________________
-१०६. २७१] उग्रसेनवसिष्ठकथानकम्
२७५ दारकां मातृदेवीनां वसुदेवो निधाय सः । नन्दभार्या जगादेमां यशोदाख्यां मुदान्वितः ॥२४०॥ अस्मभ्यं कोपमासाद्य किं यासि त्वरितं मुधा । आगच्छ दारकं शीघ्रं ते यच्छामि मनोरमम् ॥२४१॥ दारकं शोभनाकारं महापुरुषलक्षणम् । गृहीत्वा दत्तमस्माभिर्याहि त्वं निजमन्दिरम् ॥ २४२ ॥ तद्वाक्यतो यशोदाऽपि विधाय विनिवर्तनम् । आदाय दारकं तुष्टा जगाम निजमन्दिरम् ॥२४३॥ यशोदायत्नतो बाढं स्तनपानादियोगतः । तगृहे वृद्धिमायाति तदानीं बालचन्द्रमाः ॥ २४४ ॥ वसुदेवोऽपि तां बालामादाय निजपाणिना । मुदा समर्पयामास देवक्याः प्राप्य मन्दिरम् ॥२४५॥ एवं कृतेऽमुना तत्र प्रभातसमये सति । देवक्या दारिका जाता कंसेन विदिता सका ॥ २४६॥ विधाय चिपिटं घ्राणं देवक्या कंसभीतितः । वृद्धिं नीता सका कन्या रूपराजितविग्रहा ॥२४७॥ ततो यौवनमासाद्य जिनधर्मेण भाविता । सुव्रतान्ते प्रवत्राज बाला हित्वा नृपाङ्गजान् ॥ २४८॥ संघेन महता युक्ता विहरन्ती पुरादिकम् । विन्ध्यपर्वतसामीप्यं संप्रापत् सा तपस्विनी ॥२४९॥ 10 भीमभिल्लान् समालोक्य विन्ध्यमध्ये भयाकुला । कायोत्सर्गेण सा तस्थौ संघोऽपि पुरतो गतः॥२५०॥ दृष्ट्वा तामार्यिकां तत्र कायोत्सर्गव्यवस्थिताम् । देवतामिति ते नत्वा वदन्तीदं मलिम्लुचः ॥२५१॥ देवते यदि तं सार्थ कनकादिसमन्वितम् । लुण्टयित्वा पुनः शीघ्रमागच्छामस्त्वदन्तिकम् ॥२५२॥ ततस्ते महती पूजां करिष्यामः सुचेतसः । एवं निगद्य तां नत्वा जग्मुर्मुदितचेतसः ॥ २५३ ॥ काकतालीययोगेन हत्वा सार्थ धनादिकम् । प्राप्य जग्मुः प्रदेशं तं दस्यवः प्रीतचेतसः ॥२५४॥ 15 दृष्ट्वा तामार्यिकां तत्र मृतां सिंहेनं चर्चिताम् । तदङ्गुलित्रयं भक्त्या स्थापयित्वोर्ध्वसंगतम् ॥२५५॥ ततः कोलाहलं कृत्वा नर्तनं चापि तत्पुरः । तस्करा महतीं पूजां चक्रुर्विनतमस्तकाः ॥ २५६ ॥ स्थापयित्वा यतो दुर्गे विन्ध्ये भक्तिपरायणैः। दस्युभिः पूजिता सा च नता पुष्पकदम्बकैः॥२५७॥ ततः प्रभृति सा जाता दुर्गादेवी धरातले । नामद्वयसमायुक्ता तथेयं विन्ध्यवासिनी ॥ २५८ ॥ लोके प्रसिद्धिमायातं तत्तीर्थ हिंसनोद्यतम् । तथाऽपि धर्मसंबन्धं कृतपर्वतनामकम् ॥ २५९ ॥ 20 अथ कृष्णोऽपि यातोऽलं वृद्धिं नन्दस्य गोकुले । कंसगेहे समुत्पन्नः समुत्पातो महांस्तदा ॥२६०॥ दृष्ट्वेमं भीषणं कंसः पप्रच्छ सहसाऽऽकुलः । सत्यं शकुनिशर्माणं तदा नैमित्तिकं सभीः॥२६१॥ महे केन कार्येण चोत्पातो जायते महान् । नैमित्तिक समालोक्य कथयाशु मम स्फुटम् ॥२६२॥ कंसोदितं समाकर्ण्य जगौ नैमित्तिकोऽपि तम् । तव शत्रुः समुत्पन्नो नन्दगोष्ठे स तिष्ठति ॥२६३॥ नैमित्तिकोदितं श्रुत्वा संदेहपरिवर्जितम् । अन्यजन्मनि याः सिद्धास्ता देवीातवानसौ ॥२६४॥ 23 ध्यातमात्रास्ततः सर्वा भयवेपितविग्रहाः । युगपत् तं समायाताः किं कर्तव्यसमुद्यताः ॥ २६५॥ शिरःस्थितकरद्वन्द्वा विकसन्मुखपङ्कजाः । दृष्ट्वा पुरःस्थिता देवीः कंसोऽपि निजगौ तदा ॥ २६६॥ नन्दगोष्ठे समुत्पन्नो मद्वैरी योऽधितिष्ठते । मच्छिद्रान्वेषिणस्तस्य कुरुताशु निपातनम् ॥ २६७ ॥ पूतना काकसंयुक्ता तथान्या यमलार्जुना । शकटं च चतस्रोऽपि कंसस्य पुरतः स्थिताः ॥२६८॥ कंसादेशं परिप्राप्य ययुः परमदेवताः । बालभावे स्थितं कृष्णं निहन्तुं नन्दगोकुले ॥ २६९ ॥ 30 वृषभोऽश्वस्तरां दृष्टो द्यूतकारा भुजंगमः । तथा चाणूरमल्लोऽपि कंसस्यैते पुरः स्थिताः ॥ २७० ॥ एते पञ्चापि संप्राप्य कंसादेशेन सत्वराः । युवत्वे वासुदेवेन रणं कर्तुं समुद्यताः ॥ २७१ ॥
.... 1 ज तामर्थिकां. 2 पफ युग्मम् , ज युगलम्. 3 [ चर्विताम् ]. 4 पफ युग्मम् , ज युगलम्. 5 पफ युग्मम् , ज युगलम्. 6 पफ तत्र. 7 प्रफ युग्ममिदम् , ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org