________________
२९० हरिषेणाचार्यकृते बृहत्कथाकोशे
[११७.६मुक्ताश्चरन्ति ता गावः पश्यन्त्यः प्रीतिकारणम् । हतः सागरदत्तोऽयं सुप्तो नन्देन तद्वने ॥६॥ नागदत्ताऽपि तोषेण हते सागरदत्तके । वेष्टं सुखं प्रभुञ्जाना नन्देन सह तिष्ठति ॥ ७॥ जुगुप्सां सततं चक्रे श्रीकुमारः स्वमातरि । उक्तोऽयमनया नन्दस्तन्मृति प्रति दुष्टया ॥८॥
मत्पुत्रं श्रीकुमाराख्यं मन्महाद्वेषकारिणम् । निपातय प्रिय क्षिप्रं नितरां क्रूरचेतसम् ॥ ९॥ । नागदत्तावचः श्रुत्वा नन्दगोपोऽपि तन्मृतिम् । चिन्तयन् सर्वदा कुद्धस्तिष्ठति क्रूरमानसः॥१०॥
श्रीकुमारः पुरस्कृत्य यावद्गच्छति गोधनम् । तावत् स्वभगिनी वार्तामिमामस्य ब्रवीति सा ॥११॥ त्वत्पिताऽनेन गोपेन निहतो निशि बान्धव । अधुना निश्चितं पापो मारणं ते विधास्यति ॥१२॥ मुक्त्वा गाः पश्चिमे यामे विभावयाँ प्रयत्नतः। श्रीकुमारोऽपि संतस्थे भूतलेऽन्यत्र सुप्तकम् ॥१३॥ तन्मार्गेणैव संप्राप्य नन्दगोपोऽपि सत्वरम् । स्थाणुं जघान खड्नेन श्रीकुमारेच्छया खलः ॥१४॥ " तेनापि श्रीकुमारेण पृष्ठभागे समेत्य सः । हत्वा प्रासेन नन्दोऽरं वराको विनिपातितः ॥१५॥ नक्तं निहत्य तं नन्दं श्रीकुमारोऽपि वेगतः । आदाय गोधनं दोग्धुं स्वगृहं पुनरागतः ॥१६॥ श्रीकुमारोऽपि संपृष्टस्तदानीं नागदत्तया । नन्दस्त्वदन्तिकं पुत्र प्रेषितो मे क वर्तते ॥ १७ ॥ निशम्य जननीवाक्यं श्रीकुमारेण भाषितम् । नाहं वेमि तकं नन्दं प्रासं पृच्छ त्वमम्बिके ॥१८॥
तद्वाक्यतः समालोक्य प्रासं च रुधिरारुणम् । निहतोऽनेन मे कान्तो नागदत्ता रुषं ययौ ॥१९॥ 15 श्रीकुमारं समालोक्य संनिविष्टं गृहाङ्गणे । मूशलेन समाहत्य नागदत्ता ममार तम् ॥ २०॥ निहतं भ्रातरं दृष्ट्वा श्रीषेणाऽपि तत्सुता । ममार मातरं कोपान्मुशलेन निहत्य सा ॥ २१ ॥ नागदत्ताऽपि सा दुष्टा पतिपुत्रविनाशिनी । स्वसुतानिहता कोपाद बंभ्रमीति भवार्णवे ॥२२॥ ॥ इति श्रीस्पर्शनेन्द्रियार्थ नन्दगोपसमासक्तनागदत्ताकथानकमिदम् ॥११७॥"
११८. द्वीपायनकथानकम् । ५० सुराष्ट्रविषये रम्ये पुरग्रामादिसंपदा । बभूव वार्धिमध्यस्था नाम्ना द्वारावती पुरी ॥१॥
मणिकुट्टिमसद्भूमिस्वर्णप्राकारराजिता । नवयोजनविस्तीर्णा दैर्ध्या द्वादशयोजनैः ॥२॥ महारजतनिर्माणा महाषोडशगोपुरा । द्वाराणि पश्चिमादीनि चतुर्विंशतिरत्र च ॥३॥ मणिकाञ्चननिर्माणाः प्रासादा गगनस्पृशः । तस्यां वसन्त्यसंख्याताः श्रेष्ठिनां कुलकोटयः ॥४॥
युधिष्ठिरादिसदीरा लोकपालसमप्रभाः । वसन्ति स्म तदा तस्यां दशार्हा दश शोभनाः ॥५॥ 25 तन्मध्ये प्रथमः सारः समुद्रविजयो महान् । बभूव तन्महादेवी शिवाख्या शिवविग्रहा ॥६॥ नन्दनो नेमिनाथोऽभूदनयोर्गुणसागरः । दीक्षामादाय जैनेन्द्रीं केवली विजहार सः ॥७॥ तन्मध्ये दशमोऽस्यां च वसुदेवोऽभवन्नृपः । रोहिणी तन्महादेवी बलदेवोऽनयोः सुतः॥८॥ तथाऽयं वसुदेवस्य देवकीकुक्षिसंभवः । नवमो वासुदेवोऽभून्नन्दनः स जनार्दनः ॥ ९॥
बभूवुर्वृद्धभूपानां सहस्राणि दश स्फुटम् । बलवादिकुमाराः स्युः षट्पञ्चाशत्सहस्रकाः ॥१०॥ 30 रूपयौवनयुक्तानां जनार्दनहितास्तराम् । अधोष्टकोटयः सन्ति यादवानां महात्विषाम् ॥११॥ रमणीनां सहस्राणि षोडशास्य महात्विषाम् । भूपतीनां च तावन्ति मुकुटांशुविराजिनाम् ॥१२॥ रुक्मिणी सत्यभामा च तथा जाम्बवती परा। सुसीमा लक्ष्मणा गौरी गन्धारी चारुविभ्रमा ॥१३॥
1 पफज युगलम्. 2 ज नन्द त्वदन्तिकं. 3 All the Mss. put No. 116. 4 पफज चतुष्कुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org