________________
-२०६. २०६] उग्रसेनवसिष्ठकथानकम्
२७३ यदि कलालिके नूनं त्वत्पुत्रो न भवत्ययम् । सोदरो भागिनेयो मे चोग्रसेनशरीरजः ॥ १७४ ॥ जरासन्धेन तुष्टेन दत्त्वा जीवंयशां मुदा । मथुराविषयो दत्तः कंसायाक्लिष्टतेजसे ॥ १७५ ॥ ततोऽयं मथुरां प्राप्य जित्वा जनकमाहवे । कंसोऽमुं स्थापयामास गोपुरद्वारकोपरि ॥ १७६ ॥ कोद्रवोदनसंपूर्ण शरावं हि सकांजिकम् । कंसादेशेन भुङ्क्तेऽसौ तदा बलविवर्जितम् ॥ १७७॥ दृष्ट्वापमानमीदृक्षमतिमुक्तकबालकः । दीक्षामादाय जैनेन्द्रीं तस्थौ मुदितमानसः ॥ १७८ ॥ ततः कंसेन तुष्टेन वसुदेवः स्वपत्तने । आनीतः प्रीतयुक्तेन सस्नेहं स वितिष्ठते ॥ १७९ ॥ मित्रवत्यां पुरि श्रीमान् देवकिर्नाम भूपतिः । कंसस्य सादरश्वासीत् पितृव्यः स्नेहतत्परः ॥१८०॥ बभूव तन्महादेवी धनदेवी मनःप्रिया । तत्सुता देवकी नाम रूपलावण्यसंयुता ॥ १८१ ॥ दत्ता कंसेन तुष्टन वसुदेवाय देवकी । परिणीता विधानेन तगृहे सा वितिष्ठते ॥ १८२॥ पुष्पवत्यां च देवक्यां संजातायां महोत्सवः । तजनैः कर्तुमारब्धस्तूर्यमङ्गलनिखनैः ॥ १८३॥ सुप्रतीकस्थितान्येषा नववस्त्राणि सादरम् । आदाय मस्तके स्वेन स्वकीये निजपाणिना ॥ १८४॥ कलगीतं प्रगायन्ती मुनिमोहनकारणम् । कामिनीजनमध्यस्था नटद्भिः पटहैः कलैः ॥ १८५ ॥ मधुराख्यपुरीमध्ये कृतलोकमहोत्सवे । जीवंयशा प्रनृत्यन्ती भ्राम्यति प्रीतमानसा ॥ १८६ ॥' दृष्ट्वाऽतिमुक्तकं साधु चर्यामार्गेण तत्पुरे । तदा मध्याह्नवेलायां प्रविष्टं गोचरं प्रति ॥ १८७॥ विलोक्येमं मुनिं मार्गे रूपयौवनगर्विता । हसन्तीदं जगादासौ मन्दमन्दगतिक्रिया ॥ १८८ ॥ 15 एहि देवर देवक्या ह्युत्सवो वर्तते महान् । तेन शीघ्रं परिप्राप्य मत्समं नर्तनं कुरु ॥ १८९ ॥ जीवंयशावचः श्रुत्वा तरां साधुजनोज्झितम् । अतिमुक्तकयोगीन्द्रो बभाणैतां पुरः स्थिताम् ॥१९०॥ अस्माकं नर्तनं भद्रे युज्यते न तपस्विनाम् । तेन त्वमेव संतोषान्नर्तनं कुरु बालिके ॥ १९१॥ एवमुक्ताऽपि सा तेन तथाऽपि वदतीदृशम् । नर्तनं गीतसंयुक्तं कुरु सार्धं मया मुने ॥ १९२ ॥ तद्वाक्यतोऽतितुष्टेन मुनिनाऽस्या महानयम् । शापोऽलीकतया हीनो वितीर्णो दुष्टचेतसः ॥१९३॥ 20 यत्कृते मस्तके कृत्वा वस्त्राणि विविधानि च । नर्तनं कुरुषे बाढं कलगीतं मदातुरा ॥ १९४ ।। तस्या यो नन्दनो भावी नन्दिताशेषबान्धवः। स ते भर्तुः खले नूनं करिष्यति निपातनम् ॥१९५॥ तद्वाक्यतस्तया तानि शिरोवस्त्राणि रोषतः । मस्तकात् सहसा भूमौ प्रमुक्तानि सरोदनम् ॥१९६॥ विलोक्यैतानि वस्त्राणि तन्मुक्तानि धरातले । आदेशो विहितोऽनेन द्वितीयोऽयं तपस्विना ॥१९७॥ न केवलमिमं कंसं त्वत्पतिं स हनिष्यति । त्वत्तातं च जरासन्धं त्रिखण्डाधिपतिं खले ॥१९८॥ 25 तद्वाक्यतः समादाय तानि वस्त्राणि हस्ततः । पाटयित्वा रुषा मुक्त्वा ममर्द चरणेन सा ॥१९९॥ विलोक्य तानि वस्त्राणि मर्दितानि स्वपादतः । चके तृतीयमादेशमिमं साधुः स सत्यवाक् ॥२०॥ त्वत्कुलं निःकुलं कृत्वा त्रिखण्डायामपि क्षितौ । देवकीनन्दनो राज्यं सकलं स विधास्यति ॥२०॥ अन्तरायं विधायासौ निःसृत्य नगरादरम् । उद्यानेषु तरोर्मूले सुखं तस्थौ मुनीश्वरः ॥ २०२॥ जीवंयशा निधायात्र तानि वस्त्राणि दुःखिनी । खगृहं प्राप्य कंसस्य जगौ मुनिवरोदितम् ॥२०३॥ 30 मुनिवातों समाकर्ण्य स्वकान्तापरिभाषिताम् । वसुदेवं वरं कंसो ययाचे भयविह्वलः ॥ २०४॥ वसुदेवमहाराज प्राक्तनं देहि मे वरम् । देवकी मगृहे नूनं प्रसूतिं विदधात्वरम् ॥ २०५॥ कंसवाक्यं समाकर्ण्य तत्स्वभावमजानता । प्रतिपन्नं तदा सर्व वसुदेवेन तोषिणा ॥ २०६॥
1 पफ त्रिकलम् , ज त्रिकलमिदम्. 2 पफ त्रिकलम् , ज त्रिकलमिदम्. 3 पफ युग्मम् , ज युगलमिदम्, 4 [रुष्टेण]. 5 पफ त्रिकलम् , ज त्रिकलमिदम्.
बृ० को० ३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org