________________
૨૦૦
हरिषेणाचार्य कृते बृहत्कथाकोशे
[ ११४.१५
1
गन्धर्वविषये दिव्ये विपञ्चीविषयेऽपि च । किन्नरो वा कलस्वानस्तत्पुरेऽसौ वितिष्ठते ॥ १४ ॥ अन्यदागत्य तत्पार्श्वं नरैः संभ्रममागतैः । वार्ता गन्धर्वदत्तायाः कथिताऽस्य सकौतुकैः ॥ १५ ॥ पुत्रिका पाटलीपुत्रे किन्नरीव कलखना । निर्जित्य सकलं लोकं गीतेन व्यवतिष्ठते ॥ १६ ॥ निशम्य तद्वचः प्रौढं पञ्चालः कृतनिश्चयः । शतैः पञ्चभिरायुक्तः शिष्याणामाप तत्पुरम् ॥ १७ ॥ * यदि कोऽपि नरः क्षिप्रमागच्छति मदन्तिकम् । सुप्तस्योत्थापनं भद्र कुरु ततो मम स्फुटम् ॥१८॥ शिष्यमेकं निगद्यायमशोकाख्यतरोरधः । मुखप्रसारणं कृत्वा सुप्तोऽयं सपरिश्रमः ॥ १९ ॥ अन्ये ते वासिनः सर्वे कौतुकव्याप्तमानसाः । विविशुः पाटलीपुत्रं पताकावलिराजितम् ॥ २० ॥ अत्रान्तरे परिज्ञाय सहसा सहसादरैः । बहुभिश्चेष्टिकासंधैर्मृदुमन्थरगामिभिः ॥ २१ ॥ वस्त्रसगन्धकर्पूरश्रीखण्डकुसुमारुणम् । ताम्बूलादिकमादाय रागात् पञ्चालमाप सा ॥ २२ ॥ प्रसारितमुखं भीमं पञ्चालं सपरिश्रमम् । ददर्शो दन्तुरं तत्र सघर्घरगलं सका ॥ २३ ॥ ततो गन्धर्वदत्ता च तत्समीपे विलोक्य सा । छात्रमेकं जगादेति वचः साश्चर्यमीयुषा ॥ २४ ॥ भो भो चट्ट वद क्षिप्रं ममेदं सत्वमादरात् । पञ्चालोऽयमुपाध्यायो यः सुप्तो व्यवतिष्ठते ॥ २५ ॥ निशम्य तद्वचश्चट्टो जगादेमां मनखिनीं । भवेत् पञ्चालनामायमुपाध्यायः परिस्फुटम् ॥ २६ ॥ तद्वाक्यतः परिज्ञाय पञ्चालं भीमवक्रकम् । उद्दन्तुरं च चित्तेन विरक्ता दुःखिता सका ॥ २७ ॥ 15 ततोऽशोकतरुं बाला वस्त्रयुग्मेन सादरम् । विधाय' कुङ्कुमाद्यैस्तैरनुलिप्य मुहुर्मुहुः ॥ २८ ॥ पुष्पमालाभिरावेथ धूपं दत्त्वा पुनः पुनः । ताम्बूलमप्यधः कृत्वा त्रिःपरीत्य प्रणम्य तम् ॥ २९ ॥ भाण विस्मितवान्ता तद्विरक्ता गतप्रभा । गन्धर्वोपपदा दत्ता पुत्रिका हृष्टमानसा ॥ ३० ॥ यावदस्य मुखे भीमे पञ्चालस्य सरस्वती । पिण्डिपादप तावत्ते कुतो नेयं व्यवस्थिता ॥ ३१ ॥ एवं निगद्य तं वृक्षं पञ्चालोत्तीर्णमानसा । तूर्णं गन्धर्वदत्ताऽपि जगाम निजमन्दिरम् ॥ ३२ ॥ 20 ततः प्रबोधमासाद्य पञ्चालो वीक्ष्य पादपम् । पूजितं केन मे सत्यं ब्रूहि शिष्य यथायथम् ||३३|| निशम्य तद्वचः शिष्यो वभाणेमं ससंभ्रमः । नारी त्वदन्तिकं प्राप्ता पण्यस्त्री परिवारिता ॥ ३४ ॥ भवन्तं वीक्ष्य संसुप्तं पुष्पधूपादिसंपदा । अशोकं पूजयित्वा च प्राहेदं वनितोत्तमा ॥ ३५ ॥ उद्दन्तुरमुखे यावदस्य देवी व्यवस्थिता । तावत्तव तरो कस्मान्न स्थितेयं सरस्वती ॥ ३६ ॥ एवं निगद्य सा कन्या जगाम निजपत्तनम् । पञ्चालस्तद्वचः श्रुत्वा रुषा यातो नृपान्तिकम् ||३७|| उपाध्यायो नृपेणोक्तस्तुभ्यं किं क्रियते वद । तद्वाक्यतोऽमुना प्रोक्तो भूपतिः प्रीतमानसः ॥ ३८ ॥ राजन् गन्धर्वदत्तान्ते मदावासं निरूपय । तेनापि भूभुजा तस्य प्रतिपन्नं मनीषितम् ॥ ३९ ॥ पञ्चालोऽपि तदभ्याशे स्थितो गेहे कलखनाम् । वीणामादाय संगेयं नादितुं प्रवृत्तो" निशि ॥ ४० ॥ तद्गीतध्वनिमाकर्ण्य पञ्चालहृतमानसा । मदविह्वलचेतस्का बभूवासौ सविस्मया ॥ ४१ ॥ प्रासादात् पातमासाद्य पञ्चतामपि सत्वरम् । भवं " गन्धर्वदत्तेयं संसारं भवदुःखदम् ॥ ४२ ॥
1
॥ इति श्रीपञ्चालोपाध्यायगीतश्रवणमरणकथानकमिदम् ॥ ११४ ॥
*
10
25
30
1 पफज युगलमिदम्. 2 पफज युगलमिदम्. 3 पफज युगलमिदम्. 4 [चेटिका ] 5 ज ददशो, [ ददर्शोद्दन्तुरं ]. 6 पफ omit the second line of No. 25 and the first line of No. 26. 7 [ पिधाय ]. 8 फ पञ्चाले तीर्ण. 9 पफज त्रिकलमिदम्. 10 ज प्रवृते.
11 [ भ्रान्ता ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org