________________
२८२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१०९. ३३स्मृत्वा तद्वैरसंबन्धं वेषमादाय तापसम् । फलानि दर्शयामास दिव्यान्येष महीपतेः ॥ ३३॥ नीत्वा समुद्रमध्येऽमुं फललोभेन चक्रिणम् । प्रापयन् भ्रंशतां दृष्टेर्ममार सहसाऽमरः ॥ ३४ ॥ पश्चान्मृतिं परिप्राप्य ब्रह्मदत्तो दुराशयः । सप्तमं नरकं प्राप घोरं दुःखसमाकुलम् ॥ ३५ ॥
॥ इति श्रीनिदानविधानकरणसप्तमनरकगमन
संभूतिकथानकमिदम् ॥ १०९॥
११०. पुष्पदत्ताकथानकम् । अत्रैव भरतक्षेत्रे जितधामपुरेऽभवत् । पुष्पचूलो नृपोऽस्यापि पुष्पदन्ता प्रिया प्रिया ॥१॥ तस्या रूपसमेताया धात्रिका नित्यपण्डिता । कलाविज्ञानसंपन्ना यौवनेन समन्विता ॥२॥
अन्यदा विहरन् क्वापि संघेन महता युतः । अमरप्रभयोगीन्द्रस्तत्पुरोधानमाययौ ॥३॥ 10 श्रुत्वा मुनि परिप्राप्त पुष्पचूलो नरेश्वरः । नत्वा धर्ममुपश्रुत्य तदन्ते मुनितामितः॥४॥
पुष्पदन्ताऽपि तद्देवी धात्रीकासहिता सती । बंभिल्लगणिनीपार्थे तदानीमर्यिकाऽभवत् ॥५॥ ततस्तपः समादाय पुष्पदन्तार्यिका तदा । कुलैश्वर्यमदोन्मत्ता महागर्वसमन्विता ॥६॥ अन्यासामर्यिकाणां च वन्दनां कर्तुमिच्छति । नो मूढात्मा प्रमादाच कुर्याद् वा मायया सका ॥७॥ मुख्यकायस्य वक्रस्य दुर्गन्धस्यापि सर्वदा । सुगन्धद्रव्यचूर्णेन करोत्येषा सुधूपनम् ॥ ८॥ 15 एवं प्रकुर्वतीं दृष्ट्वा पुष्पदत्ता दिने दिने । तन्महत्तरिका तां च जगादेति विचक्षणा ॥ ९॥ गन्धवस्त्रशरीराणां संस्कारो द्रव्ययोगतः । कर्तुं न युज्यते पुत्रि मतमेतन्जिनेशिनाम् ॥ १० ॥ खमहत्तरिकावाक्यं श्रुत्वा तां प्राह मायया । मच्छरीरं खभावेन सुगन्धं रूपसंयुतम् ॥११॥ मायाशल्येन संयुक्तं तपो धातृकया सह । पुष्पदत्तार्यिका कृत्वा सौधर्मेऽजनि सा पुनः ॥१२॥
अत्रैव भरते वास्ये चम्पायां पुरि विद्यते । श्रेष्ठी सागरदत्ताख्यो धनश्रीरस्य गेहिनी ॥१३॥ 20 सौधर्मादेत्य सा धात्री धनश्रीतनयाऽभवत् । धनमित्राख्यया युक्ता रूपराजितविग्रहा ॥१४॥ मायाशल्येन संयुक्ता पुष्पदन्ताऽपि तच्युता । जातेयं धनमित्राया दासी पूतिमुखी परा ॥१५॥ ततः सागरदत्तेन पृष्टो नैमित्तिकोऽन्यदा । धनमित्रावरः को वा भविष्यति वदाशु मे ॥१६॥ श्रुत्वा सागरदत्तस्य श्रेष्ठिनो वचनं तदा । नैमित्तिको जगादेमममोघवचनो भुवि ॥१७॥ त्वद्वने यं नरं दृष्ट्वा निषण्णं रूपशेखरम् । लाभो दीनारलक्षस्य भविष्यति तव स्फुटम् ॥१८॥ 25 तथा हि पूतिमुख्याश्च यं दृष्ट्वा नरपुङ्गवम् । मुखं दुर्गन्धतां हित्वा साधुगन्धं भविष्यति ॥१९॥
नरेन्द्रकृतसन्मानः कीर्तिच्छन्नदिगन्तरः । स पतिधनमित्रायास्त्वत्सुताया भविष्यति ॥२०॥ ततः सागरदत्तोऽपि नैमित्तिकनिदेशतः । समस्तनरयूथस्य चकारेदं परीक्षणम् ॥ २१ ॥ अत्रान्तरे महाभाग्यो वसुदेवो नराधिपः । वनं सागरदत्तस्य संप्रापत् पर्यटन क्वचित् ॥ २२ ॥ दृष्ट्वा सागरदत्तोऽयं वसुदेवं वनस्थितम् । लाभं दीनारलक्षस्य लेभे तत्संगमादरात् ॥ २३॥ ३० दृष्ट्वा पूतिमुखी भूपं तत्रत्यं खमुखस्य च । हित्वा दुर्गन्धतां सद्यः सुगन्धत्वं समाप सा ॥२४॥ अथ सागरदत्तोऽमा सुतया धनमित्रया । चकार वसुदेवस्य पाणिग्रहणमङ्गलम् ॥ २५॥
॥इति 'श्रीपुष्पदत्तार्यिकामायाकृतनिन्दाकथानकमिदम् ॥ ११०॥
1 फ गलिणी. 2 पफज युगलमिदम्. 3 [ पुष्पदन्तां ]. 4 पफज युगलमिदम्. 5 [ पुष्पादन्ता]. 6 पफज चतुःकुलकम्. 7 [श्रीपुष्पदन्ता].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org