________________
૨૩૯૮
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १०८, ३९
स्वमुखं दर्पणे सत्या पश्यन्ती विधुनिर्मले । ददर्श नारदं नासौ पुरः स्थितमपि स्फुटम् ॥ ३९ ॥ ततो निर्गत्य हात् कोपलोहितलोचनः । नारदः सहसा रुष्टो दध्याविति स चेतसि ॥ ४० ॥ निहन्मि किं खलामेतां दृषद्यास्फालयामि किम् । किं वा द्वीपान्तरे पापां क्षिपामि खलचेष्टिताम् ॥४१॥ एवं कृते सति क्षिप्रं विष्णुः शोकेन तप्यते । चिन्तयाम्यपरं किंचिदेतस्याः शोककारणम् ॥ ४२ ॥ योषितामपरं दुःखं विद्यते न धरातले । सपत्नीं रूपिणीं हित्वा सर्वावयवसुन्दरीम् ॥ ४३ ॥ इदं संचिन्त्य विश्रब्धो नारदः प्रीतमानसः । जगाम रुक्मिणीगेहं जनकस्वरसंगतम् ॥ ४४ ॥ सुखासनोपविष्टः सन् विनतः कन्यया तराम् । विष्णुचित्रपटं रम्यं रुक्मिण्याः प्रददर्श सः ॥ ४५ ॥ विलोक्य तत्पटं कन्या विचित्राकारराजितम् । मुमूर्च्छ सहसा तत्र तद्रूपहृतमानसा ॥ ४६ ॥ श्रीखण्डोदकसेन तथा व्यजनवायुना । रुक्मिणी बोधमासाद्य नारदं निजगाविति ॥ ४७ ॥ रूपराजितदेहस्य मच्चित्तानुगतस्य नुः । पट्टोऽयं कस्य मे ब्रूहि कार्यमेतन्महामुने ॥ ४८ ॥ निशम्य नारदो वाक्यं रुक्मिण्याः श्रीतमानसः । जगाद सरसं कन्यां पुष्पिकासहितामिति ॥ ४९ ॥ सुराष्ट्रविषये कान्ते पुरी द्वारमती परा । अस्यां बभूव भूपालो विष्णुर्विजितशात्रवः ॥ ५० ॥ रूपेण मन्मथो भद्रे कल्पवृक्षं स्वदानतः । गम्भीरत्वेन रत्नेशं विभवेन पुरन्दरम् ॥ ५१ ॥ स्थिरत्वेन नगाधीशं बलेन च समीरणम् । धिया सुरगुरुं नीत्या शुक्रं वा यो जयेद् भुवि ॥ ५२ ॥ 15 यादवाम्बरचन्द्रस्य करोद्योतितखावनेः । पटोऽयं राजते तन्वि वासुदेवस्य तस्य सः ॥ ५३ ॥ नारदीयं वचः श्रुत्वा तोषपूरितमानसा । बभाण रुक्मिणी साधुं जटामुकुटधारिणम् ॥ ५४ ॥ यास्यामि सितपञ्चम्यां माघमासस्य नारद । चन्दनं बलिमादाय विनन्तुं माधवीलताम् ॥ ५५ ॥ मच्चित्तलोचनानन्दमानयात्र महामुने । आदाय मां प्रयात्वेष संगमोऽयं मम स्फुटम् ॥ ५६ ॥ रुक्मिणीवाक्यमाकर्ण्य विश्रब्धीकृत्य तां पुनः । जगाम नारदः शीघ्रं विष्णुपार्श्वं मुदान्वितः ॥५७॥ विलोक्य नारदं विष्णुः सहसोत्थाय विष्टरात् । शोभनासनगं कृत्वा ननामैतं बलान्वितः ॥ ५८ ॥ अन्योन्यकुशलं पृष्ट्वा सभामध्ये त्रयोऽत्र ते । तस्थुर्मुदितचेतस्का बल - केशव - नारदाः ॥ ५९ ॥ क्षणमेकं ततः स्थित्वा नारदो रुक्मिणीपटम् । विष्णोः प्रदर्शयामास सजीवमिव सत्वरम् ॥६०॥ विलोक्य तत्परं सद्यो विष्णुर्मूर्च्छामुपागतः । भूयोऽपि चेतनां प्राप्तः सिक्तश्चन्दनवारिणा ॥ ६१ ॥ स्वस्थीभूय पुनः प्राह नारदं विस्मितो हरिः । पटस्था कस्य कन्येयं रूपिणी वद मेऽधुना ॥ ६२ ॥ विष्णुवाक्यं समाकर्ण्य नारदो निजगावमुम् । भीष्मकन्यामिमां विद्धि रुक्मिणीं भुवि विश्रुताम् ॥६३॥ कुण्डिकाख्यपुरं राजन् यदि त्वं यासि सत्वरम् । ततोऽहं ते प्रदास्यामि निश्चितं रुक्मिणीमिमाम् ॥ ६४ अवद्वारवचः श्रुत्वा बभाणेमं हरिः पुनः । शीघ्रं त्रयोऽपि गच्छामस्तत्समीपं महामुने ॥ ६५ ॥ योऽपि च समारुह्य विमानं कामगं तदा । तदुद्यानवनं प्रापुर्नानानोकुहसंकुलम् ॥ ६६ ॥ अथ सा रुक्मिणी प्राप तदुद्यानं सखीवृता । माधवीमर्चितुं व्याजान्नानायुधकरैर्नरैः ॥ 30 हरिर्ददर्श तां बालां वनदेवीमिवोर्वशीम् । कन्दर्पमिव तं साऽपि तोषमाप परस्परम् ॥ ६८ ॥ वासुदेवो विलोक्येमां तदुद्यानवने स्थिताम् । बभाण हृष्टचेतस्को वचसा विकसन्मुखः ॥ ६९ ॥ मच्चित्तलोचनानन्दे नीलोत्पलदलाम्बके । तूर्णमेहि विमानं मे पीनोन्नतघनस्तनि ॥ ७० ॥”
६७ ॥
10
20
5
25
1 पफज चतुः कुलकमिदम्. 2 पफज युगलमिदम् 3 [ मन्मथं ]. 4 पफज चतुःकुलकमिदम्. 5 ज मद्य. 6 [ संगरोsयं ]. 7 पफज त्रिकलमिदम्. 8 ज नारदं. 9 पफज युगलमिदम्. 10 पफज युगलमिदम्. 11 [ अवधारवचः ] 12 पफज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org