________________
- ११२. १३ ]
कुलजमहापुरुषकथानकम्
१११. मरीचिकथानकम् ।
१ ॥
२ ॥
विषये 'पुष्पलावत्यां विशिष्टजनसंकुले | मधुपूर्वं वनं रम्यं बभूव मधुकान्वितम् ॥ नानानो कुहसंछन्ने नानापक्षिरवाकुले । वसति प्रीतचेतस्को म्लेच्छो नाम पुरूरवाः ॥ अन्यदा विहरन् क्वापि नष्टमार्गे महामुनिः । समाधिपूर्वको गुप्तो तद्वनं प्रविवेश सः ॥ ३ ॥ ततः पर्यटताऽनेन तद्वने भ्रान्तचेतसा । दृष्टः पुरूरवा म्लेच्छो मार्गश्रमयुतेन सः ॥ ४ ॥ नानाजनसमेतस्य महादेशस्य सत्वरम् । ब्रूहि मार्ग मम स्पष्टं येन यामि वनेचर ॥ ५ ॥ मुनिवाक्यं समाकर्ण्य धर्मशीलपुरूरवाः । जगादायं मुनेरस्य मार्गं देशस्य शोभनम् ॥ ६ ॥ पुरूरवोवचः श्रुत्वाऽवक्रशीलं महामुनिः । कृपाऽङ्गनापरिष्वक्तहृदयो निजगावमुम् ॥ ७ ॥ महामार्गेण खिन्नस्य देहस्य मृदुमानसः । अटवीविप्रनष्टस्य मम मार्गस्त्वयोदितः ॥ ८ ॥ भवाटवीप्रनष्टस्य वृक्षगोत्रावगाहिनः । धर्मपाथेयहीनस्य मोक्षमार्गं ब्रवीमि ते ॥ ९ ॥ साधूदितं समाकर्ण्य बभाणेमं पुरूरवाः । मोक्षमार्गस्य पन्थानं प्रदर्शय मम स्फुटम् ॥ १० ॥ गृहिधर्मपथोऽनेन सम्यक्त्वादिपुरस्सरः । तद्वाक्यतः समादिष्टः साधुना तद्धितैषिणा ॥ ११ ॥ श्रावकं धर्ममासाद्य कालं कृत्वा पुरूरवाः । सौधर्मे चाभवद् देवः सागरैकप्रजीवितः ॥ १२ ॥ ततश्युत्वाऽभवत् पुत्रश्चक्रिणो भरतस्य सः । मरीचिसंज्ञया युक्तो धारिणीकुक्षिसंभवः ॥ १३ ॥ दीक्षितः पुरुदेवेन मरीचिर्नाभिसूनुना । सभायां स्वस्तुतिं श्रुत्वा सांख्यधर्मं दिदेश सः ॥ १४ ॥ 15 भूयो मिथ्यात्वदोषेण परिभ्रम्याजवंजवम् । अभवच्च महावीरः तीर्थकृच्चरमः पुनः ॥ १५ ॥
॥ इति श्रीमरीचिकथानकमिदम् ॥ १११ ॥
२८३
११२. कुलजमहापुरुषकथानकम् ।
अवन्तीविषये चास्ति श्रीमदुज्जयिनी पुरी । शूरसेनो नरेन्द्रोऽस्यां शूरसेनाऽस्य गेहिनी ॥ १ ॥ अनयो रूपसंपन्नः शूरवीरो जनप्रियः । शूरवीरोऽभवत् पुत्रः कलाविज्ञानकोविदः ॥ २ ॥ तद्व्याधिच्छेदनार्थं च नरेन्द्रविषघातिनाम् । वैद्यानां संग्रहोऽनेन भूभुजा विहितो गृहे ॥ ३ ॥ तेषां संपूजनं राजा भोजनाच्छादनादिना । शूरवीरनिमित्तेन करोति सततं तराम् ॥ ४ ॥ अन्यदा शूरवीरोऽसौ प्रासादशिखरस्थितः । दष्टो भीमभुजङ्गेन पपात भुवि निःक्रियः ॥ ५ ॥ एवंस्थिते कुमारेऽस्मिन् विषदा वैद्यभूभुजः । आहूता युगपत् सर्वे नरेन्द्रेण समागताः ॥ ६ ॥ यथाक्रमं निविष्टेषु तेषु सर्वेषु सादरम् । एवमुक्ता नरेन्द्रेण पुत्रशोकविचेतसा ॥ ७ ॥ शूरवीरकुमारस्य मत्पुत्रस्य प्रयत्नतः । अस्माभिर्युगपत् प्रोक्ता यूयं कुरुत जीवनम् ॥ ८ ॥ भूपालस्य वचः श्रुत्वा सोमशर्मा द्विजः पुनः । कुशलोऽष्टाङ्गवेदेषु जगादेति महीपतिम् ॥ ९ ॥ यादृशं दिननक्षत्रं वारवेलामुहूर्तकम् । दंष्ट्रालक्षणमेतैश्च दष्टो भूप न जीवति ॥ १० ॥ श्रुत्वा तद्वचनं भूयो बभाणेमं महीपतिः । भवतां संग्रहोऽस्माभिः पुत्रार्थं विहितो ननु ॥ ११ ॥ आकर्ण्य भूपतेर्वाक्यं सोमशर्मा जगावमुम् । वार्तिकः कुर्वते कर्म संग्रहानुगतं नृप ॥ १२ ॥ अवाचि भूभुजा भूयो सोमशर्मा तदुक्तितः । मत्पुत्रोऽयं कुवैद्येषु सत्सु कालगतः कथम् ॥ १३ ॥
30
1 [ पुष्कलावत्यां ]. 2 [ मानस ]. 3 पफज त्रिकलमिदम्. 4 पफज त्रिकलमिदम् 5 पफज युगलम् 6 पफ युग्मम् ज युगलम् 7 [ सुवैद्येषु ].
Jain Education International
For Private & Personal Use Only
10
20
25
www.jainelibrary.org