________________
२६८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[१०६. १२तअटाभारमध्यस्थाः काश्चिजीवन्ति विह्वलाः। काश्चिन्मृति परिप्राप्ताः शर्यः सन्ति मूच्छिताः॥१२॥ एवं बालं तपो बाढं कुर्वाणो निजवाञ्छया । अज्ञातपरमार्थोऽसौ तिष्ठति प्रीतमानसः ॥ १३॥' कालिन्दाख्यनदीतीरे वसिष्ठं वीक्ष्य योषितः । संध्याद्वयेऽपि तं नत्वा गच्छन्ति निजमन्दिरम् ॥१४॥ पानीयघटनारीभिः प्रियङ्गुलतिका गता । वसिष्ठपादयोर्जातु न प्रणामं करोति सा ॥१५॥ । प्रियङ्गुलतिकां दृष्ट्वा साधो तिमकुर्वतीम् । जगुस्ता योषितस्तां च कोपारुणनिरीक्षणाः ॥ १६ ॥
प्रियङ्गुलतिके कस्मान्मुनेः पादकुशेशयम् । हले न वन्दसे ब्रूहि सुरासुरनतं तराम् ॥ १७॥ निशम्य तद्वचस्ताश्च प्रियङ्गुलतिका जगौ । भवत्यः स्ववशा नित्यं कृतपुण्यकदम्बकाः ॥१८॥ अहं परवशा पुण्या खामिनो भयवेपिता । जलं कुटगतं कृत्वा यामि गेहं त्वरावती ॥ १९॥ तेन मेऽवसरो नास्ति पतन्याः पादयोर्मुनेः । परप्रेषणकारिण्याः पर्यायो न हि जायते ॥२०॥ ॥ अन्यच्च यो बुधः कोऽपि धर्माधर्मविवेकधीः । स प्रणामं करोत्यस्य योगिनः पादपङ्कजे ॥२१॥ धर्माधर्मफलं नूनं न जानामि मनागपि । वसिष्ठस्यास्य धन्यस्य विदधामि कथं नतिम् ॥ २२ ॥ एवं निगद्य ता बाला प्रियङ्गुलतिकाभिधा । दिने दिने समादाय जलं याति गृहं स्वकम् ॥ २३॥ अन्यदा सकला रामा पानीयार्थ समागताः । वसिष्ठाख्यमुनेत्या विनेमुः पदपङ्कजम् ॥ २४ ॥ प्रियङ्गुलतिका चैका वसिष्ठनतिवर्जिता । तदा तदृन्दमध्यस्था पश्यन्ती व्यवतिष्ठते ॥ २५॥ 15 एवं सा तिष्ठती बाला समस्तरमणीजनैः । हस्तापहस्ततो धृत्वा नीता तन्मुनिसंनिधिम् ॥ २६ ॥ प्राप्याथ तत्समीपं च प्रियङ्गुलतिकामिमाम् । जगुस्ता योषितः क्रोधादिदमाकुञ्चितभ्रवः ॥ २७॥ प्रियङ्गुलतिके क्षुद्रे विशिष्टस्यास्य योगिनः । त्वयाऽवश्यं नतिः कार्या नान्यथा गमनं तव ॥२८॥ निशम्यासां वचः साऽपि तां जगौ क्रुद्धमानसा । धीवरस्य परं पादौ नमाम्यस्य न योगिनः॥२९॥ प्रियङ्गुलतिकावाक्यं निशम्य क्रोधमाप्य सः । उग्रसेनं परिप्राप्य वसिष्ठो निजगाविदम् ॥ ३०॥ 20 कुर्वाणोऽहं तपो राजन् जिनदत्तेन रोषितः। धीवरो गदितो बुद्धिर्महापापविधायकः ॥ ३१ ॥
वसिष्ठवचनं श्रुत्वा कोपमासाद्य वेगतः । प्रतीहारं जगौ राजा सभामध्ये व्यवस्थितः ॥ ३२॥ प्रतीहार खलं दुष्टं समदं जिनदत्तकम् । त्वरितं प्राप्य तत्पार्थ मदन्तं तं त्वमानय ॥ ३३ ॥ नरेन्द्रवचनात् प्राप्य प्रतीहारो जगावमुम् । उत्तिष्ठ भूपसामीप्यं त्वमेहि नृपवाक्यतः ॥ ३४ ॥
प्रतीहारस्य वाक्येन जिनदत्तो नृपं ययौ । उग्रसेनोऽपि दृष्ट्वाऽमुं जगौ क्रोधारुणेक्षणः ॥ ३५ ॥ 25 किं कारणमिमं साधुं धीवरं वदसि स्फुटम् । तद्वाक्यतो नृपं प्राह जिनदत्तोऽपि सादरम् ॥३६॥
यद्यहं "मासिकं साधुं ब्रवीमि मनसाऽप्यलम् । ततो नरेन्द्र नीतिज्ञो मत्प्रमाणमयं मुनिः ॥३७॥ जिनदत्तवचः श्रुत्वा जगौ राजा तपोधनम् । किं मुने सत्यमेवेदं यक्ति वणिजां पतिः ॥ ३८॥ उग्रसेनवचः श्रुत्वा वसिष्ठोऽपि बभाण तम् । न वक्तीदमयं राजन् प्रियङ्गुलतिका जगौ ॥३९॥ वसिष्ठस्य वचः श्रुत्वा जिनदत्तो नृपं जगौ । दृष्टं सत्यमिदं राजन् मुनेरस्य तपखिनः ॥४०॥ 30 जैनदत्तं वचः श्रुत्वा गदितोऽयं नरेशिना । अधुना जिनदत्त त्वं निर्दोषोऽसि मदुक्तितः ॥४१॥ ततो भूपेन साऽऽहूता प्रियङ्गुलतिका द्रुतम् । प्रणम्य भूपति भक्त्या निविष्टा नृपसंनिधौ ॥४२॥ दृष्ट्वा पुरः स्थितां राजा प्रियङ्गुलतिकामिमाम् । उग्रसेनो जगादाशु कोपलोहितलोचनः ॥४३॥ प्रियङ्गुलतिके पापे त्वं मुनीशं तपोधनम् । ब्रवीषि 'मासिकं दुष्टे छिनमि रसनां तव ॥४४॥
1 पफ कुलकम् , ज कुलकमिदम्. 2 पफ पतन्या. 3 पफ नता. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम् ,ज युगलमिदम्. 6 [मात्स्यिक]. 7 [मात्स्यिकं]. 8 पफ युग्मम् , ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org