति विसंशयम् ॥ ३४ ॥ नेमिनाथवचः श्रुत्वा वन्दित्वाऽमुं सुभक्तितः । प्रविष्टौ द्वारिकां शीघ्रं सजनौ बलकेशवौ ॥ ३५॥ ततो द्वारवतीमा समस्तं नृपवाक्यतः । मुक्तं रेवतकोद्याने कदम्बतरुसंकुले ॥ ३६ ॥ ततो जरत्कुमारोऽपि हित्वा द्वारवतीं पुरीम् । कृत्वा विन्ध्यपुरं तस्थौ विन्ध्यपर्वतमस्तके ॥ ३७॥ निशाने भलिकाकारां विधाय क्षुरिकामसौ । चिक्षेप वारिधौ क्षिप्रं नानाग्राहसमाकुले ॥ ३८॥ पतन्ती वारिधौ सा च मीनेन गिलिता तदा । स मत्स्यो धीवरैर्बद्धो जालेन विधियोगतः ॥३९॥ ततस्तद्भल्लिकाखण्डं काकतालीययोगतः । लब्धं जरत्कुमारेण तच्छरस्थं वितिष्ठते ॥ ४० ॥ द्वीपायनमुनिहित्वा सुराष्ट्रविषयं द्रुतम् । पूर्वदेशं जगामासौ तपःशोषितविग्रहः ॥४१॥ ततो द्वादशवर्षाणि स्थित्वाऽन्यत्र महातपाः । अजानन्नधिकं मासं द्वारिकामाजगाम सः ॥ ४२ ॥ ततो रेवतकोद्यानमध्यस्थे तत्पुरान्तके । ऊर्ध्वग्रीवनगे योगी तस्थौ प्रतिमया दिने ॥ ४३॥ 30 अथ शम्बुकुमारादिकुमाराः समविभ्रमाः। ययू रेवतकोद्यानं क्रीडानिहतमानसाः॥४४॥ पीत्वा कादम्बरीतोयं दृष्ट्वा द्वीपायनं पथि । आतापमास्थितं तत्र ध्यायन्तं तत्त्वमादरात् ॥४५॥ गलप्रमाणमापादादिष्टकोपललोष्टुभिः । आपूर्य सुतरां साधु कुमारा विविशुः पुरीम् ॥ ४६॥ ____ 1 पफज युगलमिदम्. 2 पफज युगलमिदम्. 3 पफज युगलमिदम्. 4 [ तव] 5 पफज चतुःकुलकमिदम्. 6 [ निशान्ते].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org