________________
- १०६. १४० ]
उग्रसेन वसिष्ठकथानकम्
२७१
१११ ॥ *
११२ ॥
११३ ॥
आज्ञां देहि मुनेऽस्माकं 'तपोराशिसमुज्ज्वलाम् । भवतां धर्ममूर्तीनां किं कुर्मो वयमागताः ॥ १०९ ॥ * निशम्य तद्वचः साधुस्तोषसंतुष्टमानसः । वभाण विस्मयोपेता देवता विनय स्थिताः ॥ ११० ॥ यदा प्रयोजनं मे स्याद् भवतीभिः कुतूहलात् । मदन्तिकं तदा भद्रा द्रुतमागच्छत स्फुटम् ॥ निशम्य योगिनो वाक्यं देवता प्रीतचेतसः । यथागमं पुनर्जग्मुः स्मृतसाधुगुणान्तराः ॥ उग्रसेनादिभिर्भूपैर्वसिष्ठोऽवगतः क्षितौ । विहाय तापसं धर्मं दीक्षितो जिनशासने ॥ कृत्वा मासोपवासं च पारणार्थं विशुद्धधीः । मधुराख्यां पुरीं जातु विवेश प्रहरद्वये ॥ ११४ ॥ विशतोऽस्य पुरे दत्ता घोषणा भूभुजा तदा । दास्यामि पारणामस्मै वसिष्ठमुनयेऽन्वहम् ॥ ११५ ॥ योऽन्यः कोऽपि ददात्यस्मै पारणं नियतं मम । स दण्ड्यः पञ्चभिर्दण्ड्यैर्भविष्यति महीतले ॥१९६॥ भिक्षार्थं व्रजतः साधोः क्रमेण गृहतो गृहम् । न कोऽपि पारणामस्मै ददाति नृपभीतितः ॥११७॥ सर्वं पुरं परिभ्रम्य प्रविष्टो राजमन्दिरम् । न दृष्टो भूभुजा योगी निर्जगाम तदालयात् ॥ ११८ ॥ ७ गोवर्धनगिरिं प्राप्य वसिष्ठमुनिरादरात् । मासोपवासमादाय तस्थौ मुदितमानसः ॥ ११९ ॥ ततो मासोपवासान्ते प्रविश्य मथुरां पुरीम् । भिक्षामप्राप्य भूयोऽपि आरुरोह नगं तकम् ॥ १२० ॥ मासोपवासमादाय भूयोऽपि स मुनिः सुधीः । तस्थौ धृतिबलोपेतस्तद्विरौ विजितेन्द्रियः ॥ १२१ ॥ भूयो मासोपवासान्ते प्रविशन् मथुरां मुनिः । भिक्षार्थं वृद्धया नार्या दृष्टो मौनी कथंचन ॥ १२२ ॥ सा मुनिं वीक्ष्य तं प्राह भूभुजा विहितोऽनयः । निषिद्धः सकलो लोको भिक्षाय न ददाति ते ॥ १२३ ॥ is वृद्धनारीवचः श्रुत्वा कोपमासाद्य वेगतः । गोवर्धनगिरिं गत्वा दध्याविति स देवताः ॥ १२४ ॥ चिन्तितानन्तरं प्राप्य निगदन्ति तका मुनिम् । अस्मभ्यं देहि चादेशं क्षिप्रं किमपि सांप्रतम् ॥ निशम्य तद्वचः साधुः प्राहैताः पुरतः स्थिताः । उग्रसेननृपस्याशु गत्वा कुरुत हिंसनम् साधुवाक्यं समाकर्ण्य नृपहिंसापरायणम् । विस्मयव्याप्तचेतस्का देवता निगदन्त्यमुम् ॥ नाथ निर्ग्रन्थरूपेण स्थितस्य तव शोभनम् । हिंसोपदेशनं दातुं युज्यते न मनागपि ॥ १२८ ॥ 20 देवतावचनं श्रुत्वा भूयोऽपि निजगाद ताः । अन्यजन्मनि मे सर्वा निदेशं कुरुतादरात् ॥ १२९॥ उग्रसेनस्य दुष्टस्य चान्यजन्मनि देवताः । मद्भारतीं प्रपञ्चेन कुरुताशु निपातनम् ॥ १३० ॥ एवं निगद्य ता भूत्वा निदानं कालमप्यलम् । स मुनी रेवतीगर्भमाससाद प्रचण्डधीः ॥ रेवतीगर्भसंभूते सन्मुनौ तच्छरीरकम् । निरीक्ष्य दुर्बलं वाढं पप्रच्छेदं महीपतिः ॥ त्वच्छरीरं महादेवि तरां मत्प्राणवल्लभे । किंकारणमिदं जातं दुर्बलं वद मेऽधुना ॥ उग्रसेनवचः श्रुत्वा रेवती तन्मनःप्रिया । बभाणेमं धवं कृच्छ्राद् वचसाश्चर्यमीयुषा ॥ १३४ ॥ यतः प्रभृति कोऽप्येष जीवो माऽन्तर्भवाश्रितः । ततो मे दोहलो जातः सुतरामसुखप्रदः ॥ १३५॥ अनेन कारणेनेश दुर्बला नितरामहम् । संजाता कथितं ते च मया कुरु यथोचितम् ॥ १३६ ॥ निशम्य रेवतीवाक्यं उग्रसेनो जगावमुम् । कोऽशुभो दोहलो वक्तुं नाम यो मे न पार्थते ॥१३७॥ ततस्तद्वाक्यतः सा च हित्वा लज्जां वधूर्वरम् । जगाद निष्ठुरस्वान्ता निजकान्तं पुरः स्थितम् ॥१३८॥ ३७ त्वदीयं हृदयं नाथ नूनं कर्तिकया यदि । निकृत्य रुधिरं सर्वं पिबामि करसंपुटैः ॥ १३९ ॥ इदं भे दौहृदं नाथ क्रूरनिष्ठुरचेतसः । संजातमधुना सत्यं मया ते परिकीर्तितम् ॥ १४० ॥
॥
१३१ ॥ १३२ ॥
१३३ ॥ 28
1 [ तपोराशे ]. 2 पफ युग्मम्, ज युगलमिदम्. 8 पफ मदान्तिकं. 4 पफ युग्मम्, ज युगलमिदम्. 5 ज. चिन्तताः. 6 पफ युग्मम् ज युगलम् 7 पफ त्रिकलम् ज त्रिकलमिदम्. 8 पफ त्रिकलम्, ज त्रिकलमिदम् 9 [ कर्त्रिकया ]. 10 पफ त्रिकलम्, जत्रिकलमिदम्.
Jain Education International
१२५ ॥
१२६ ॥
१२७ ॥
For Private & Personal Use Only
www.jainelibrary.org