________________
हरिषेणाचार्यकृते वृहत्कथाकोशे
[ ११६.१०
तस्मादिमां प्रयच्छ त्वं कामतोऽमरसंनिभाम् । विन्ध्यन्ती कामिनां चेतो येन कर्णे करोम्यहम् ॥१०॥ श्रुत्वा वसन्तमालाया वचनं निजयोषितः । जगौ वसन्तसेनोऽपि वचसा निजवल्लभाम् ॥ ११ ॥ निविष्टः किं ददाम्येतां तव सुन्दरि शोभनाम् । नूनं किमुत्थितो ब्रूहि मन्मनोहरणक्षमे ॥ १२ ॥ निशम्य तद्वचः कान्ता निजगाद धवं पुनः । इहत्यो देहि तां नाथ सुप्ताया मम सांप्रतम् ॥ १३ ॥ · तद्वाक्यतः समाकृष्य निषङ्गाद् बाणमुत्तमम् । धनुर्गुणे समासज्य मुमोचेमं स तां प्रति ॥ १४ ॥ स बाणो मञ्जरीं हत्वा तरौ तत्रापि निश्चलः । द्वितीयोऽप्यमुना मुक्तस्तत्रत्यः सोऽपि तत्समः ॥१५॥ पुङ्खाच पुङ्खतो मुक्तास्तावत्तेन शरा द्रुतम् । यावत्सा मञ्जरी चूतात् पतिता तत्पुरो धराम् ॥१६॥ वसन्तोपपदः सेनस्तां समादाय मञ्जरीम् । ददौ वसन्तमालायाः स्वहस्तेन सुकौतुकः ॥ १७ ॥ दृष्ट्वा तां मञ्जरीं दत्तां तेन तस्यै स्वयोषिते । देवदत्ता जगादेति भर्तृमित्रं रुषान्विता ॥ १८ ॥ स्वामिन् ममापि तां क्षिप्रं देहि चूतस्य मञ्जरीम् । भल्लीमिव वसन्तस्य येन कर्णे करोम्यहम् ॥१९॥ देवदत्तावचः श्रुत्वा भर्तृमित्रोऽपि तद्वने । अज्ञातमार्गणाभ्यासो बभूवानतमस्तकः ॥ २० ॥ विधायोत्तरमेतस्या भर्तृमित्रः प्रतारकम् । मुखं निजोत्तरीयेण सुप्ताया पिदधे वने ॥ २१ ॥ धनुर्वेदनिमित्तेन देशत्यागं विधाय सः । भर्तृमित्रो द्रुतं प्राप पुरं मेघपुरं परम् ॥ २२ ॥ मेघसेनो नृपस्तत्र बभूवोन्नतशासनः । तत्प्रिया रूपसंपन्ना रिन्ना वेगवती भुवि ॥ २३ ॥ कलाविज्ञानसंयुक्ता सुन्दरी सुभगा परा । अभवद् विनयोपेता मेघमाला सुताऽनयोः ॥ २४ ॥ रूपयौवनयुक्तायास्तस्या नैमित्तिकोक्तितः । स्वयंवरः कृतः पित्रा चन्द्रकोपपदव्यधः ॥ २५ ॥ नरप्रमाणकं स्तम्भमेकं कृत्वा तदग्रतः । सहस्रारकसंयुक्तं चक्रं संस्थाप्यते बुधैः ॥ २६ ॥ तस्योपरि स्थितो नूनं वेधकः कुशलो नरः । धृतकोदण्डसद्वाणो 'वैशाषकरणान्वितः ॥ २७ ॥ भ्रमतोऽस्य विशुद्धस्य चक्रस्य सहसा सकः । लक्षं विमार्गयन् मन्दं यत्नवान् संवितिष्ठते ॥२८॥ 20 नरप्रमाणकस्तम्भादमुतो घनसारतः । पदानि सप्त संप्राप्य तिष्ठति प्रथमं युगम् ॥ २९ ॥ त्रीणि त्रीणि पदान्यस्य तत्पुरः प्राप्य निश्चितम् । भवन्ति सप्तयुक्तानि युगानि स्थिरतागुणैः ॥ ३० ॥ युगेभ्यः सप्तसंख्येभ्यः संप्राप्य युगमष्टकम् । अतः परं प्रवेद्यानि पदानि त्रीणि कोविदैः ॥ ३१ ॥ चक्रस्य भ्रमतस्तत्र मुक्तारान्तरयोगतः । वालः कपर्दिकाबन्धो लम्बमानो वितिष्ठते ॥ ३२ ॥ एवं स्थिते सति क्षिप्रं युग सप्तप्रमाणके । स्थितो वितिष्ठते सर्वो नरसंघः कृतध्वनिः ॥ ३३ ॥ 25 दृष्ट्वा तं चान्द्रकं वेधं भयविह्वलमानसः । संतिष्ठते नरवातस्तत्सुताग्रहणेच्छया ॥ ३४ ॥ अत्रान्तरे महालोकसंघट्टरवसंकुले । भर्तृमित्रः परिप्राप पुरं मेघपुरं पृथु ॥ ३५ ॥ नानाशिष्यसमायुक्तं धनुर्वेदपरायणम् । द्रोणाचार्यं ददर्शासौ भर्तृमित्रोऽपि तत्पुरे ॥ ३६ ॥ अस्मै विचित्ररत्नानि भर्तृमित्रो वितीर्य च । धनुर्वेदकृते शिष्यो बभूवानुगतोऽस्य सः ॥ ३७ ॥ आयुधानि तदाऽशिक्षत् तदुपाध्यायशासनात् । कुर्वाणो विनयं तस्य भर्तृमित्रोऽवतिष्ठते ॥ ३८ ॥ 30 तत्पत्तनसमीपस्थं पर्वतं प्राप्य सर्वदा । नानातरुसमायुक्तं फलपुष्पोपशोभितम् ॥ ३९ ॥ देवतार्चनयोग्यानि फलपुष्पाणि सादरम् । समादाय ददावस्मै भर्तृमित्रो दिने दिने ॥ ४० ॥ तेन तत्पर्वतस्येदं तत्कालप्रभृति स्फुटम् । यावदद्यदिनं नाम जातं पुष्पादिसंज्ञकम् ॥ ४१ ॥
10
15
२८८
1 पफज चतुः कुलकमिदम्. 2 युगलमिदम्. 3 पफ तत्सलः . 4 [ नाम्ना ] 5 [ वैशाख° ]. 6 [ लक्ष्यं ]. 7 पफज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org