________________
-१०८. ३८ ]
लक्ष्मीमतीकथानकम्
२७७
११ ॥
१२ ॥
२१ ॥
विलोक्य सोमदेवोऽमुं गृहं भिक्षार्थमागतम् । अभ्युत्थानं विधायासौ वन्दनां च जगौ प्रियाम् ॥६॥ साधोरस्य सतो भिक्षां देहि त्वं भक्तितः प्रिये । एवमुक्त्वा बहिर्गेहान्निर्जगामायमादरात् ॥ ७ ॥ मण्डयन्ती निजं वक्रं गृहीतमुकरा सका । मुनिबिम्बं समालोक्य संक्रान्तं मणिदर्पणे ॥ ८ ॥ आक्रोशनं विधायास्य तदा निष्ठुरवाक्यतः । द्वारं विहाय गेहस्य संतस्थे रूपगर्विता ॥ ९ ॥ * तेन दोषानुबन्धेन सप्तमे दिवसे सका । गृहीताऽम्बरकुष्ठेन धाटिता स्वजनैर्गृहात् ॥ १० ॥ ज्वलनेऽङ्गं विधायासौ दुर्गन्धामोदिताशकम् । लक्ष्मीमती ममाराशु ज्वालोद्योतितपुष्करे ॥ ततो मृता सती सा च लक्ष्मीग्रामे पुरोदिते । गृहे गङ्गभटस्यास्य रजकस्य कुधीमतः ॥ जाता जीर्णखरीगर्भे गर्दभी दुर्बलाङ्गिका । दुग्धमप्राप्नुवन्तीयं ममार चिरकालतः ॥ १३ ॥ अस्मिन्नेव च सा ग्रामे गन्धोपपदसूकरी । जाता भूयो मृतिं प्राप्य शुनी पापगरीयसी ॥ ततः कालं परिप्राप्य जातेयं कुक्करी' पुनः । पर्यटन्ती वने दग्धा महादावाग्निना मृता ॥ लाटदेशसमुद्भूतभृगुकच्छपुरान्तिके । बभूवायं वलग्रामो नर्मदातीरसंभवः ॥ १६ ॥ निविसिन्दो बभूवात्र धीवरः पापकारकः । मण्डूकी तत्प्रिया क्रूरा कठोरध्वनिनादिनी ॥ १७ ॥ दुर्बला दुर्भगा रूपा दुर्गन्धा कारिकाभिधा । कृष्णवर्णा बृहद्दन्ता बभूव तनयाऽनयोः ॥ १८ ॥ दुर्गन्धां तां समालोक्य पितृभ्यां स्नेहवर्जिताम् । विधाय नर्मदातीरे कुटिकां स्थापिता सका ॥ १९ ॥ नावा बहुजनं तत्र मूल्येनोत्तारयत्यसौ । संतिष्ठते महादुःखाद्दुर्गन्धापघनान्विता ॥ २० ॥ अन्यदा विहरन् क्वापि तदानीं परमोदयः । मुनिः समाधिगुप्तोऽयं संप्राप नर्मदातटम् ॥ निरावरणदेहं तं शीतकाले शिलातले । विलोक्य तत्र सा साधुं बभूव कृपयार्द्रधीः ॥ २२ ॥ शीतवाताभिभूतस्य हिमदग्धतनोरपि । ददौ तृणानि सा हृष्टा पार्श्वयोरुभयोरपि ॥ २३ ॥ सप्रणामं मुनिं प्राप्य प्रभातसमये सका । जैनं धर्ममुपश्रुत्य पप्रच्छेदं कृतानतिः ॥ २४ ॥ अन्यजन्मनि मे नाथ दृष्टो भवान् क्वचित्पुनः । कृत्वा दयां प्रसादं च कथयैतन्मम प्रभो ॥ २५ ॥ | 20 धीव वाक्यमाकर्ण्य जगादास्या महामुनिः । लक्ष्मीमत्यादिकं जन्म लक्ष्मीग्रामादिसंभवम् ॥२६॥ निजं भवान्तरं श्रुत्वा लक्ष्मीमत्यादिकं मुनेः । जातिस्मरत्वमासाद्य संजाता क्षुल्लिका सका ॥२७॥ धर्मश्रियोऽर्यिकाया हि धर्मविन्यस्तचेतसः । ततः समाधिगुप्तेन क्षुल्लिकेयं समर्पिता ॥ २८ ॥ विहरन्ती सका प्राप महत्तरिकयान्विता । ग्रामं सोपारयं नाम मगधाविषयोद्भवम् ॥ २९ ॥ ततो धर्मश्रिया सा च जिनधर्मपरायणा । नापि श्राविकायाश्च प्रयत्नेन समर्पिता ॥ ३० ॥ तच्छ्राविकामतात् साध्वी देवकर्म प्रकुर्वती । तिष्ठति क्षुल्लिका जैनमन्दिरे धर्मतत्परा ॥ ३१ ॥ एकान्तरोपवासेन शिथिलीभूतविग्रहा । सका द्वादशवर्षाणि चकार विविधं तपः ॥ ३२ ॥ सल्लेखनां विधायाशु सनिदानं मृतिं च सा । जाताऽच्युतेन्द्र पौलोमी कृततद्भोगसन्मतिः° ॥ ३३ ॥ पञ्चाशत्पञ्चयुक्तानि पल्यान्यत्र विलासिना । अच्युतेन्द्रेण सा साकं बुभुजे भोगमुत्तमम् ॥ ३४ ॥ अत्रैव भरतक्षेत्रे वैदर्भविषये सति । कुण्डिनाख्यं पुरं रम्यं बभूव परमोदयम् ॥ ३५ ॥ अत्रैव पत्तने दिव्ये भैषमो नाम भूपतिः । बभूव तन्महादेवी चारुरूपा यशोमतिः ॥ ३६ ॥ अच्युतात् सा समुत्तीर्य देवी लक्ष्मीमती चरी । रुक्मिनो ह्यनुजा जाता रुक्मिणी तनयाऽनयोः ॥ ३७॥ अन्यदा नारदः प्राप सत्यभामागृहं परम् । कनत्कनकसद्भित्तिकाचकुट्टिमभूतलम् ॥ ३८ ॥
1 पफज युगलमिदम्. 2 [° मुकुरा ]. 3 [ पिधाय ]. 4 पफज युगलमिदम् 5 पफज युगलमिदम्. 6 [ कुक्कुरी ]. 7 पफज युगलमिदम्. 8 ज 'मता साध्वी. 9 ज कृते तद्भोग.
Jain Education International
१४
१५ ॥
For Private & Personal Use Only
15
25
30
www.jainelibrary.org