________________
-११४.१३]
पञ्चालगन्धर्वदत्ताकथानकम्
. २८५ ११३. गन्धमित्रकथानकम् । ततः सुकोशलाभिख्ये विषये परमोदये । अस्त्ययोध्यापुरी रम्या साणूरसरसीवनैः ॥ १॥ विद्यतेऽस्यां महाराजो यशःसेनो हताहितः । प्रिया जयमतिस्तस्य महाजयमतिः प्रिया ॥२॥ अभूतामनयोः पुत्रौ कलाविज्ञानशालिनौ । जयसेनो मतः पूर्वो गन्धमित्रोऽपरो मतः ॥३॥ अन्यदा प्राप्य वैराग्यं राज्यं ज्येष्ठाय सूनवे । युवराज्यं कनिष्ठाय यशःसेनो ददौ विभुः ॥४॥5 त्रिःपरीत्य तमीशानं नत्वा भक्त्या पुनः पुनः। मुनिसागरसामीप्ये ददौ दीक्षां स भूपतिः ॥५॥ योऽसौ ज्येष्ठसुतस्तस्य स्थितो जनकविष्टरे । राज्यमादाय वेगेन गन्धमित्रेण धाटितः ॥६॥ छिद्रं स गन्धमित्रस्य नक्तं पश्यद्दिनं तदा । जयसेनः स्वसैन्येन तस्थौ द्वारस्थितो रुषा ॥ ७॥ पीनोन्नतकुचद्वन्द्वैर्नीलोत्पलदलेक्षणैः । गन्धमित्रोऽपि राजेन्द्रः पञ्चभी रमणीशतैः ॥ ८॥ पञ्चेन्द्रियेषु मध्येऽसौ घ्राणेन्द्रियपरस्तराम् । भुञ्जानः परमान् भोगांस्तस्थौ मुदितमानसः ॥९॥ 10 अन्यदा गन्धमित्रोऽसौ सर्वदेवीसमन्वितः । जयसेनेन विज्ञातः स्थितो यः सरयूहदे ॥ १० ॥ ज्ञात्वाऽमुं सरयूभागे तदानीमुपरिष्टके । नानातरुप्रसूनानि विषधूलीयुतान्यलम् ॥ ११ ॥ तं तदा जलपूरेण मन्दमन्दप्रवाहिना । जयसेनः स्थितस्तत्र मुमोचाशु रुषान्वितः ॥ १२ ॥ तद्देवीभिः समादाय विषयुक्तानि तान्यलम् । दत्तानि रमणायास्मै तत्करे ताभिरादरात् ॥ १३॥ आदाय चित्रवर्णानि तानि चाघ्राय रागतः । गन्धमित्रो मृतिं प्राप्य जगाम नरकं पुनः ॥१४॥ ज्येष्ठोऽपि जयसेनाख्यो गृहीत्वा राज्यमात्मनः। भुञ्जानः परमान् भोगान् सुखं तस्थौ स्वपत्तने ॥१५॥ ॥ इति श्रीघ्राणेन्द्रियसमायुक्तनरकगमनगन्धमित्रकथानकमिदम् ॥ ११३ ॥
११४. पञ्चालगन्धर्वदत्ताकथानकम् । नगरे पाटलीपुत्रे हतशत्रुकदम्बकः । राजा गन्धर्वदत्तोऽभूत् सर्वलोकमनोहरः ॥१॥ बभूव तन्महादेवी पीनोन्नतकुचान्विता । गन्धर्वोपपदा सेना कन्दोट्टदललोचना ॥२॥ 20 गन्धर्वोपपदा दत्ता पद्मकोमलपाणिका । गन्धर्वे विषये दक्षा गन्धर्वमदगर्विता ॥ ३॥ अस्यैव भूपतेरासीत् पुत्रिका लोललोचना । कलाकलापसंयुक्ता विज्ञानातिशयान्विता ॥४॥ गन्धर्वविधिना यो हि कुमारी मां विजेष्यते । तस्य भार्या भविष्यामि संगरोऽयं मम स्फुटम् ॥५॥ अथवा मां न कोऽप्यत्र गन्धर्वेण विजेष्यते । ग्रामत्रयेण युक्तेन तथा सप्तस्वरैरपि ॥ ६॥ चित्रभानौ ततः क्षिप्रं ज्वालाभासितपुष्करे । करिष्यामि जनाध्यक्षं प्रवेशं निर्विकल्पकम् ॥ ७ ॥ 25 आदाय ब्रह्मचर्य वा निश्चितं सार्वकालिकम् । पुत्रिकेयं तदा तस्थौ प्रतिज्ञारूढमानसा ॥ ८॥ अस्यामेव स्थितायां च प्रतिज्ञारूढचेतसि । स्वयंवरार्थमायाता नानानरगणास्तदा ॥९॥ खमन्दिराद् विनिःसृत्य नरनारीसमन्विता । तस्थौ गन्धर्वदत्ताऽपि सा स्वयंवरमण्डपे ॥१०॥ ... गतैरेकदिने तस्मिन् सप्तभिः सप्तभिर्दिनैः। वादं करोति सा बाला गन्धर्वेण नरोत्तमैः ॥ ११॥ गन्धर्वदत्तया तत्र कालेन बहुना तया । सविलासं नराः सर्वे गन्धर्वेण निराकृताः ॥ १२॥ 30 विजयानगासन्ने पोदनाख्ये पुरोत्तमे । एकः पञ्चालनामासीदुपाध्यायः कलान्वितः ॥१३॥
1 [ दधौ ].
पफज युगलमिदम्.
प्रफज युगलमिदम्. 4 पफ कुमारिं. 5 ज षद्कुलकम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org