________________
२८४
हरिषेणाचार्यकृते बृहत्कथाकोशे [११२. १४भूयो नरेन्द्रवाक्येन सोमशर्मा बमाण तम् । दर्शयामि तवाद्यैव खमाहात्म्यं नराधिप ॥ १४ ॥ एवमुक्त्वा समाहूतास्तेन सर्वेऽपि पन्नगाः। भवनं राजराजस्य संप्राप्ता भयविह्वलाः ॥१५॥ आगतेषु समस्तेषु पन्नगेषु नृपालयम् । भूयोऽपि गदितास्तेन तदानीं सोमशर्मणा ॥ १६ ॥ योऽपराधी भवेन्मध्ये तिष्ठत्वत्र स मण्डले । येऽपराधपरित्यक्ताः स्वगृहं यान्तु तेऽखिलाः ॥१७॥ 5 सोमशर्मवचः श्रुत्वा सर्वे ये दोषवर्जिताः । स्वमन्दिरं गता यस्तु सदोषः स परं स्थितः ॥१८॥ एकस्मिन् पन्नगे भीमे स्थिते तत्रत्यमण्डले । भूयोऽवाचि पुनस्तेन तदानीं सोमशर्मणा ॥ १९ ॥ सर्पाणां द्वे कुले राजन् विद्यते वसुधातले । गन्धनाख्यं कुलं चैकमगन्धनकुलं परम् ॥ २०॥ गन्धने ये कुले जाता विषं गृह्णन्ति तेऽहयः । अकुलीनकुलं पूर्व प्रथमं ते मयोदितम् ॥ २१ ॥
येऽगन्धनकुले जाता मानिनः कुलसंभवाः । निजां कुलस्थितिं जातु लश्यन्ति न ते नृप ॥२२॥ 10 अनेन कारणेनैष सर्पपोतः कुलोद्भवः । अगन्धनकुलोत्पन्नो मानराजितविग्रहः ॥ २३ ॥
स्वकुलस्थितिसंतानभङ्गवेपितविग्रहः । अमुना कारणेनायं न गृह्णाति विषं प्रभो ॥ २४॥ इच्छत्येष वरं मृत्यु न कुलस्थितिलोपनम् । मानिनो मरणावाप्तिं वाञ्छन्ति न कुलक्षयम् ॥ २५॥ सोमशर्मोदितं श्रुत्वा नन्दनं जीवनं प्रति । बभाणेमं सभाऽध्यक्षं शोकविस्मयगो नृपः ॥ २६ ॥
जीवत्वेष चिरं सर्पः पञ्चतां यातु वा ध्रुवम् । तथाऽपि स्वविष नूनं गृह्णातु पुनरप्ययम् ॥२७॥ 15 नरेन्द्रवाक्यतो धृत्वा धारणं मनसि द्रुतम् । जगाद पन्नगं सत्यं सोमशर्मा पुरःस्थितम् ॥ २८॥
भो भो नागकुलप्रख्य मत्पतेर्नन्दनस्य तु । गृहाण विषमात्मीयं ग्रहीतुं स न वाञ्छति ॥ २९॥ काष्ठपुखं विधायाशु तरां प्रज्वाल्य वह्निना । सोमशर्मा जगादेमं सभामध्ये विचक्षणः ॥३०॥ इदं नागकुमार त्वं गृहाण विषमादरात् । न गृह्णासि यदि क्षिप्रं ततोऽग्निं विश भासुरम् ॥३१॥ सोमशर्मवचः श्रुत्वा नागराजोऽपि तत्क्षणम् । तदानीं विस्मयोपेतो दध्याविति स चेतसि ॥३२॥ • अस्मदीये कुले नूनं मर्यादेयं समुन्नता । खेन मुक्तं विषं यच्च गृहीतं तत्र केनचित् ॥ ३३ ॥
दिनपक्षेऽपि वा मासे वर्षे वा निश्चयेन च । मर्तव्यं जन्तुभिः सर्वेम्यद्भिर्भवसंकटे ॥ ३४ ॥ . हित्वा स्वकुलमर्यादामपवादयुतेन को । अवश्यमेव मर्तव्यं मयाऽपि भवकानने ॥ ३५ ॥
ततः स्वकुलमर्यादां पालयन् मत्कुलागताम् । मरामि येन नो निन्द्यो भवामि निजगोत्रजैः ॥३६॥ चिन्तयित्वा चिरं चित्ते नागेन्द्रो मृत्युनिर्भयः । प्रविश्य ज्वलितं वह्नि ममार सहसा सुधीः॥३७॥
तथा चोक्तम् - वरं प्रविष्टं ज्वलिते हुताशने न चापि भग्नं चिरसंचितं व्रतम् ।
वरं हि मृत्युः शुचिशुद्धकर्मणां न शीलवृत्तेः स्खलितं हि जीवितम् ॥ ३८॥ तिर्यग्जातिसमुत्पन्नो ज्ञानहीनोऽपि चेदहिः । अनादाय विषं मुक्तं प्राप्तो मृत्युमयं सुधीः ॥ ३९॥
उत्कृष्टकुलजातेन साधुनाऽप्यभिमानिना । गृह्णतेदं तपो जैनं जिनादिगुरुसाक्षिकम् ॥ ४० ॥ " कषायाक्षविषं वान्तं मरणे समुपस्थिते । व्रतीनां कुलमर्यादां जिनादिगुरुभिर्भुवि ॥४१॥ हित्वेमा कुलमर्यादां महापुरुषसेविताम् । कषायाक्षविषादानं न कर्तव्यं खचेतसि ॥ ४२ ॥
॥ इति श्रीकुलजमहापुरुषकथानकमिदम् ।। ११२॥"
1 पफ षट्कलकमिदम् , ज षटकुलकमिदम्. 2 पफज युगलमिदम्. 3 [दिने]. 4 ज गृह्नतोदं. 5 पफज त्रिकलमिदम्. 6 पफ No. 112, ज No. 111.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org