________________
२८९
-११७.५]
नागदत्ताकथानकम् उपाध्यायोऽवमत्येमं नितरां नृपभीतितः । ददाति राजपुत्राणामुपदेशं प्रयत्नतः ॥ ४२ ॥ मदर्थं वट्टके कृत्वा गृहीत्वाऽमलकान्यलम् । अमुञ्चन् पृथिवीपृष्टे याहि त्वं निम्नगातटम् ॥४३॥ एवं निगद्य तं छात्रं भर्तृमित्राभिधं तदा । राजपुत्रैः समं याति द्रोणः स्नानाभिवाञ्छया ॥४४॥ तालसूचीसमुच्छेदकारणं संप्रदर्श्य सः । तदानीं राजपुत्राणां प्रययौ स्वमनीषितम् ॥ ४५ ॥ तन्मार्गानुपदं तूर्णं गृहीत्वाऽऽमलकानि सः । चारुकच्चोलकस्थानि भर्तृमित्रः समाययौ ॥ ४६ ॥ दृष्ट्वाऽयं तालवृक्षाधस्तत्पादकरणानि च । तन्मध्ये प्रददौ स्वानि भर्तृमित्र' पदान्यरम् ॥४७॥ दृष्ट्वा तत्सदसंस्थानि पदान्यन्यानि रोषतः । भर्तृमित्रं वदन्त्येते राजपुत्राः खरखनाः ॥४८॥ भर्तृमित्र त्वया भूमौ मुक्तामलकवट्टकम् । तालसूची वरा छिन्ना मूढीभूतखचेतसा ॥४९॥ कुमारवचनं श्रुत्वा भर्तृमित्रो जगावमून् । अमुक्ता वट्टकं भूमौ तालसूची दिता मया ॥ ५० ॥ निशम्य भर्तृमित्रस्य वचनं ते जगुः पुनः । तच्छेदनविधानं च दर्शयास्माकमीदृशम् ॥५१॥" ततस्तद्वट्टकं तेन चोर्ध्व क्षित्वा तदुक्तितः । सूचीच्छेदं विधायैषां कारणं दर्शितं तदा ॥५२॥ दृष्ट्वा तत्करणं तेऽपि विस्मयव्याप्तमानसाः । जग्मुर्निजालयं सर्वे द्रोणेन सहसा सह ॥ ५३॥ शिक्षयित्वा धनुर्वेदं भित्वा चन्द्रकवेधकम् । मेघमालाभिधा रूढा मेघसेनस्य कन्यका ॥ ५४॥ ततो द्वादशवर्षाणि भुञ्जानो निजलीलया । मेघमालासमं भोगान् भर्तृमित्रोऽवतिष्ठते ॥ ५५ ॥ अथ लेखान् बहूंस्तत्र पितृमातृसबान्धवाः । तदन्तं प्रेषयामासुः प्रीतिविस्फुरितेक्षणाः ॥ ५६ ॥ 15 मेघमालाऽपि तल्लेखाद् भर्तृमित्रस्य गेहिनी । नूनं न दर्शयामास तद्यानभयविह्वला ॥ ५७॥ अन्यदा स्थविरः कोऽपि नरः प्राप्य तदन्तिकम् । बहिः स्थितस्य तल्लेखं दर्शयामास वेगतः ॥५८॥ लेखार्थं तं परिज्ञाय भर्तृमित्रः सहाङ्गनः । आशुगं रथमारुह्य प्राप भीममहावनम् ॥ ५९ ॥ अत्रान्तरे सुवेगाख्यो म्लेच्छराजो महाबलः । विलोक्य मेघमालाया रूपं जातोऽतिचञ्चलः ॥६॥ तस्या हरणकामोऽसौ अज्ञातं तत्पतेर्बलम् । मार्गरोधं विधायाशु भर्तृमित्रस्य तस्थिवान् ॥ ६१॥॥ ततस्तेन समं युद्धं भर्तृमित्रस्य कुर्वतः । क्षयं गतानि शस्त्राणि बाणमेकं विहाय तम् ॥ ६२॥ मेघमालां समुत्तार्य तद्रथादाशु भूतले । तत्सन्मुखमभीयाय भर्तृमित्रो रुषान्वितः ॥ ६३॥ तद्भूषणरवं श्रुत्वा किन्नरस्वरसंनिभम् । यावत् पश्यति तद्रूपं सुवेगः प्रीतमानसः ॥ ६४॥ तावच्छिद्रं समासाद्य भर्तृमित्रेण वेगतः । अक्षिद्वये खबाणेन विद्धः शातेन शालिना ॥६५॥ ततो मृतिं परिप्राप्य सुवेगो म्लेच्छनायकः । जगाम नरकं भीमं महादोषेण चक्षुषः ॥ ६६ ॥ ॥ इति श्रीभर्तृमित्रनिहतसुवेगम्लेच्छनायकगमनकथानकमिदम् ॥ ११६ ॥
११७. नागदत्ताकथानकम् । अत्रैव भरतक्षेत्रे नाशिकाख्ये पुरोत्तमे । आसीत् सागरदत्ताख्यो गृहनाथो महाधनः ॥१॥ नागदत्ता चलस्वान्ता तत्प्रिया प्रियवादिनी । श्रीकुमारोऽनयोः पुत्रः श्रीषेणा तनयाऽभवत् ॥२॥ नन्दगोपोऽभवत् तत्र गोपालो रूपराजितः । नागदत्ताऽमुना सार्धं तिष्ठति प्रीतमानसा ॥३॥ 30 अथैकस्मिन् दिने मूढा नागदत्ता खमन्दिरे । तदा व्याजेन केनापि तस्थौ मुदितमानसा ॥४॥ ततः सागरदत्तोऽपि गाः पुरस्कृत्य कौतुकम् । हरिद्रापश्चिमे यामे चारणार्थं वनं ययौ ॥५॥
1 [भर्तृमित्रः]. 2 पफ पदान् परम्. 3 [मुक्त्वा ]. 4 पफज युगलमिदम्. 5 [अमुक्त्वा ]. 6 [व्यूढा]. 7 पफज युगलमिदम्. 8 [तल्लेखान् भर्तृ ].
बृ० को० ३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org