________________
२७६
हरिषेणाचार्यकृते बृहत्कथाकोशे [१०६. २७२वासुदेव-बलाभ्यां हि हतः कंसो महाहवे । संसारसागरं भीमं पर्यटन् स वितिष्ठते ॥ २७२ ॥ उग्रसेनस्ततो राज्ये निजे शकोपमे तदा । स्थापितो वासुदेवेन प्रेमसंबन्धमिच्छता ॥ २७३ ॥
॥ इति श्रीउग्रसेनवधनिमित्तं वसिष्ठमुनिनिदानकरण
___कथानकमिदम् ॥ १०६ ॥
१०७. सागरदत्तकथानकम् । अवन्तीविषये चासीत् श्रीमदुज्जयिनी पुरी । श्रेष्ठी सागरदत्तोऽस्यां प्रिया तन्नामसंयुता ॥१॥ दारिद्रोपहतः सोऽयं सिंहलद्वीपमागतः । ततोऽनर्घ्यमणिं प्राप्य निवृत्तः स्वपुरं प्रति ॥ २॥ स्वकीयं देशमासाद्य दृष्ट्वा तत्र सरोवरम् । मुक्त्वा मणिं जलं पीत्वा विस्मृत्यासाविमं ययौ ॥३॥
तत्रैकपामरक्षेत्रं वापयंल्लाङ्गलेन सः । दृष्ट्वा तत्र मणिं दिव्यं जग्राह मतिवर्जितः ॥४॥ 10 चूर्णयित्वा मणिं मूढः पाषाणेन स पामरः । बबन्ध तद्गुणं स्तोत्रे मतिवर्जितमानसः ॥५॥
अत्रान्तरे वणिक प्राप्तस्तं प्रदेशं त्वरान्वितः । विलोक्य तं नरं तत्र पप्रच्छामुमिदं पुनः ॥६॥ दृष्टो मणिस्त्वया क्वापि क्षेत्रं वापयता द्रुतम् । यदि दृष्टस्ततो ब्रूहि सांप्रतं मम पामरः ॥७॥ श्रुत्वा तद्वचनं सोऽपि जगादैनं वणिक्पतिम् । दृष्टो मयाऽत्र पाषाणस्तत्र बद्धः स्फुरत्प्रभः ॥८॥
चूर्णयित्वा तकं शीघ्रं पाषाणेन मया पुनः । तत्सूत्रं सांप्रतं भ्रातस्तोत्रबद्धं वितिष्ठते ॥९॥ 15 विलोक्य तद्गुणं श्रेष्ठी ज्ञात्वेमं पुनरब्रवीत् । चूर्णितः स मणियंत्र तं प्रदेशं प्रदर्शय ॥१०॥ तद्वाक्यतः पुनस्तेन स प्रदेशः प्रदर्शितः । स्फुरत्प्रभं च तत्खण्डं ददावस्मै विचेतसे ॥११॥ यदि द्रव्येण ते कार्य नर जातु प्रजायते । मणिखण्डमिदं देहि मूल्येन विशिखान्तरे ॥ १२ ॥ विक्रयं कुर्वता तस्य त्वयाऽवश्यं धनेन च । शपथश्रावितायास्मै देयं तद्राहकाय वै ॥ १३ ॥
एतस्य तद्भवेन्मूल्यं समस्तं वसुधातले । शपथश्रावितस्तत्त्वं देहि तस्मै प्रयत्नतः ॥ १४ ॥ 20 उपदेशमिदं दत्त्वा पामराय स वाणिजः । शेषं चूर्णं समादाय तन्मणेः प्रययौ पुनः ॥१५॥
तेनापि तन्मणेः खण्डं पूर्वोक्तविधिना द्रुतम् । दर्शितं सर्वलोकस्य तदानीं विशिखान्तरे ॥ १६॥ न परः कोऽपि तस्या कृत्वा गृह्णाति तन्नरः । दत्त्वाऽस्मै वाञ्छितं द्रव्यं गृहीतं तन्नरेशिना ॥१७॥
इति श्रीसागरदत्तश्रेष्ठिकथानकमिदम् ॥ १०७ ॥
१०८. लक्ष्मीमतीकथानकम् । 11 मगधाविषये रम्ये लक्ष्मीग्रामो महाधनः । अभवत् सोमदत्तोऽत्र माहनो वेदपारगः ॥१॥
लक्ष्मीमती प्रिया चास्य रूपयौवनगर्विता । आत्मानं मण्डयन्तीयं सर्वकाले वितिष्ठते ॥ २॥ अन्यदा ब्राह्मणेनामा तिष्ठन्त्या निजमन्दिरे । लक्ष्मीमत्या विलासिन्या मानिन्या मदनिर्भरम् ॥३॥ पक्षोपवाससंयुक्तो मध्याह्नसमये सति । मुनिः समाधिगुप्ताख्यो मन्दमन्दगतिक्रियः॥४॥ गृहागृहान्तरं गच्छन् भिक्षार्थ कृशविग्रहः । सोमदेवगृहं दिव्यं विवेशानुक्रमेण सः ॥५॥ ____ 1 पफ read इति श्रीहरिषेणाचार्यकृते श्रीमद् बृहत्कथाकोशे उग्रसेन. 2 पफ add संपूर्णम्. 3 [तत्रैकः पामरः क्षेत्रं]. 4 [तोत्रे]. 5 [पामर]. 6 पफज चतुःकुलकमिदम्. 7 All the Mss. put the No. 106. 8 पफज त्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org