________________
२८१
-१०९. ३२]
चित्तसंभूतकथानकम्
१०९. चित्तसंभूतकथानकम् । काशीजनपदे रम्ये पुरी वाणारसी परा । अस्यां कृषीवलो निःस्वः सुषेणाख्योऽभवत् पुरि ॥१॥ गन्धारी तस्य भार्याऽऽसीन्मनोनयनवल्लभा । अनयोश्चित्तसंभूतावभूतां तनयौ क्रमात् ॥२॥ सुशीलौ सर्वशास्त्रेषु रूपिणौ गुणसागरौ । कुलजातिस्वकां हित्वा यातौ तौ परमण्डलम् ॥३॥ नर्तनं विप्रवेषेण कुर्वन्तौ गीतमप्यदः । तिष्ठतस्तौ धरापृष्ठे कलकण्ठौ मनस्विनौ ॥४॥ अन्यदा नर्तनं रम्यं पुरे राजगृहे परे । नर्तकीवेषतो गीतं कुर्वाते तो सुरोपमम् ॥ ५॥ संभूतस्य समालोक्य नर्तनं कुर्वतः परम् । स्त्रीवेषेण सुशर्माऽपि मोहितोऽभूत् पुरोहितः ॥६॥ कालेन बहुनाऽनेन ज्ञातेयं स्त्री न दुःखतः । एष दिव्यो नरः कोऽपि कलाविज्ञानकोविदः ॥७॥ दिव्यरूपधरायास्मै संभूताय महात्मने । लक्ष्मीमती स्वसा दत्ता खकेयं च सुशर्मणा ॥८॥ संभूतस्य कुले ज्ञाते कालेन बहुनाऽमुना । ततस्तो लजितौ सन्तौ गतौ पाटलिपुत्रकम् ॥ ९॥॥ ततोऽमुष्मिन् पुरे ताभ्यां कुर्वभ्यां निशि नर्तनम् । भ्रातृभ्यां रञ्जितो लोकः कौमुदीसुमहामहे ॥१०॥ ततः समुदिते सूर्य विज्ञातौ श्मश्रुणा तकौ । नरैनराविमौ नूनं योषितौ भवतो न च ॥११॥ काशीजनपुरं प्राप्य गुरुदत्ताख्ययोगिनः । जिनधर्म तकौ श्रुत्वा दीक्षां दैगम्बरीमितौ ॥१२॥ समस्तमागमं श्रुत्वा जिनधर्मपरायणौ । तपोभिः कृशदेहौ तौ गतौ राजगृहं परम् ॥ १३॥ कृत्वा पक्षोपवासं च पारणार्थं पुरान्तरम् । प्रविवेश पुरि श्रान्तः संभूताख्यो महामुनिः ॥ १४ ॥ 15 भिक्षार्थ पर्यटन् साधुस्तदा राजगृहान्तरे । ददर्श च सुशर्माणं प्राक्तनं तं पुरोधसम् ॥ १५ ॥ दृष्ट्वाऽमुं पुरमध्ये च वेपमानशरीरकम् । ननाश तदनु पाप वसुशर्मा पुरोहितः॥१६॥ धावतोऽस्य मुनेस्तत्र संभूताख्यस्य वेगतः । तेजोऽग्निर्निर्गतो वक्रात् तेन व्याप्ता दिशो दश ॥१७॥ तं वृत्तान्तं परिज्ञाय ज्येष्ठश्चित्ताभिधो मुनिः । आजगाम महावेगाद् विस्मयव्याप्तमानसः ॥१८॥ अनेन मुनिना शीघ्रं कृत्वागमनमादरात् । संभूताख्यमुनेस्तत्र तेजोनिरिणं कृतम् ॥ १९॥ 20 ज्ञात्वा तन्मुनिमाहात्म्यं भयवेपितविग्रहः । पुरोधा विस्मितस्वान्तो वसुशर्मा पलायितः ॥२०॥ अत्रान्तरे समादाय चक्रिरूपं च देवता । महाविभूतियोगेन मुनिसेवां करोति सा ॥ २१ ॥ मुनिसेवां प्रकुर्वाणां देवतां विभवान्विताम् । संभूताख्यमुनिर्मूढो निदानमकरोदिदम् ॥ २२ ॥ विद्यते मम माहात्म्यमेतस्य तपसो यदि । अन्यजन्मन्यहं चक्री भवयंश्च' ततः स्फुटम् ॥ २३॥ कृत्वा निदानमीदृक्षं कालं संभूतको मुनिः । सौधर्मे धर्मसंयोगाज्जातो देवो महर्द्धिकः ॥ २४ ॥ अत्रैव भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । काम्पिल्यं नगरं चास्ति पञ्चालविषयोद्भवम् ॥ २५॥ ब्रह्माख्यो भूपतिस्तत्र विद्यते परमोदयः । बभूव तन्महादेवी वनदेवीव सुन्दरी ॥ २६ ॥ चक्री द्वादशमो रूपी ब्रह्मदत्ताभिधो बली । संभूताख्यचरो देवो जातः पुत्रोऽनयोर्भुवि ॥ २७ ॥ संसारसागरं भ्रान्त्वा वसुशर्मा पुरोहितः । सूपकारो बभूवायं ब्रह्मदत्तस्य चक्रिणः ॥२८॥ अथ भोजनवेलायां विस्तृतायां महीपतेः । क्षुधापम्पाभिभूतस्य ब्रह्मदत्तस्य चक्रिणः ॥ २९॥ आज्ञाभङ्गभयात् तेन सूपकारेण वेगतः । अत्युष्णं पायसं क्षिप्तं स्वर्णपान्यां मनोहरम् ॥ ३०॥ अत्युष्णं पायसं दृष्ट्वा चक्रिणा रोषमीयुषा । सूपकारो हतोऽनेन मस्तकेऽग्निसमेन सः ॥३१॥ पायसेन मृतिं प्राप्य सूपकारो वराककः । लवणाम्भोधिमध्यस्थे द्वीपेऽभूद् व्यन्तरामरः ॥ ३२॥
1 [भवेयं च].
बृ० को० ३६ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org