________________
२७२
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १०६. १४१
१४८ ॥ १४९ ॥
१५० ॥
ततो मायाप्रपञ्चेन भूभुजा कृतदौहृदा । प्रसूता दारकं दिव्यं पूर्वाशेव दिवाकरम् ॥ १४१ ॥ ततोऽसौ जातमात्रोऽपि रत्नकम्बलवेष्टितः । स्वनामाङ्कसमा संगकंसमभूषिकां श्रितः ॥ १४२ ॥ महाजलप्लवासंगपूरितायामशेषतः । उग्रसेनेन भूपेन यमुनायां प्रवाहितः ॥ १४३ ॥' ततोऽसौ कंसमञ्जूषा यमुनाजलपूरतः । कौशाम्ब्याख्यपुरीं प्राप्य तस्थौ तत्रत्यसंगमे ॥ १४४ ॥ • अथ प्रभातकाले ai कौशाम्बीनगरीभवा । ददर्श कंसमञ्जूषां कल्पपाली रजोदरी ॥ १४५ ॥ विधायोद्घाटनं तस्या' दृष्ट्वा तन्मध्यगं शिशुम् । आदाय तां निनायासौ संतुष्टा निजमन्दिरम् ॥१४६॥ कंसमभूषिकान्तस्थो ततो लब्धोऽनया शिशुः । कंसनाम कृतं तस्य स्वगुणानुगतं ततः ॥ १४७ ॥ ततो मृष्टाशनेनाशु वृद्धिं नीतोऽनया शिशुः । सप्ताष्टवर्षतो जातो रूपराजित विग्रहः ॥ हन्ति पौरशिशून् बालः सर्वदा यष्टिघाततः । निर्धाटितः स्वतो गेहाज्जनोपालम्भतोऽनया ॥ 1. तया निर्धाटितः कंसस्तां पुरीं सूरिकाभिधाम् । जगाम सहसा रम्यां पताकावलितोरणैः ॥ गृहीतशस्त्रशास्त्रार्थो वसुदेवोपदेशतः । वरं च परमं लब्ध्वा तस्थौ कंसोऽपि संमदी ॥ मगधाख्य महादेशे पुरे राजगृहाभिधे । अर्धचक्री बभूवासौ जरासन्धाभिधो नृपः ॥ अभवत् तन्महादेवी कलिङ्गोपपदा यशाः । अनयोस्तनया तन्वी नाम्ना जीवंयशा परा ॥ आदेशोऽयं कृतस्तस्याः सत्यनैमित्तिकेन च । यथेयं विधवा कन्या भविष्यत्यल्पकालतः ॥ १५४॥ 15 यः पोदनापुराधीशं नृपं सिंहरथाभिधम् । बद्ध्वा नयति मत्पार्श्वं तस्मै दास्यामि कन्यकाम् ॥१५५॥ इयं प्रघोषणा दत्ता जरासन्धेन भूभुजा । समुद्रविजयाभ्याशं संप्राप्ता विधियोगतः ॥ १५६ ॥ समुद्रविजयः श्रुत्वा तद्वृत्तान्तमशेषतः । स्वसैन्यं वसुदेवं च प्रजिघाय तदन्तिकम् ॥ १५७ ॥ पोदनाख्यपुराभ्याशे स्कन्धावारं निधाय सः । सार्थवाहनिभेनागात् वसुदेवोऽपि तत्पुरम् ॥ १५८॥ सिंहानां विष्टमूत्राणि समादाय स्वसैन्यकात् । तद्गन्धेन च तत्सैन्यं भावयामास भूपतिः ॥१५९॥ 20 ततः सिंहरथं युद्धे वसुदेवोऽपि सादरम् । चकार विरथं शूरस्तदानीं कंससारथिः ॥ १६० ॥ वसुदेवस्ततः प्राह तदा कंसं पुरः स्थितम् । बद्धा सिंहरथं वत्स त्वमानय मदन्तिकम् ॥ अथ सिंहरथं बद्ध्वा वसुदेवरथे मुदा । कंसोऽपि च चकारेमं मत्तमातङ्गविभ्रमः ॥ घोषणां च प्रदायेमां वसुदेवोऽपि तत्पुरे । कंसेन सहसा युद्धे धृतः सिंहरथो नृपः ॥ ततः सिंहरथं शूरं वसुदेवः सकंसकः । मुदा समर्पयामास जरासन्धस्य भोगिनः ॥ 25 दृष्ट्वा पुरः स्थितं कंसं तोषपूरितमानसः । पप्रच्छ पितृसंबन्धं जरासन्धः कुतूहली ॥ जरासन्धवचः श्रुत्वा कंसोऽपि निजगाद तम् । सौलो' गङ्गटभोऽस्तीह कौशाम्बीनगरीभवः ॥१६६॥ रजोदरी च तद्भार्या रूपराजितविग्रहा । तत्पुत्रः कंसनामाहं शस्त्रशास्त्रकलान्वितः ॥ १६७ ॥ श्रुत्वा तद्वचनं राजा कौशाम्बीनगरीभवम् । दूतं प्रवेशयामास कंसस्य जननीं प्रति पुरस्कृत्य समञ्जूषां दूतः कंसस्य मातरम् । मुदा समर्पयामास जरासन्धस्य सत्वरम् ॥ " जरासिन्धो' विलोक्येमां समञ्जूषामभाषत । कंसस्ते नन्दनो भद्रे वद त्वं मे यथायथम् ॥ १७० ॥ निशम्य भारतीमस्य जगादैषा नरेश्वरम् । रत्नकम्बलसंयुक्तां कंसमञ्जषिकामिमाम् ॥ १७१ ॥ मुद्रासमन्वितां चाव दर्शयित्वा सभान्तरे । कंसो मन्नन्दनो नायं कंसमञ्जषिकासुतः ॥ १७२॥ कंसमञ्जूषिकामध्यं रत्नकम्बलकं तदा । उग्रसेनस्य नाम्नममङ्कितं ज्ञातवानसौ ॥ १७३ ॥
१६९ ॥
१६२ ॥
॥
१६८ ॥
१६९ ॥
Jain Education International
१५१ ॥
१५२ ॥
१५३ ॥
1 पफ युग्मम् ज युगलमिदम्. 2 पफ जलपूरितः 3फ तस्य 4 ज लब्धा. 5ज सैंहानि, 6 पफ स्वसैन्यकान्. 7 [ सौरो गङ्गभटो° ]. 8 [ जरासन्धो ] 9 पफ युग्मम् ज युगलमिदम्.
For Private & Personal Use Only
१६३ ॥
१६४ ॥
१६५ ॥
www.jainelibrary.org