________________
२७९
-१०८. १०१]
लक्ष्मीमतीकथानकम् निशम्य तद्वचो बाला तद्रूपहृतलोचना । आरुरोह कराकृष्टा तद्विमानं मनस्विनी ॥ ७१ ॥ अत्रान्तरे हरिः प्राह तज्जनानुरवासिनः' । तोषपूरितचेतस्को शिशुपालादिकानरम् ॥ ७२ ॥ वसुदेवसुतेनामा बलभद्रेण रुक्मिणी । नीतेयं वासुदेवेन समागच्छन्त भो जनाः ॥ ७३ ॥ एवमुक्त्वा समापूर्य पाञ्चजन्यं कलस्वनम् । आदाय रुक्मिणी विष्णुर्ययौ द्वारवतीं प्रति ॥ ७४॥ निशम्य तद्वचः प्रौढं पाञ्चजन्यध्वनि कलम् । भीष्मो रुक्मी क्रुधं पाप शिशुपालोऽपि तत्पतिः ॥७॥ गण्डस्थलात् स्खलद्दानकर्दमीकृतभूतलैः । महायोधसमारूढेर्नगोत्तुङ्गैः करेणुभिः ॥ ७६ ॥ मनः पवनसंवेगैः कर्णचामरवीजितैः । अश्ववारसमारूढ़ः स्थूरीपृष्ठैः कलखनैः ॥ ७७॥ तुरङ्गमसमायुक्तैः केतुमालाविराजितैः । विचित्रमणिसंनद्धैरष्टापदमयै स्थैः ॥ ७८॥ चापमुद्गरकुन्तासिपाशचक्रादिपाणिभिः । भटैर्यमभटाकारैर्बद्धसायकधेनुकैः ॥ ७९ ॥ एभिः समं तदा क्रुद्धः कृताकूपारनिस्वनैः। भीष्मोऽयं रुक्मिणा सार्धं शिशुपालेन निर्ययौ ॥ ८०॥ ॥ दृष्ट्वा पितृबलं प्राप्तं पूरितावनिमण्डलम् । जगाद रुक्मिणी कान्तं बाष्पाकुलितलोचना ॥ ८१ ॥ मत्कृते संक्षयं प्राप्तो जीवितस्य जनार्दन । किं करोम्यधुना पापा पुण्येन परिवर्जिता ॥ ८२॥ अस्मादुत्तिष्ठ याहि त्वं कुतोऽपि बलसंगतः । एतद्बहुबलं प्राप्त मत्तातस्य धवस्य च ॥ ८३॥" रुक्मिण्या वचनं श्रुत्वा भयसंत्रस्तचेतसः । बभाणेति प्रियां विष्णुः कोपारुणनिरीक्षणः ॥ ८४ ॥ पश्य पश्य प्रिये शक्तिं मदीयामपि मुग्धिके । मां भीतिभेदिनं प्राप्य किं भयं यासि कातरे ॥८५॥ 15 एवं निगद्य तामेष करस्थां वज्रमुद्रिकाम् । भस्मसाद्भावमानिन्ये पाणिद्वयविमर्दनात् ॥ ८६ ॥ धनुर्गुणविमुक्तेन शरेणैकेन वेगिना । भेदं च सप्ततालानां चकार युगपद्धरिः ॥ ८७॥ दृष्ट्वाऽस्य शक्तिसामर्थ्य रुक्मिणी प्रीतमानसा । जगादेमं महाशक्तिं वचसाश्चर्यमीयुषा ॥ ८८॥ पितरं भ्रातरं हित्वा मम नाथ परिस्फुटम् । शिशुपालादिसैन्यस्य कुरु त्वं विनिपातनम् ॥ ८९ ॥ आकर्ण्य रुक्मिणीवाक्यं हरिविक्रमशालिना । प्रतिपन्नं तदा सर्वं हरिणा तंबलेन च ॥ ९०॥ 20 एवं प्रवर्तिते यावत् तदालापः परस्परम् । तावत् परबलं प्राप्तं समुद्रसमविम्रमम् ॥ ९१ ॥ दृष्ट्वा बहुबलं प्राप्तं स्वसमीपं जनार्दनः । आश्वास्य रुक्मिणी भीतां क्रोधारक्तनिरीक्षणः ॥ ९२ ॥ विमानमम्बरे कृत्वा रुक्मिणी नारदान्विताम् । सबलो रथमारुह्य विमानाद् भुवमाययौ ॥९३॥ विलोक्य रथमारूढं शिशुपालो हरिं पुरः । बलभद्रं च भीष्मोऽरं सपुत्रः प्राप कोपतः ॥ ९४ ॥ दृष्ट्वा पुरःस्थितं विष्णुं शिशुपालो जगावमुम् । भीष्मोऽपि बलभद्रं च कवचार्चितविग्रहम् ॥ ९५॥ 25 रेरे खल दुराचार रुक्मिणीहरणप्रिय । शूरश्चन्मत्समं युद्धं कुरु भीरुः पलायनम् ॥ ९६ ॥ तद्वाक्यतो रुषं प्राप्य निजगाद हरिस्तकम् । भीष्मं बलोऽपि मुञ्चास्त्रं यदि शक्तिर्भवेत् तव ॥९७॥ एवमुक्तोऽमुना कोपात् तामसास्त्रं स मुक्तवान् । तेन मूढीकृतं सर्व विष्णुसैन्यं गतप्रभम् ॥ ९८॥ ततः कोपेन तेनाशु केशवेन बलेन च । उद्योतारेण दीप्तेन तामसास्त्रं निराकृतम् ॥ ९९ ॥ पिङ्गीकृतनभोभागं ज्वालोद्योतितपुष्करम् । तत्सन्मुखं मुमोचायं दहनास्त्रं सुधीरधीः ॥ १०० ॥3॥ विष्णुना बलभद्रेण शस्त्रं तद्दहनात्मकम् । हतं स्वकीयबाणेन वारुणाख्येन वेगतः ॥ १०१॥
...- 1 [तजनान् पुर"]. 2 ज पाञ्चजन्यं. 3 पफज चतु कुलकमिदम्. 4 [संक्षयः]. 5 पफज त्रिकलमिदम्. 6 पफज चतु:कुलकमिदम्. 7 पफज युगलमिदम्. 8 पफज युगलमिदम्. 9 पफज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org