________________
- १०६. ११ ]
उग्रसेनवसिष्ठकथानकम्
२६७
जलकान्तविमानेऽसौ सौधर्मस्वर्गसंभवे । जातो महर्द्धिको देवो पञ्चपल्योपमस्थितिः ॥ ३१६ ॥ ततश्युतः पुनर्भूप चम्पाख्यनगरीभवः । इभ्यः श्रेष्ठिसुतो जातो भवदेवाभिधानकः ॥ ३१७ ॥ जैनं तपो विधायासौ भवदेवः समाधिना । सनत्कुमारकल्पेऽभूत् सप्तसागरजीवितः ॥ ३१८ ॥ सनत्कुमारतयुत्वा श्रीमदुञ्जयिनीभवः । राजन् बभूव मेदजः समस्तवणिजां पतिः ॥ ३१९ ॥ अच्युतेन्द्रोपदेशेन यतित्वं प्राप्य यत्नतः । सहित्वाऽङ्गारदेवस्य चोपसर्गं स केवली ॥ ३२० ॥ स्फटहस्तो' वणिग् यस्तु सोऽहं मेदजकेवली । अभूवं भूपते नूनं ज्ञाताखिलपदार्थकः ॥ ३२१ ॥ गरुडोपपदो दत्तो ज्यायान् मन्नन्दनोऽपि यः । सोऽयमङ्गारदेवोऽभूत् कृतसंसारहिण्डनः ॥३२२॥ रक्षन्निजधनं यत्नाद्दन्दशूकः स भूपते । हतो गरुडदत्तेन वैरं तेनावयोरभूत् ॥ ३२३ ॥ नागदत्तोऽपि मत्पुत्रो तपः कृत्वा जिनोदितम् । अच्युतेन्द्रो बभूवायं तेनाहं प्रतिबोधितः ॥ ३२४ ॥ जिनधर्मं समादाय नूनं नागवसूरियम् । देवलोकं परिप्राप्ता देवदेवीमनोहरम् ॥ ३२५ ॥ देवलोकात् समागत्य श्रीमदुज्जयिनीभवा | अधुनैषार्यिका जाता तिष्ठति प्रीतमानसा ॥ ३२६ ॥ श्रुत्वा केवलिनो वाक्यं वैरसंबन्धकारणम् । बभूव प्रीतचेतस्को गन्धर्वानीकभूपतिः ॥ ३२७ ॥ श्रुत्वा स्ववैरसंबन्धं संसारार्णवकारणम् । विहाय सकलं संगं वैराग्याहितमानसः ॥ ३२८ ॥ विधाय वन्दनां भक्त्या कृतनिन्दनगर्हणः । जग्राहाङ्गारदेवोऽयं तपः केवलिनोऽन्तिके ॥ ३२९॥ विधायाङ्गारदेवोऽपि तपः कालं समाधिना । अधो ग्रैवेयके मध्ये दिव्यामोदिविमानके ॥ ३३० ॥ 15 दिव्यरूपधरः श्रीमान् वस्त्राभरणभूषितः । चतुर्विंशत्समुद्रायुरहमिन्द्रो बभूव सः ॥ ३३१ ॥ च्युतोऽमुतो भवं प्राप्य कृत्वा जैनं तपः परम् । ध्रुवमङ्गारदेवोऽयं सिद्धिं प्राप्स्यति नीरजः ॥ ३३२ ॥ गन्धर्वानीकभूपोऽपि बहुभिर्नरकुञ्जरैः । तपो जग्राह जैनेन्द्रं तदा केवलिनोऽन्तिके ॥ ३३३ ॥ मेदज्जकेवली कृत्वा विहारं केवलस्य सः । पर्वते खड्गवंशाख्ये निर्वाणमगमत् पुनः ॥ ३३४ ॥ श्रीकलत्रपुत्रादिसहितस्पटहस्तकश्रेष्ठिकथानकम् ॥ १०५ ॥
॥ इति
*
१०६. उग्रसेनवसिष्ठकथानकम् ।
1
शूरसेनजनान्तेऽस्ति मथुरा नगरी परा । उग्रसेनो नृपस्तस्यास्तत्प्रया रेवती मता ॥ १ ॥ महाविनयसंपन्नौ प्रतापाक्रान्तशात्रवौ । कंसातिमुक्तकौ पुत्रौ भवेतामनयोः परौ ॥ २ ॥ जिनदत्तोऽभवत् तस्यां श्रावको दर्शनान्वितः । कान्ता जिनमती तस्य तन्मनोहरणक्षमा ॥ ३ ॥ अस्यैव श्रेष्ठिनो दिव्या हिता कर्मकरी तराम् । जिनेन्द्रभक्तिसंयुक्ता प्रियङ्गुलतिकाभिधा ॥ ४ ॥ सम्यग्दर्शनसंपन्ना जिनभक्तिपरायणा । रूपातिशयसंयुक्ता कलाविज्ञानकोविदा ॥ ५ ॥ नमितीर्थेऽन्यदा दिव्यमथुरां परमोदयाम् । वसिष्ठस्तापसः प्राप सितसौधविराजिताम् ॥ ६ ॥ पञ्चाग्याख्यं तपः सोऽयं यमुनाख्यनदीतटे । नानातरुकृतच्छाये स्वच्छपानीयराजिते ॥ ७ ॥ अग्निं प्रज्वाल्य संदीप्तं दिक्षु सर्वासु सादरम् । सूर्याग्निनाऽप्यसौ तप्तचोर्ध्वबाहुस्तपोऽकरोत् ॥ ८ ॥ अक्षसूत्रं जपन् वातं पिबन् लम्बजटाधरः । पञ्चाग्नितप्तदेहोऽसावेकपादस्थितो तपन् ' ॥ ९ ॥ तत्तापतप्तसर्वाङ्गो विह्वलीभूतमानसः । मीनोप्लुतिं विधायासौ पपात यमुनाहदे ॥ १० ॥ निमज्जनं विधायात्र प्रोत्तीर्यं यमुनाजलात् । भूयस्तपश्चकारेदं वसिष्ठोऽशिष्टभावनः ॥ ११ ॥
1 [ स्पटहस्तो ] 2
पफ कुलकम् ज कुलकमिदम्. 3 पफ युग्मम्, ज युगलम्. 5 ज स्फट. 6 पफज put No. 104 7 [ स्थितस्तपन् ] 8 पफ प्रतीर्य.
ज युगलम्.
Jain Education International
4 पफ युग्मम्,
For Private & Personal Use Only
5
10
20
25
30
www.jainelibrary.org