________________
- १०६. ७६ ]
उग्रसेन वसिष्ठकथानकम्
२६९
5
निशम्य भूपतेर्वाक्यं प्रियङ्गुलतिका नृपम् । जगाद विह्वलस्वान्ता रुदन्ती गद्गदाक्षरम् ॥ ४५ ॥ नरेन्द्राहं समुत्पन्ना कर्मभिर्दुः कृतात्मभिः । पण्यस्त्रीकुलसंभूता परप्रेषणकारिणी ॥ ४६ ॥ स्वामिन्या जलमानेतुं प्रेषिता यमुनानदीम् । यत्र तिष्ठत्ययं योगी कुर्वाणो विविधं तपः ॥ ४७ ॥ पानीयघटनारीभिः समं बह्वीभिरादरात् । गताऽहं जलमानेतुं प्रदेशं तं नरेश्वरः ॥ ४८ ॥ सर्वा मनोरमा रामाः पुण्ययुक्ता महीपतेः । पतन्ति पादयोर्भक्त्या वसिष्ठस्यास्य धीमतः ॥ ४९ ॥ स्वस्वामिनीभयेनाहं जलमादाय सत्वरम् । नरेन्द्र स्वगृहं यामि स्वकीयोदरपूरणात् ॥ ५० ॥ योषितोऽन्या वदन्त्येवं मां नरेश पुनः पुनः । प्रियङ्गुलतिके यामो मुनिं नन्तुं तपोनिधिम् ॥ ५१ ॥ इमा मयोदिता राजन् भवन्त्यः पुण्यसंभवाः । स्ववशाः पादयोरस्य कुरुध्वं पतनं मुनेः ॥ ५२ ॥ मन्दभाग्या त्वहं दीना दारिद्रभयपीडिता । तिष्ठामि दुःखिनी नित्यं पापनिर्मितविग्रहा ॥ ५३ ॥ समस्त महिला भूप मां विहाय प्रयत्नतः । वसिष्ठचरणौ नन्तुं प्रययुस्तत्समीपताम् ॥ ५४ ॥ अहं जलभृतौ कुम्भौ समादाय त्वरावती । गता निजगृहं भूप स्वामिनीभयतो द्रुतम् ॥ ५५ ॥ प्रियङ्गुलतिके शीघ्रं वसिष्ठस्यास्य सन्मुनेः । पादयोः पतनं चाद्य कर्तव्यं भक्तितस्त्वया ॥ ५६ ॥ करोषि यदि वा न त्वं पादयोः पतनं खले । ततो न विद्यते मोक्षस्तवाद्य विनुतिं विना ॥ ५७ ॥ अर्धचन्द्रं गले दत्त्वा समस्त महिलाजनैः । पादान्तिकं मुनेरस्य नीताऽहं नन्तुमिच्छया ॥ ५८ ॥ उक्तास्ततो मया राजन् कोपमासाद्य योषितः । महाकलकलारावं कुर्वन्त्यः पुरुषं तराम् ॥ ५९ ॥ ” हठकारेण चैतस्य मकां चरणवन्दनाम् । कारयिष्यथ भो कस्मान्मीनबन्धकारिणः ॥ ६० ॥ श्रुत्वा मद्वचनं योगी कुर्वन्नाक्रोशनं रुषा । लग्नः पश्चाद्विरामाणां युवतीनां विहाय माम् ॥ ६१ ॥ योषितस्तद्भयात् त्रस्ता गतास्ताः कांदिशीकताम् । तन्मुक्ताऽहं गृहं प्राप्ता निजं मुनिभयाकुला ॥६२॥ एतावानेव राजेन्द्र मुनेरस्य पराभवः । मया कृतोऽपरं दोषं न जानामि मनागपि ॥ ६३ ॥ * प्रियङ्गुलतिकावाक्यं श्रुत्वा योगी जगावमुम् । इदमश्रुतपूर्वं किं तव येन विकत्थसे ॥ ६४ ॥ मत्पिता ब्राह्मणो दुष्टे सर्वलोकपितामहः । जगत्कर्ता जगत्ख्यातः प्रजापालों जनप्रियः ॥ ६५ ॥ एवमादिगुणस्यास्य ज्येष्ठपुत्रो गुणाकरः । चतुर्वेदसमायुक्तः सर्वशास्त्रार्थकोविदः ॥ ६६ ॥ ब्रह्मचारी सदा योगी कुर्वाणस्तापसं तपः । वायुभक्षणं चापि ब्रूषे मां मात्सिकं च किम् ॥६७॥ वसिष्ठवचनं श्रुत्वा प्रियङ्गुलतिका जगौ । यदि त्वं लक्षणं वेत्सि मात्सिकस्य' ततो वद ॥ ६८ ॥ श्रुत्वा तद्वचनं साधुर्जगावेतां पुरः स्थिताम् । यो मीनमारणं कुर्यात् स भवेद् भुवि मात्सिकः ॥ ६९॥ 25 आकर्ण्य तद्वचः साऽपि बभाणेमं स्फुटाक्षरम् । यद्येवं त्वमसि स्पष्टं हन्ति मत्स्याननारतम् ॥७०॥ अवाचि साधुना चापि चेटिकेऽहं कथं खले । निहन्मि " मात्सिकान् पापे त्वं ब्रूहि मम सांप्रतम् ॥ ७१ ॥ वसिष्ठवचनं श्रुत्वा न्यगदत् तं पुनः सका । पाठीनोत्कलनं कृत्वा जले त्वं मज्जसि द्रुतम् ॥ ७२ ॥ समस्तभुवनख्यातकीर्तिशुक्लीकृताम्बर । मुने शुष्कजटाभारान्निहंसि शफरीगणान् ॥ ७३ ॥ यदि मद्वचनं साधो न श्रद्दधासि सांप्रतम् । ततो निजं जटाभारं विरलीकुरु संसदि ॥ ७४ ॥" ततस्तद्वचनात् तूर्णं रक्तीकृतनिरीक्षणः । अधः " स्रंस्तीचकारायं जटाभारं सभान्तरे ॥ ७५ ॥ वर्षाघनाघनोन्मुक्ता जलधारा इव द्रुतम् । पतन्ति तज्जटाभाराच्छफर्यो नृपसंसदि ॥ ७६ ॥
I
1 पफ प्रेक्षता. 2 [ नरेश्वर ]. 3 [ परुषं ]. 4 पफ कुलकम् ज कुलकमिदम् 5[ मात्स्यिकं ]. 6 पफ चतुःकुलकम् ज चतुः कुलकमिदम्. 7 [ मात्स्यिकस्य ] 8 [ मात्स्यिकः ]. 9 फ हति, [ हंसि ]. 10 [ मात्स्यकान् ]. 11 पफ त्रिकलम् ज त्रिकलमिदम् 12 [ अधः स्रंसी ].
Jain Education International
For Private & Personal Use Only
10
20
30
www.jainelibrary.org