________________
२८०
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १०८. १०२
॥
ततो गुञ्जाफलाकारलोचनांल्लोलजिह्वकान् । शिशुपालो मुमोचाशु पन्नगान् केशवं प्रति ॥ १०२ ॥ कीर्णपक्षं बृहद्दंष्ट्रं दीर्घघ्राणं प्रभोज्वलम् । नागान् प्रति मुमोचायं वैनतेयं जनार्दनः ॥ १०३ ॥ विलोक्य गारुडं बाणं विष्णुमुक्तं गतप्रभाः । विहाय वैष्णवीं सेनां दुद्रुवुस्ते भुजंगमाः ॥ १०४ ॥ ततो रविसमानेन चक्रेण स्फुरितत्विषा । शिशुपालशिरोऽनेन विष्णुमुक्तेन खण्डितम् ॥ १०५ ॥ अत्रान्तरे बलेनापि बद्धा तौ नागपाशकैः । आनीतौ च स्वसामीप्यं बलिनौ भीष्म-रुक्मिणौ ॥१०६ ॥ शिशुपाले हते भीष्मे तत्पुत्रेऽपि धृते सति । स्थितं मृतं भटैः शूरैर्भीरुभिश्च पलायितम् ॥ ततो वैतालिका वंशं जयवृत्तं यशोऽमलम् । पेठुर्नारायणस्योच्चैः खनादापूरिताम्बराः ॥ शिशुपालं हतं दृष्ट्वा धृतं भीष्मं च रुक्मिणम् । परितोषं परिप्राप रुक्मिणी नारदोऽपि च ततस्तौ पञ्चकं श्रव्यं पूर्यमाणौ रणाजिरात् । नारायण - बलौ शीघ्रं निर्गतौ हरिविक्रमौ ॥ 1. अथ तौ रथमारूढौ रुक्मिणीसहितौ तदा । सैन्यसागरमध्यस्थौ तोषकण्टकिताङ्गकौ ॥ तूर्यशङ्खनिनादेन जयशब्देन बन्दिनाम् । बधिरीकृतसर्वाशं वैजयन्तीविराजितम् ॥ ११२ ॥ वितानवस्त्रसंघातैः कृतशोभां समन्ततः । सपौरां द्वारिकां कान्तां प्रविष्टौ बल - केशव ॥ ११३ ॥ शोभने दिननक्षत्रे योगे च रजनीपतौ । रुक्मिणीमुपयेमेऽसौ वासुदेवः समङ्गलम् ॥ ११४॥ रुक्मिणी जिनधर्मेण विहितेन पुराभवे । याता' विष्णोर्महादेवी प्राणेभ्योऽपि गरीयसी ॥ ११५ ॥ is रूपयौवनलावण्यविलासादिसमेतया । रुक्मिणीप्रीतिकारिण्या वीणाकोकिलनादया ॥ वासुदेवः प्रभुंजानो भोगान् भोगीन्द्रसंनिभान् । संतिष्ठते दिवानक्तं शच्येव दिवि वासवः ॥ ११७ ॥ * रूपिण्या सह संपर्कं विष्णुः प्राप्य मनोरमम् । सत्यभामां सुरूपां हि मनसाऽपि न पश्यति ॥११८॥ भीष्मोऽपि रुक्मिणा सार्धं प्राप्य सन्मानमुत्तमम् । हरितः प्रययौ शीघ्रं कुण्डिनाख्यपुरं मुदा ॥ ११९॥ आपृच्छ्य नारदो विष्णुं बलभद्रं च कौतुकात् । सत्यभामागृहं रम्यं जगाम हसितेच्छया ॥ १२० ॥ 20 सत्याऽपि नारदं दृष्ट्वा समुत्थाय प्रयत्नतः । प्रददौ विष्टरं भक्त्या नारदाय प्रशान्तधीः ॥ १२१ ॥ रुक्मिणीप्रेषणं भद्रे मत्प्रसादेन कुर्वती । सांप्रतं तिष्ठ पापिष्ठे चिरकालं खले भुवि ॥ १२२ ॥ एवं निगद्य तां हास्यात् कृत्वा प्रणयनं तथा । नारदः प्राययौ तूर्यं संतुष्टः स्वमनीषितम् ॥ १२३॥ अथ सा रुक्मिणी नत्वा सर्वसत्त्वहितं गुरुम् । संयमश्रीसमीपे च प्रवत्राज मनखिनी ॥ १२४ ॥ बङ्खा तीर्थंकरं गोत्रं तपः शुद्धं विधाय च । रुक्मिणी स्त्रीत्वमादाय जातो दिवि सुरो महान् ॥ १२५ ॥ 25 देवश्च्युत्वा भुवं प्राप्य तपः कृत्वाऽयमुत्तरम् । निहत्याशेषकर्माणि मोक्षं यास्यति नीरजाः ॥१२६॥ ॥ इति श्रीलक्ष्मीमती समाधिगुप्तमुनिजुगुप्साफलसंजातकुष्ठमरणगर्दभीगन्धशूकरी वारद्वय शुनीधीवरीसमाधिगुप्तधर्मश्रवणक्षुल्लिकाव्रतग्रहणाच्युतेन्द्रस्त्री पौलोमी रुक्मिणीतपश्चरणदेवसंभवधरणी मनुष्यागमनतप
११६ ॥
30
5
श्चरणमोक्षगमनसंप्रापणलक्ष्मीमतीकथानकमिदम् ॥ १०८ ॥ '
Jain Education International
*
1 पफज त्रिकलमिदम्. 2 प समङ्गले. 3 [ जाता ]. put No. 108.
१०७ ॥
१०८ ॥
१०९ ॥
For Private & Personal Use Only
११० ॥
१११ ॥
4 युगलमिदम्. 5 All the Mss.
www.jainelibrary.org