________________
२८७
-११६.९]
भर्तृभित्रकथानकम्
११५. भीमनृपतिकथानकम् । अत्रैव भारते वास्ये कम्पिल्लाख्यं पुरं परम् । अत्र राजाऽभवद् भीमो जिह्वेन्द्रियवशीकृतः ॥१॥ घभूवास्य महादेवी सोमश्रीरतिवल्लभा । अनयोनन्दनः शूरो भीमदासो भयानकः ॥२॥ तेन राज्ञा महापूजा जिनानां क्षीणकर्मणाम् । प्रवर्तिताऽतिभावेन त्रिषु नन्दीश्वरेष्वपि ॥३॥ दिनान्यष्टौ समारुह्य जीवानां भयवेपिनाम् । अमारिघोषणां' राजा चकार खकुलोचिताम् ॥४॥ अथ नन्दीश्वरान्ते च पिशिताशाऽभवत् प्रभोः । अत्यन्तदुर्धराऽसाध्या तद्व्याकुलितचेतसः॥५॥ आहूय मारनामानं महानसिकमादरात् । जगावेतं ममायैव रेरे त्वं मांसमानय ॥ ६॥ निशम्य भूभुजो वाक्यमनालोच्यं स सूदकः । श्मशानं प्राप्य वेगेन मृतं बालं ददर्श तम् ॥७॥ बालमादाय संप्राप्य संस्कृत्य निजमन्दिरे । ददौ भूपाय तन्मांसं जघासेदं स लम्पटः ॥८॥ आस्वाद्य तत्पलं हृष्टो जगौ सूदं स भूपतिः । भद्राद्य भोजनं मृष्टं संजातं मांसभक्षणात् ॥९॥" भूपवाक्यं समाकर्ण्य याचयित्वाऽभयं नृपम् । बालमांसमिदं पक्कं भक्षितं ते नरेश्वर ॥१०॥ आकर्ण्य तद्वचः सत्यमिदमेव दिने दिने । सूपकार ममैतद्धि समानय सुसंस्कृतम् ॥ ११ ॥ दत्त्वा मोदकमेकैकं हत्वा बालं दिने दिने । बालहीनं पुरं सर्वं सूदश्चके नृपं प्रति ॥ १२ ॥ जग्धबालं नृपं ज्ञात्वा सामन्ता हि महत्तराः । दुष्टं निर्धाटयामासुः सूदेन सह पत्तनात् ॥ १३॥ समस्तभुवनव्यापिनिहिताशेषशात्रवम् । भीमदासो हि तत्पुत्रश्चक्रे राज्यं यथाविधिः ॥१४॥ 15 ततो विन्ध्याटवीमध्ये भुक्ता सूदं बुभुक्षितः । मेखलाढ्यं पुरं प्राप भीमोऽयं भीमविग्रहः ॥१५॥ ज्ञात्वा भीमं नरं क्रूरं तत्पुरोद्वेगकारिणम् । जघान वसुदेवोऽयं नरभक्षणकारिणम् ॥ १६॥ नरमांसादनं कृत्वा जिह्वेन्द्रियवशीकृतः । जगाम नरकं भीमो वसुदेवनिपातितः॥१७॥ ॥ इति श्रीनरमांसभक्षणकारिजिह्वेन्द्रियवशीकृतभीमनृपति
नरकगमनकथानकमिदम् ॥ ११५ ॥
११६. भर्तृमित्रकथानकम् । मदिल्लपत्तने दिव्ये श्रेष्ठी धनपतिर्महान् । इभ्यस्तद्वल्लभा चासीद्धनश्रीः श्रीसमप्रभा ॥१॥ तत्पुत्रो भर्तृमित्रोऽभून्नन्दिताशेषबान्धवः । तत्प्रिया देवदत्ता च रूपराजितविग्रहा ॥२॥ भर्तृमित्रादयः सर्वे द्वात्रिंशच्छेष्ठिनस्तदा । सभार्यास्तत्पुरोद्यानं जग्मुर्मुदितचेतसः ॥३॥ तस्मिन् वसन्तसेनाख्यः श्रेष्ठिपुत्रोऽस्य कामिनी । आसीद् वसन्तमालाख्या वसन्तश्रीसमप्रभा ॥४॥ 25 उरःशिरःसमाधारं कृत्वाऽङ्ग स्नेहनिर्भरम् । सुप्ता वसन्तमालेयं स्वधवेनामुना समम् ॥ ५॥ उरःशिरःसमाधारं विधायाङ्गं सुसंगतम् । देवदत्ताऽपि संसुप्ता भर्तृमित्रधवान्तिके ॥ ६॥ एवं प्रसुप्तयोस्तत्र द्वन्द्वयोः सुखमिच्छतोः। विद्रुमाभां समालोक्य रुचिरां चूतमञ्जरीम् ॥७॥ वसन्तोपपदं सेनं स्वभर्तारं मनःप्रियम् । ब्रुवे वसन्तमालेयं नितान्तं प्रीतमानसा ॥ ८॥ राजते सुतरां नाथ चूतस्य नवमञ्जरी । वरां विलोक्य यां याति वेगं च नवमं जरी ॥९॥ ७
1 ज अमारी'. 2 फ सलम्पटम्. 3 पफ तत्फलं. 4 पफ शाववम्. 5 [भुक्त्वा ]. 6 ज (=वृद्धपुरुषः).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org