________________
२७०
हरिषेणाचार्यकृते बृहत्कथाकोशे [१०६. ७७काश्चिजीवपरित्यक्ताः काश्चिज्जीवसमन्विताः । काश्चिन्मूर्छा परिप्राप्ता दृश्यन्ते भुवि भूभुजा ॥७७॥' दृष्ट्वा मात्सलिका भूमौ पतितास्तजटान्तरात् । पूजयित्वा नृपो भूत्या प्रियङ्गुलतिकामपि ॥ ७८॥ ततः सभाजनं सर्वं विस्मयव्याप्तमानसम् । उग्रसेनो जगादाशु तोषकण्टकिताङ्गकः॥ ७९ ॥ जिनधर्म प्रकुर्वन्ति ये नरा ज्ञानिनस्तके । अयमज्ञानसंपन्नो वसिष्ठः कुरुते तपः ॥ ८०॥ 5 भूपालवचनं श्रुत्वा तदा सातिशयान्वितम् । जिनधर्मं सुखाधारं जगृहुर्बहवो नराः ॥ ८१॥
उग्रसेननृपो रोषाद् वसिष्ठं स्वपुरादरम् । नूनं निर्धाटयामास तद्विरक्तमनास्तराम् ॥ ८२ ॥ गन्धावतीनदीगङ्गासंगमं प्राप्य सत्वरम् । कुर्वस्तपो वसिष्ठोऽयमास्ते पञ्चाग्निनामकम् ॥ ८३ ॥ अत्रान्तरे नमेस्तीर्थे वीरभद्रो गणेश्वरः । तत्संगमं परिप्राप मुनिपञ्चशतावृतः ॥ ८४ ॥ दृष्ट्वाऽमुं तापसं तत्र जगावेको यतिर्युवा । उग्रं तपो भवेल्लोके तापसानां यशस्विनाम् ॥ ८५ ॥ 10 तत्साधुवचनं श्रुत्वा वीरभद्रो जगावमुम् । यते जीववधं चैषां कुर्वतां कीदृशं तपः ॥ ८६॥ वीरभद्रवचः श्रुत्वा वसिष्ठोऽपि बभाण तम् । भो भो मुने किमस्माकं कुरुषे खेन निन्दनम् ॥८७॥ को मया नियतं साधो कृतो जीववधो भुवि । कथं वाऽज्ञानसंयुक्तं तपो भवति मे वद ॥८८॥ वसिष्ठस्य वचः श्रुत्वा जगादैतं यतीश्वरः । स्वगुरुं क गतं वेत्सि ज्ञानी यद्यसि तं वद ॥ ८९ ॥ निशम्य मुनिचन्द्रस्य वचनं सत्यतावहम् । वसिष्ठोऽपि बभाणेमं कोपलोहितलोचनः ॥ ९०॥ 15 तापसानां तपो घोरं विधाय नरदुःकरम् । ब्रह्मलोके समुत्पन्नो मद्गुरुः परमोदयः ॥ ९१ ॥ दिव्यं सुखं मनोहारि हारकुण्डलराजितः । भुञ्जानो मद्गुरुर्देवस्तत्र साधो वितिष्ठते ॥ ९२ ॥ आकर्ण्य तद्वचः साधुर्जगावेतं परिस्फुटम् । त्वद्गुरुर्न गतः स्वर्ग तिर्यग्योनिमुपाश्रितः ॥ ९३ ॥ काष्ठस्य दह्यमानस्य चान्तरे वह्निनाऽस्य च । महाभुजङ्गमो जातो दह्यमानो वितिष्ठते ॥ ९४ ॥ तद्वाक्यतः समादाय कुठारं कोपसंगतः । काष्ठमुत्पाटयामास स वसिष्ठोऽनेन सत्वरम् ॥ ९५॥ ० काष्ठमध्ये ततो दृष्ट्वा दह्यमानं भुजङ्गमम् । वसिष्ठश्चिन्तयामास विस्मयव्याप्तमानसः ॥ ९६ ॥
संदेहमन्तरेणायं जिनधर्मो दयापरः । सर्वसत्त्वसुखाधारः सर्वधर्मोपरि स्थितः ॥ ९७॥ चिन्तयित्वा चिरं सोऽपि भक्तिहृष्टतनूरुहः । संप्राप्य तं गुरुं नाथं जगादेति ससंभ्रमः ॥९८॥ जिनधर्म परं साधो बन्धुं सर्वशरीरिणाम् । चिन्तामणिसमं लोके कथयेश ममाधुना ॥ ९९ ॥" वसिष्ठवचनं श्रुत्वा वीरभद्रो गणेश्वरः । जैन धर्म जगावस्मै सर्वसत्त्वसुखास्पदम् ॥ १०॥ 23 हित्वा स तापसं धर्म वसिष्ठो मुनिवाक्यतः । महावैराग्यसंपन्नो बभूव श्रमणो महान् ॥१०१॥ भिक्षालाभपरित्यक्तस्ततोऽसौ निजसूरिणा । समर्पितः श्रुतार्थं च शिवगुप्ताय सूरये ॥ १०२॥ पोषयित्वा स षण्मासं शिवगुप्तोऽपि सत्वरम् । अमुं समर्पयामास शिवभद्राय सूरये ॥ १०३॥ पोषयित्वा स भूयोऽपि षण्मासं सुमतेर्गुरोः । अमुं समर्पयामास शिवभद्रो गणाधिपः ॥ १०४ ॥ विधाय पोषणं चास्य षण्मासं तेन सूरिणा । निरस्तः स्वान्तिकादाशु निर्विण्णेन मुनिः सकः ॥१०५॥ 30 ततो निर्गत्य वेगेन संप्राप्यैकविहारताम् । स मुनिर्विहरन्नार मथुरां नगरी पराम् ॥ १०६ ॥ नानातपः प्रकुर्वाणो गोवर्धनगिरौ सति । संतिष्ठते मुनिधीरमध्यासितपरीपहः ॥ १०७॥ एवं हि तिष्ठतस्तत्र कुर्वाणस्य तपः परम् । देवता वशतां प्राप्य बभणुस्तं पुरः स्थिताः ॥१०८॥
1 पफ त्रिकलम् , ज त्रिकलमिदम्.. 2 पफ त्रिकलम् , ज त्रिकलमिदम्. 3 पफ युग्मम् , ज युगलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम् , ज युगलमिदम्. 6 पफ त्रिकलम्, ज त्रिकलमिदम्. 7 फ omits No. 103.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |