________________
२७४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१०६. २०७ततः कंसोऽपि संप्राप्य वसुदेवाद् वरं परम् । जगाम स्वगृहं मन्दं तोषकण्टकिताङ्गकः॥२०७॥ वसुदेवः समाकण्ये मुनीन्द्रादेशमुन्नतम् । चक्रे तद्दर्शनोत्कण्ठं प्रष्टुं तत्कारणं हृदि ॥ २०८॥ आबालत्वाद् विलोक्याथ निष्ठुरत्वं स्वचेतसि । पुरलोको निनन्देति' कंसस्य वरयाचनम् ॥२०९॥
अतिमुक्तकसामीप्यं देवक्या सह सादरः । परिप्राप्य तमप्राक्षीन्मुनिमेतत् प्रयोजनम् ॥ २१० ॥ 5 भगवन् मत्सुतो भावी कः कंसस्य बलीयसः । करिष्यति वधं पूत जरासन्धस्य च स्फुटम् ॥२११॥ पृथिवीमण्डलं तस्य नगराकरमण्डितम् । पालयिष्यति को नाथ कथयैतन्मम प्रभो ॥ २१२॥ तत्कालेऽस्य महादेवी वनदेवीव देवकी । आम्रशाखां समालम्ब्य सफलां सा व्यवस्थिता ॥२१३॥ तद्धस्तमुक्तशाखायास्तदाशु युगलत्रयम् । ऊर्ध्वं जगाम भूमौ च पपातैकं वराम्रकम् ॥ २१४ ॥
भूयोऽप्यूर्वं जगामैकमष्टमं चाम्रकं द्रुतम् । विलोक्यैतान्यथाम्राणि वसुदेवं जगौ मुनिः ॥२१५॥ 10 अष्टपुत्रा भविष्यन्ति देवक्या नरकुञ्जराः । तन्मध्ये प्रथमा षटुं मोक्षं यास्यन्ति निश्चितम् ॥२१६॥
सप्तमो यः सुतो भावी त्वदीयः परमोदयः। नवमो वासुदेवोऽयं महापौरुषसंगतः ॥ २१७ ॥ कंसं महाहवे हत्वा जरासन्धं च दुर्मदम् । त्रिखण्डमेदिनीनाथो नरनाथ भविष्यति ॥ २१८ ॥ योऽष्टमो नन्दनो भावी नरेन्द्र तव शुद्धधीः । निहत्याशेषकर्माणि सोऽपि मोक्षं गमिष्यति ॥२१९॥
श्रुत्वाऽतिमौक्तिकं वाक्यं सत्यभूतमपि क्षितौ । तथाऽपि तौ तरां मूढी चिन्तामेतामुपागतौ ॥२२०॥ 15 आवयोर्नन्दनः कोऽपि कंसं घातिष्यति बली । मुनिं नत्वा तकौ तुष्टौ जग्मतुर्निजमन्दिरम् ॥२२१॥
अतिमुक्तकनाथोऽपि कुर्वाणो विविधं तपः । स्वमनोवाञ्छितं देशं जगाम प्रीतमानसः ॥ २२२ ॥ अत्रान्तरे निजं गेहं कंसेन सह सादरात् । आनीता देवकी तत्र प्रसूता दारकद्वयम् ॥ २२३ ॥ भद्रिकाख्ये पुरे श्रेष्ठी सुप्रतिष्ठो बभूव सः । अयलाऽस्य प्रिया चावीं पीनोन्नतघनस्तनी ॥२२४॥
अथ देवतया तस्मात् समानीय प्रयत्नतः । अयलाया मनोहारिमञ्चके निहताविमौ ॥ २२५ ॥ 20 अयलायाः समुत्पन्नं तदा पुत्रद्वयं मृतम् । नक्तमादाय तद्देव्या देवक्या हि समर्पितम् ॥ २२६॥ प्रभातसमये ज्ञातं मृतं तद्वालकद्वयम् । कंसेन मारितं हीदं शिलाभिस्ताडितं नरैः ॥ २२७ ॥ एष क्रमोऽपरस्यापि देवकीजातकस्य च । पुत्रयुग्मद्वयस्यापि ज्ञातव्यः कुशलैनरैः ॥ २२८॥ अयलावृद्धिनीतानां तत्पुत्राणां महौजसाम् । षण्णामपि च नामानि कथयामि समासतः ॥२२९॥
देवदत्तो भवेदाधस्तथाऽन्यो देवपालितः । मुनिदत्तोऽपरो ज्ञेयस्तथाऽन्यो मुनिपालितः ॥ २३०॥ 25 ज्ञेयः शत्रुघ्ननामाऽन्यो जितशत्रुस्तथापरः । एते षडपि विज्ञेया देवकीकुक्षिसंभवाः ॥ २३१ ॥ देवक्याः सप्तमः पुत्रो नक्तं जातो जनार्दनः । गृहीतो वसुदेवेन छत्रचारी हलायुधः ॥ २३२ ॥ अनेन विधिना जातोरनयो' स्नेहनिर्भरा । देवी वृषभरूपेण तत्पुरो निशि गच्छति ॥ २३३ ॥ यमुनाख्यानदीतीरं दृष्ट्वा तौ दारकान्वितौ । मुहूर्तमानं मोहस्थौ पश्यन्तौ तस्थतुर्दिशि ॥ २३४ ॥
अथ देवकिभूपालो देवक्याः प्रजनोत्सवे । धनधान्यसमाकीर्णं प्रददौ गोकुलं मुदा ॥ २३५ ॥ 30 गोकुलस्य पतिर्नन्दो यशोदा तत्प्रियाऽभवत् । रूपराजितसर्वाङ्गी पीनोन्नतकुचद्वया ॥ २३६ ॥
अन्यदा सा समादाय गन्धपुष्पादिकं बलिम् । मातृगेहं ययौ हृष्टा पुत्रयाचनतत्परा ॥ २३७॥ काकतालीययोगेन सुता लब्धा तया परा । देवतान्तं समादाय नक्तं जाता रुषान्विता ॥ २३८॥ पुरतो मातृदेवीनां विधायेमां च दारिकाम् । गर्भगेहात् सका देवी निर्ययौ नन्दनान्विता ॥२३९॥
, 1 [निनिन्देति ]. 2 पफ नगराकार. 3 पफ त्रिकलम् , ज त्रिकलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम् , ज युगलमिदम्. 6 पफ अयाला". 7 [ यातोरनयोः].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org